Page loading... Please wait.
6|4|156 - स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः
॥ तस्मै पाणिनये नमः ॥
6|4|156
SK 2015
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः   🔊
सूत्रच्छेदः
स्थूल-दूर-युव-ह्रस्व-क्षिप्र-क्षुद्राणाम् (षष्ठीबहुवचनम्) , यणादिपरम् (प्रथमैकवचनम्) , पूर्वस्य (षष्ठ्येकवचनम्) , च (अव्ययम्) , गुणः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति। स्थूल स्थविष्ठः। स्थवीयान्। दूर दविष्ठः। दवीयान्। युवन् यविष्ठः। यवीयान्। ह्रस्व ह्यसिष्ठः। ह्यसिमा। ह्यसीयान्। क्षिप्र क्षेपिष्ठः। क्षेपिमा। क्षेपीयान्। क्षुद्र क्षोदिष्ठः। क्षोदिमा। क्षोदीयान्। ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते। परग्रहणं किम्? यविष्ठः, यवीयान्, ह्यसिष्ठः, ह्यसीयानित्यत्र पूर्वस्य यणादेर्लोपो मा भूत्। पूर्वग्रहणं विस्पष्टार्थम्।
यद्यपि पूर्वं भावसाधनो लोपशब्द उपात्तः, तथापीह कर्मसाधनो गृह्रते; यणादिपरिमिति निर्देशात्। भावसाधने हि तस्मिन्? `कर्त्तृकर्मणओः कृति` 2|3|65 इति षष्ठी स्यात्। कर्मसाधने तु कर्मणस्तेनैषाभिहितत्वात्? प्रथमैव युज्यत इति मन्यमानो लापशब्दस्य कर्मशब्दस्य कर्मसाधनतां दर्शयन्नाह--`यणादिपरं लुप्यते` इति। कथं पुनस्तस्यैव भावसाधनस्य सतः कर्मसाधनतोपपद्यते? कः पुनराह--`तस्यैव` इति! प्रतिसूत्रं ह्रनुवत्र्तमानो लोपशब्दो भिद्यते। ननु च यणादौ परस्मिन्? लुप्ते सामथ्र्यात्? तत्पूर्वस्यैव गुणो विज्ञास्यते, तत्? किमर्थं पूर्वग्रहणम्? इत्याह--`पूर्वग्रहणं विस्पष्टार्थम्` ति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः - स्थूलदूर । एषामिति । स्थूल, दूर, युवन् ह्यस्व, क्षिप्र, क्षुद्र इत्येतेषामित्यर्थः । यणादीति । यण् — आदिर्यस्येति विग्रहः ।पर॑मितियणादी॑त्यस्य विशेषणम् । परभूतंयणादीत्यर्थः । लुप्यत इति । "अल्लोपोऽनः" इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घञन्तमाश्रीयत इत्यर्थः । भावसाधनत्वे परमित्यनेन सामानाधिकरण्याऽसंभवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्ठादिष्विति । "तुरिष्ठेमेयस्सु" इत्यतस्तदनुवृत्तेरिति । भावः । स्थविष्ठ इति । स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण ओकारः । अवादेश इति भावः । ओर्गुणस्तु न प्रवर्तते, यणादिलोपस्याऽ‌ऽभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः । यविष्ठ इति । युवन्शब्दादिष्ठनिव॑न्नित्यस्य लोपे गुणे अवादेशः ।पर॑मित्यनुक्तौ "यु" इत्यस्यापि यणादेर्लोपः स्यात् । ह्यसिष्ठ इति । ह्यस्वशब्दादिष्ठनि "व" इत्यस्य लोपः ।पर॑मित्यनुक्तावत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयसिति । स्थवीयान्, दवीयान्, यवीयान्, ह्यसीयान्, क्षेपीयान्, क्षोदीयान् । इमनिजनुवृत्तेः प्रयोजनमाह — ह्यस्वक्षिप्रेति ।
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः - स्थूलदूर । परग्रहणं यविष्ठो ह्यसिष्ठ इत्यत्र पूर्वयणादेर्वोपो माभूदिति । पूर्वग्रहणं तु स्पष्टार्थम् । परस्मिन् लुप्ते सामथ्र्यात्पूर्वस्यैव गुणवलाभात् । स्थविष्ठ इति । न चाऽत्रओर्गुम॑इत्येव सिद्धे गुणग्रहणं व्यर्खमिति वाच्यं, परयणादिलोपस्याभीयत्वेनाऽसिद्धत्वात् क्षिप्रक्षुद्रयोरोर्गुणस्य प्राप्त्यभावात् । क्षेपिष्ठः क्षोदिष्ठ इत्यसिद्धिप्रसङ्गाच्च । एवमिति । प्रेयान् । स्थेयान् । स्फेयाम् । वरीयानित्यादि । इमेयसोर्लोप इति । स चआदेः परस्ये॑इत्यादेरेव भवति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.