Page loading... Please wait.
6|1|123 - अवङ् स्फोटायनस्य
॥ तस्मै पाणिनये नमः ॥
6|1|123
SK 88
अवङ् स्फोटायनस्य   🔊
सूत्रच्छेदः
अवङ् (प्रथमैकवचनम्) , स्फोटायनस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
अचि  6|1|77 (सप्तम्येकवचनम्) , पदान्तात्  6|1|109 (पञ्चम्येकवचनम्) , विभाषा  6|1|122 (प्रथमैकवचनम्) , गोः  6|1|122 (षष्ठ्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
पदान्तात् गोः अचि अवङ् विभाषा स्फोटायनस्य
सूत्रार्थः
पदसंज्ञकस्य गो-शब्दस्य स्वरे परे विभाषा अवङ्-आदेशः भवति ।
अवङ् इति ङित्-आदेशः अस्ति, अतः ङिच्च 1|1|53 इत्यनेन अयम् स्थानिनः अन्तिमवर्णस्य स्थाने एव आगच्छति ।

यथा - गो + अग्रम् → ग् अव अग्रम् = गवाग्रम् ।

एतत् विकल्पेन भवति, अतः विकल्पाभावे सर्वत्र विभाषा गोः 6|1|122 इत्यनेन गोअग्रम्, गोऽग्रम् एते अन्ये द्वे रूपे अपि सिद्ध्यतः ।

ज्ञातव्यम् -
1. "स्फोटायन" इति कश्चन वैयाकरणः । अस्मिन् सूत्रे तस्य नाम पूजार्थम् स्वीकृतम् अस्ति । अष्टाध्याय्यां सामान्यरूपेण यत्र पाणिनिः अन्येषाम् आचार्याणाम् नाम उक्त्वा किञ्चन कार्यं वदति, तत्र तत् कार्यं वैकल्पिकं मन्यते । परन्तु अत्र पाणिनिना "विभाषा" इति उक्त्वा आदौ एव वैकल्पिकत्वम् उक्तम् अस्ति । अतः अत्र "स्फोटायन"-मुनेः ग्रहणम् केवलं पूजार्थम् (आदरार्थम्) क्रियते इति पण्डिताः मन्यन्ते ।

2. "गो + अक्ष" इत्यत्र इदम् सूत्रम् नित्यम् कार्यं करोति, विकल्पेन न । अतः "गो + अक्ष = गवाक्ष" एतादृशम् एव कार्यम् भवति । अत्र सर्वत्र विभाषा गोः 6|1|122 इत्यस्य प्रयोगः न करणीयः ।

विशेषः - येषु सूत्रेषु "विभाषा" शब्दस्य प्रयोगं कृत्वा अपि तादृशानि उदाहरणानि दृश्यन्ते येषु विकल्पस्य प्रयोगः न भवति, तेषु सूत्रेषु सा विभाषा "व्यवस्थितविभाषा" अस्ति इत्युच्यते । "व्यवस्थितविभाषा" अयम् विभाषायाः एव कश्चन भेदः यत्र सर्वेषु प्रयोगेषु विभाषा न भवति, अपितु केषुचन प्रयोगेषु सूत्रेण उक्तं कार्यम् नित्यं भवति, केषुचन अन्येषु प्रयोगेषु नैव भवति ।
One-line meaning in English
The पदसंज्ञक गो word, when followed by a स्वर gets an अवङ् आदेश optionally.
काशिकावृत्तिः
अति इति निवृत्तम्। अचि इत्येतत् त्वनुवर्तत एव। अचि परतः गोः स्फोटायनस्य आचार्यस्य मतेन अवङादेशो भवति। गवाग्रम्, गो ऽग्रम्। गवाजिनम्, गो ऽजिनम्। गवौ दनम्, गवोदनम्। गवोष्ट्रम्, गवुष्ट्रम्। आद्युदात्तश्च अयम् आदेशो निपात्यते, स निपातनस्वरो बहुव्रीहौ प्रकृतिस्वरविधाने भवति। गावः अग्रम् अस्य गवाग्रः इति। अन्यत्र तु समासान्तौदात्तत्वेन बाध्यते। स्फोटायनग्रहणं पूजार्थं, विभाषा इत्येव हि वर्तते। व्यवस्थितविभाषा इयं, तेन गवाक्षः इत्यत्र नित्यम् अवङ् भवति।
`अतीति निवृत्तम्` इति। यद्यपीत्यनुवत्र्तेत तदा गवौदनादौ न स्यात्, तस्मादतीत्येतदस्वरितत्वा न्निवृतम्। हल्यपि तर्हि प्राप्नोति? इत्यत आह--`अचीत्येतत्पुनरनुवत्र्तते` इति। `इको यणचि` 6|1|74 इत्यतः; सा पुनस्तस्यानुवृत्तिर्मण्डूकपलुतिन्यायेन वेदितव्या। न हि `सम्प्रसारणाच्च` 6|1|108 इत्यतः परेण ये योगा अस्माद्योगात्? पूर्वं तेषु `अति` इत्यस्यानुवृत्तिरस्ति। तथा च पूर्वमुक्तम्--`अचीति चायमधिकारः `सम्प्रसारणाच्च` 6|1|104 इति यावत` इति। `गवाग्रहम्, गवाजिनम्` इति। बहुव्रीहिः, तत्पुरुषो वा। `गवोष्ट्रम्` इति द्वन्द्वः। `आद्युदात्तश्चायम्` इत्यादि। इह गावोऽग्रमस्येति बहुव्रीहौ कृते पूर्वपदप्रकृतिस्वरत्वं च च प्राप्नोति, अवङादेशश्च, तत्रान्तरङ्गत्वादवङ्भवति, स च भवन्? प्रातिपदेकस्वरेणान्तोदात्तस्य गोशब्दस्य स्थान आन्तरयतोऽन्तोदात्त एव स्यात्। तस्मिन्? सति पश्चात्? प्रकृतिस्वरे कृतेऽन्तोदात्तत्वं पूर्वपदस्यापद्येत, आद्युदात्तश्चेष्यते, तस्मादाद्युदात्तोऽयमादेशो निपात्यते। यद्येवम्, तत्पुरुषादावपि स एव निपातनस्वरः प्राप्नोति? इत्यत आह--`अन्यत्र तु` इत्यादि। अन्यत्रेति--तत्पुरुषे, द्वन्द्वे च। गोशब्दस्यायमादेश इति तत्सम्बन्ध्येव शब्दान्तरं निपातनस्वरेण बाध्यते, न समासस्वरः। तस्माद्वहुव्रीहेरन्यत्र तत्पुरषादौ समासान्तोदात्तत्वेन निपातनस्वरो बाध्यते, `स्फोटायनग्रहणं पूजार्थम्` इति। किं पुनः कारणं विकल्पार्थं न भवति? इत्याह--विभाषेत्येव हि वत्र्तते` इति। किमर्थं पुनरवङ् विधीयते? अगेव न विधीयेत, तत्रापि ह्रवादेशेन सिध्यत्येव? सिध्यति; `एङः पदान्तादति` 6|1|105 इति पूर्वरूपत्वं प्राप्नोति। ननु चाकि विहिते सति तदन्तो न भवति? आगमस्य तद्ग्रहणेन ग्रहणात्।न ह्रोकारस्य प्राक्? प्रवृत्ता पदान्तता नास्तीति शक्यं वक्तुम्॥
स्फोटोऽयनं परायणं यस्य स स्फोटायनःउस्पोटप्रतिपादनपरो वैयाकरणाचार्यः। ये त्वौकारं पठन्ति, ते नडादिष्वश्वादिषु वा पाठ्ंअ मन्यन्ते। अतीति निवृतमिति। अन्यथा गवौदनादौ न स्यात्। न चैवं सत्यतिप्रसङ्गः ? इत्याह---अचीत्येतत्विति। सर्वत्र चात्र व्याख्यानमेव शरणम्। यद्यचीत्यनुवर्तते कथम् ठिको यणिचिऽ इत्यत्रौक्तम्--ठ्ठचीति चाधिकारः ठ्सम्प्रसारणाच्चऽ इति यावत्ऽऽ इति ? निरन्तरानुवृत्यभिप्रायं तदित्यदोषः। गवाग्रम्, गवाजिनमिति। बहुव्रीहिः, तत्पुरुषो वा। गवोष्ट्रमिति। द्वन्द्वः, गोरग्वचनम् गोरग्वक्तव्यः, तत्रापि अवादेशेन सिद्ध्यत्येव। न च ठेङः पदान्तात्ऽ इति पूर्वत्वप्रसङ्गः; अगागमस्य तद्ग्रहणेन ग्रहणादोकारस्यापदान्तत्वात्। किं प्रयोजनम्? लाघवं तावद्भवति, स्वरे च न दोषः। कथमागमा अनुदाताः ? तत्र गवाग्रादौ बहुव्रीहौ पूर्वपदप्रकृतिस्वरेणागमानुदातत्वं सम्भवति, अवङदेशे त्वान्तर्यतोऽन्तोदातस्यान्तोदातोऽवङदेशः स्यात्। ननु चास्यैकाचः सतो व्यपदेशिवद्भावेनान्तोदातत्वमेष्टव्यम्, तत एवाद्यौदातत्वमपि भविष्यति, ततः किमाद्यौदातस्याद्यौदात आदेशो भविष्यति ? सत्यमेवमेतत्; न त्विदं लक्षणमस्ति--प्रातिपदिकस्यादिरुदातो भवतीति, इदं पुनरस्ति--प्रातिपदिकस्यान्त उदातो भवतीति। योऽसौ लक्षणेनान्तोदातः, तत्रान्तर्यतोऽन्तोदात आदेशः प्राप्नोति। ननु गमेर्डो विधीयते? ततः किम्, प्रत्ययाद्यौदातत्वे कृते आन्तर्यत आद्यौदात आदेशो भविष्यति। कथं पुनरयमाद्यौदातः, यावता एकाच् व्यपदेशिवद्बावेन? यद्येवम्, तत एवान्तोदातोऽपि, तत्रान्तर्यतोऽन्तोदातस्यान्तोदातोऽवङदेशः प्रसज्यते ? सत्यम्; नन्विचं लक्षणमस्ति--प्रत्ययस्यान्तोदातो भवतीति, इदं पुनरस्ति--प्रत्ययस्यादिरुदातो भवतीति। योऽसौ लक्षणेनाद्यौदातस्तत्रान्तर्यत आद्यौदात आदेशो भविष्यति। स्यादेवं यदि ठाद्यन्तवदेकस्मिन्ऽ इति शास्त्रातिदेशः स्यात्। यदा त्वनेन कार्यमात्रमुदातत्वम्, अन्तत्वे असत्येवादित्वे चातिदिश्यते तदौकारस्यैवादित्वव्यपदेशाभावात् कुतस्तदादेशस्याद्यौदातत्वम्! ततश्च पर्यायेण त्वनियतदेशमाद्यौदातत्वं स्यादिति पक्षे दोषप्रसङ्गः । तत्र सूत्रकारेण तावल्लाघवमनादृत्यावङ्गादेशः कृतः। तत्र यथा स्वरे दोषो न भवति, तथा दर्शयति--आद्यौदातोऽवङदेशो निपात्यत इति। एकश्रुत्या सूत्रपाठे यदत्र यत्नेनाद्यौदातोच्चारणं तदन्तोदातत्वबाधनार्थं विज्ञायते, अन्यत्र समासान्तोदातत्वेन वाध्यत इति। एतच्च भाष्ये ठुपदेशिवद्भावो वक्तव्यःऽ इति वचनेन लभ्यते, अन्यथा परत्वात् पूर्वं समासान्तोदातत्वे कृते अवङ् इवङ्स्वर एव सतिशिष्टत्वात् स्यात्। उपदेशिवद्भावे तु पूर्वमवङ् कृते पिश्चात् समास इति सतिशिष्टत्वात् समासस्वर एव भवति। पदान्तादित्येव--गवो, गवोः, गवाम्, गवि ॥
सिद्धान्तकौमुदी
अतीति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । पदान्ते किम् । गवि । व्यवस्थितविभाषया गवाक्षः ॥
अवङ् स्फोटायनस्य - अवङ् स्फोटायनस्य । अतीति निवृत्तमिति । "एङः पदान्तादित्यत" इति शेषः, व्याख्यानादिति भावः । पदान्तादिति, गोरिति, अचीति चानुवर्तते । स्फोटायनस्य ऋषेर्मतेऽवङ् । अन्यस्य तु न । ततश्च विकल्पः सिद्धः । तदाह — अचि पर इत्यादिना ।ङिच्चे॑त्यन्तादेशः । गवाग्रमिति । गो-अग्रहमिति स्थिते गकारादोकारस्यावङ् । गव-अग्रमिति स्थिते सवर्णदीर्घः । न चाऽग्रशब्देऽकारमचं परत्वेनाश्रित्य प्रवृत्तोऽवङ् कथं तद्विघातकं सवर्णदीर्घं प्रवर्तयति, संनिपातपरिभाषाविरोधादिति वाच्यं, संनिपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्यमाणत्वात् । गवीति ।गो इ॑-इति स्थिते ओकारस्य पदान्तत्वविरहान्नावङ् । नापि पूर्वसूत्राभ्यां प्रकृतिभावपररूपे किन्त्ववादेशः । अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्येत् । व्यवस्तितेति । क्वचिद्भवतीत्यंश एव प्रवर्तते, क्वचित्तु न भवतीत्यंश एव, क्वचिदुभयमित्येवं लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा सर्वत्र विभाषा गोरित्यत्राश्रीयते । ततश्च गवाक्ष इत्यत्र नित्यमवङित्यर्थः । इदं च — ॒देवत्रातो॒॑गलो॒॑ग्राह॑इतयोगे च सद्विधिः॑ । मिथस्ते न विभाष्यन्ते "गवाक्षः"संशितव्रतः॑॥ इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम् । गवाक्ष इति । गवां किरणानामक्षीवेति विग्रहः ।अक्ष्णोऽदर्शना॑दित्यच । पुंस्त्वं लोकात् ।वातायनं गवाक्षः स्यात् इत्यमरः ।
अवङ् स्फोटायनस्य - अवङ् स्फोटायनस्य । स्फोटोऽयनं परायणं यस्य सः स्फोटप्रतिपादनपरो वैयाकरणः । तस्य स्फोटायनस्य । अत्रापिएङन्तस्या गो॑रिति व्याख्येयम् ।अ॑गित्येव सूत्रयितुमुचितम् । विभाषानुवृत्तेः स्फोटायनग्रहणं पूजार्थम् । अतीति निवृत्तमिति । अन्यथागवेशः॑गवोद्धः॑ इत्यादि न सिद्ध्येदिति भावः । अचि पर इति । अत्रा॒चीत्यनुवर्तते, अतीति तु निवृत्तमित्यत्र व्याख्यानमेव शरणम् । गवाक्ष इति । गवां=किरणानाम् अक्षीवेति विग्रहः ।अक्ष्णोऽदर्शना॑दित्यच्समासान्तः । वातायने रूढोऽयम् । पुंस्त्वं लोकात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अवङ् स्फोटायनस्य (2560) (6223 न्यासान्तरबोधकवार्तिकम् ।। 1 ।।) - गोरग्वचनं गवाग्रे स्वरसिद्ध्यर्थम् - गोरग्वक्तव्यः । किं प्रयोजनम् ? गवाग्रे स्वरसिद्ध्यर्थम् । गवाग्रे स्वरसिद्धिर्यथा स्यात् । गवाग्रम् ।। (6224 प्रथमन्यासे दोषोपपादकवार्तिकम् ।। 2 ।।) - अवङादेशे हि स्वरे दोषः - अवङादेशे हि स्वरे दोषः स्यात् । अन्तोदात्तस्यान्तर्यतोऽन्तोदात्त आदेशः प्रसज्येत ।। (दोषसमर्थकभाष्यम्) कथं पुनरयमन्तोदात्तो यदैकाच् ? व्यपदेशिवद्भावेन । यथैव तर्हि व्यपदेशिवद्भावेनान्तोदात्तः, एवमाद्युदात्तोऽपि । तत्रान्तर्यत आद्युदात्तस्याद्युदात्त आदेशः प्रसज्येत । सत्यमेवमेतत् । न त्विदं लक्षणमस्ति ‐ - प्रातिपदिकस्यादिरुदात्तो भवतीति । इदं पुनरस्ति ‐ - प्रातिपदिकस्यान्त उदात्तो भवतीति । सोऽसौ लक्षणेनान्तोदात्तः, तत्रान्तर्यतोऽन्तोदात्तस्यान्तोदात्त आदेशः प्रसज्येत ।। (व्युत्पत्तिपक्षाश्रयेण अवङ्न्यासस्थापनपरभाष्यम्) यदि पुनर्गमेर्डो विधीयेत । किं कृतं भवति ? प्रत्ययाद्युदात्तत्वे कृत आनन्तर्यत आद्युदात्तस्याद्युदात्त आदेशो भविष्यति । कथं पुनरयमाद्युदात्तो यदैकाच् ? व्यपदेशिवद्भावेन । यथैव तर्हि व्यपदेशिवद्भावेनाद्युदात्तः, एवमन्तोदात्तोऽपि । तत्रान्तर्यतोऽन्तोदात्तस्यान्तोदात्त आदेशः प्रसज्येत । सत्यमेवमेतत् । न त्विदं लक्षणमस्ति ‐ - प्रत्ययस्यान्त उदात्तो भवतीति । इदं पुनरस्ति ‐ - प्रत्ययस्यादिरुदात्तो भवतीति । सोऽसौ लक्षणेनाद्युदात्तः, तत्रान्तर्यत आद्युदात्तस्याद्युदात्त आदेशो भविष्यति ।। (द्विधासमर्थनेऽप्याक्षेपभाष्यम्) एतदप्यादेशे नास्ति ‐ - आदेशस्यादिरुदात्तो भवतीति । प्रकृतितोऽनेन स्वरो लभ्यः । प्रकृतिश्चास्य यथैवाद्युदात्ता, एवमन्तोदात्ताऽपि ।। (सिद्धान्तभाष्यम्) एवं तर्हि आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति । एवमपि ‐ - उपदेशिवद्भावो वक्तव्यः । यथैव निपातनस्वरः प्रकृतिस्वरस्य बाधक एवं समासस्वरस्यापि । गवास्थि, गवाक्षि ।।