Page loading... Please wait.
6|1|130 - ई३ चाक्रवर्मणस्य
॥ तस्मै पाणिनये नमः ॥
6|1|130
SK 99
ई३ चाक्रवर्मणस्य  
सूत्रच्छेदः
ई3 (लुप्तप्रथमान्तनिर्देशः) चाक्रवर्मणस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
अचि  6|1|77 (सप्तम्येकवचनम्) , अप्लुतवत्  6|1|130 (अव्ययम्)
अधिकारः
संहितायाम्  6|1|71
सम्पूर्णसूत्रम्
ई3 अचि अप्लुतवत् - चाक्रवर्मणस्य
सूत्रार्थः
चाक्रवर्मणस्य मतेन (इत्युक्ते विकल्पेन) प्लुतः ईकारः अचि परे अप्लुतवत् भवति ।
प्लुत-ईकारात् अच्-वर्णः अग्रे अस्ति चेत् चाक्रवर्मणस्य मतेन (इत्युक्ते, विकल्पेन) सः प्लुतः ईकारः अप्लुतवत् कार्यं करोति ।

यथा - "चिनुहि(3) + इदम्" इत्यत्र हकारात् परः इकारः प्लुतः अस्ति, अतः प्लुतप्रगृह्या अचि नित्यम् 6|1|125 इत्यनेन प्रकृतिभावः जायते । परन्तु वर्तमानसूत्रेण अयं प्लुतः अप्लुतवत् कार्यम् करोति, अतः संहितायाः विवक्षायाम् अकः सवर्णे दीर्घः 6|1|101 इत्यने सवर्णदीर्घे कृते "चिनुहीदम्" इति अपि रूपं जायते ।

विशेषः - "चिनुहि3 + इति" इत्यत्र अप्लुतवदुपस्थिते 6|1|129 इत्यनेन ई(3) इत्यस्य नित्यं अप्लुतवत्-अवस्थायाम् प्राप्तायाम् वर्तमासूत्रेण केवलं विकल्पेन एव तस्य विधानं भवति । तथा च, "चिनुहि(3) + इदम्" इत्यत्र अप्लुतवदुपस्थिते 6|1|129 इत्यनेन ई(3) इत्यस्य अप्लुतवत्-अवस्थायाम् न प्राप्तायाम् वर्तमानसूत्रेण तस्य विकल्पेन अप्लुतवत्-अवस्था जायते । अतः एतत् "उभयविभाषा"याः उदाहरणम् । अस्मिन् विषये अधिकम् न वेति विभाषा 1|1|44 इत्यत्र द्रष्टव्यम् ।
One-line meaning in English
According to चाक्रवर्मण, the प्लुतः ईकारः behaves as if it is not प्लुत when followed by an अच्-letter.
काशिकावृत्तिः
ई3कारः प्लुतो ऽचि परतः चाक्रवर्मणस्य आचार्यस्य मतेन प्लुतवद् भवति। अस्तु हीत्यब्रूताम्, अस्तु ही3 इत्यब्रूताम्। चिनु हीदम्। चिनु ही3 इदम्। चाक्रवर्मणग्रहणम् विकल्पार्थम्, तदुपस्थिते निवृत्त्यर्थम् अनुपस्थिते प्राप्त्यर्थम् इत्युभयत्रविभाषा इयम्। ईकारादन्यत्र अप्ययम् अप्लुतवद्भाव इष्यते। वशा3 इयम् वशेयम्।
`अचि परतः` इति। एतेन `उपस्थिते` इत्येतन्निवृत्तम्; अस्वरितत्वादिति सूचयति। `अस्तु ही 3` इति। `असु क्षेपणे`, (धातुपाठः-1209) लोट्, सिप्। `सेह्र्रपिच्च` 3|4|87 इति सेहिः, व्यत्यनेन श्लुः। `क्षियाशीः-प्रैषेषु तिङाकाङ्क्षम्` 8|2|104 इति प्लुतः। `तदुपस्थिते निवृत्त्यर्थम्` इति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यं प्रापतत्वात्। `अनुयस्थिते प्राप्त्यर्थम्` इति। तत्र केनचिदप्राप्तत्वात्। `ईकारात्` इत्यादि। कथं पुनरिकारादन्यत्रापीष्यमाणोऽप्येषोऽप्लुतवदभावो लभ्यते? `इकोऽसवर्णे शाकल्यस्य ह्यस्वश्च` 6|1|123 इत्यतोऽनुवृत्तस्य चकारस्यानुक्तसमुच्चयार्थत्वात्॥
सूत्रे ई चेति त्रिमात्रिकस्य निर्द्देशः। अचि परत इति। उपस्थितग्रहणं चास्वरितत्वान्निवृतम्। अस्तु ही3 इत्यब्रूतामिति। ठ्विभाषा पृष्टप्रतिवचने हेःऽ इति प्लतः, अस्तेर्लोटि तिप्, ठेरुःऽ। तदुपस्थिते निवृत्यर्थमिति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यप्राप्तत्वात्, अनुपस्थिते प्राप्त्यर्थमिति, तत्र केनचिदप्राप्तत्वात्। ईकारादन्यत्रापीति। तथा च भाष्यम्--ठीकारग्रहणेन नार्थःऽ इत्यादि ॥
सिद्धान्तकौमुदी
ई3 प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही3 इति । चिनुहीति । चिनुही3 इदम् । चिनु हीदम् । उभयत्रविभाषेयम् ॥
ई३ चाक्रवर्मणस्य - ई३चाक्र । ई३ इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देशः । उपस्थित #इत्यस्वरितत्वान्निवृत्तम् ।अप्लुतव॑दित्यनुवर्तते ।इको यणची॑त्यतोऽचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकारोऽचि परेऽप्लुतवद्भवति, नत्वन्यमत इत्यर्थः । तदाह-प्लुतोऽचीत्यादि । चिनु हि३ इदमिति ।किं मया कत्र्तव्य॑मिति पृष्टस्यैदं प्रतिवचनम् ।चिन्वि॑ति लोडन्तम् ।उतश्च प्रत्यया॑दिति हेर्लुक् ।हीति त्वव्ययम् ।विभाषा पृष्टप्रतिवचने हेः॑ इति तस्य प्लुतः । चिन्वित्यतः प्राग्देवदत्ते॑त्यध्याहार्यम् ।इद॑मिति तु वाक्यान्तरस्थं, नतु चिन्वित्येतेनैकवाक्यतामापन्नम् । अन्यथावाक्यस्य टे॑रित्यधिकाराद्धिशब्दे इकारस्य प्लुतो न स्यात् । उभयत्रेति । इतिशब्दे परतो नित्यतया प्राप्ते, तदन्यत्राऽप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थः । विभाषाशब्दस्त्वव्ययमिति न ब्रामतिव्यं,न वेति विभाषाया॑मिति भाष्यप्रयोगात् । विभाष्यते विकल्प्यत इति विभाषा । "गुरोश्च हल" इत्यप्रत्ययः । टाप् ।
ई३ चाक्रवर्मणस्य - चिनु हीति ।चि॑न्विति लोडन्तम् ।ही॑त्यव्ययम् ।अनन्त्यस्यापि प्रश्नाख्यानयोः॑ इत्यनेन प्लुतः । उभयत्रविभाषेयमिति ।इति॑ शब्दे परतः पूर्वेण प्राप्ते, अन्यत्राऽप्राप्ते चारम्भादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
इर्3चाक्रवर्मणस्य (2567) (वार्तिकावतरणभाष्यम्) किमर्थमिदमुच्यते ? (6238 प्रयोजनवार्तिकम् ।। 1 ।।) - इर्3 चाक्रवर्मणस्येत्यनुपस्थितार्थम् - अनुपस्थितार्थोऽयमारम्भः । चिनु ही3 इदम् ‐ - चिनु हीदम्, सुनु ही3 इदम्-सुनु हीदम् ।। (इर्कारप्रत्याख्यानभाष्यम्) इर्कारग्रहणेन नार्थः, अविशेषेण चाक्रवर्मणस्याचार्यस्याप्लुतवद्भवतीत्येव । इदमपि सिद्धं भवति ‐ - वशा 3 इयम्, वशेयम् ।।