Page loading... Please wait.
6|3|98 - ऊदनोर्देशे
॥ तस्मै पाणिनये नमः ॥
6|3|98
SK 942
ऊदनोर्देशे   🔊
सूत्रच्छेदः
ऊत् (प्रथमैकवचनम्) , अनोः (पञ्चम्येकवचनम्) , देशे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनोरुत्तरस्य अपः ऊकारादेशो भवति देशाभिधाने। अनूपो देशः। देशे इति किम्? अन्वीपम्। दीर्घोच्चारणम् अवग्रहार्थम्, अनु ऊपः अनूपः इति।
Text Unavailable. Please use feedback link below to provide the text if you have.
अवग्रहार्थमिति । यत्र समासावयवानां रुपाणि प्रदर्श्यन्ते पदकारैः सः - अवग्रहः ॥
सिद्धान्तकौमुदी
अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधुरक्षः । सखिपथः । रम्यपथो देशः ॥
ऊदनोर्देशे - ऊदनोर्देशे । ईत्त्वस्याऽपवादः । ऊत्स्यादिति ।आदेः परस्ये॑ति ज्ञेयम् । अनूपो देश इति । अनुकूला आपो यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च । "अनूप" इत्यत्र ऊपोऽवग्रहणार्थं दीर्घोच्चारणमिति भाष्यम् । बह्वृचास्तुअनूपो गोमान्रित्यत्र नावगृह्णन्ति । तदेव "ऋक्पूः" इति सूत्रगतोऽप्शब्दः प्रपञ्चितः । अथ धूर्शब्दान्तस्योदाहरति — राजधुरेति । राज्ञो धूरिति विग्रहः । धूर्शब्दोऽत्र राज्ये लाक्षणिकः । अकारप्रत्ययः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । टाप् । अक्षे त्विति । अक्षसंबन्धिनी या धूस्तदन्तादकारप्रत्ययो न । अक्षधूरिति । अक्षो नाम रथावयवदण्डविशेषः, यदग्रयोश्चक्रे आसज्येते तस्याक्षस्याग्रं धूः । अनेनअक्षे समासार्थे धुरो नाऽकारप्रत्ययः॑ इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति । दृढा धूर्यस्येति विग्रहः । एतेनाऽक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवंऋक्पू॑रिति सूत्रं धूःशब्दः प्रपञ्चितः । अथ पथिन्शब्दस्योदाहरति — सखिपथाविति । सखा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । "नस्तद्धिते" इति टिलोपः । "सखिपथ" इति पाठे तु सख्युः पन्था इति तत्पुरुषः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः ।
ऊदनोर्देशे - ऊदनोः । दीर्घोच्चारणं क्वचिच्छाखायामवग्रहार्थम् । बह्वृचास्तुअनूपे गोमान् गोभिः॑इत्यत्रा नूपशब्दं नावगृह्णन्ति । अनूप इति । अनुगता आपोऽस्मिन्नित्यनूपो देशः ।जलप्रायमनूपं स्य॑दित्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ऊदनोर्देशे (2957) (दीर्घोच्चारणप्रयोजनभाष्यम्) दीर्घोच्चारणं किमर्थम् ? न उदनोर्देशे इत्येवोच्यते ? का रूपसिद्धिः ? अनूपम्, सवर्णदीर्घत्वेन सिद्धम् । न सिद्ध्यति । अवग्रहे हि दोषः स्यात् ।।