॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
6|4|130
SK 414
6|4|130
पादः पत्  
SK 414
सूत्रच्छेद:
पादः - षष्ठ्येकवचनम् , पत् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
अङ्गस्य  [6|4|1] , असिद्धवदत्राभात्  [6|4|22] , भस्य  [6|4|129]
सम्पूर्णसूत्रम्
पाद: भस्य अङ्गस्य पत्
सूत्रार्थ:
भसंज्ञकस्य पाद्-शब्दस्य अङ्गस्य पद्-इत्यादेशः भवति ।
भसंज्ञकस्य "पाद्" इत्यस्य पद् इति आदेशः भवति ।
यथा - "सुपाद्" शब्दस्य तृतीयैकवचनस्य रूपम् = सुपाद् + टा → सुपद् + टा → सुपदा ।

अत्र केचन विशेषाः ज्ञेयाः -

1. काशिकाकारः अस्य सूत्रस्य व्याख्याने वदति - "अत्र पादशब्दः लुप्त-अकारः गृह्यते" । इत्युक्ते, वस्तुतः "पाद्" इति शब्दः संस्कृतभाषायाम् नैव विद्यते । "पाद" उत "पद्" एतौ एव साधुशब्दौ । परन्तु कुत्रचित् "पाद" इति अदन्तशब्दस्य अकारस्य लोपं कृत्वा "पाद्" इति शब्दः सिद्ध्यति । तादृशस्य "पाद्" शब्दस्य अत्र ग्रहणम् इष्यते - इति । यथा, "शौभनौ पादौ यस्य सः" इत्यस्मिन् अर्थे बहुव्रीहिसमासे कृते "सु + पाद" इति स्थिते अग्रे पादस्य लोपोऽहस्त्यादिभ्यः 5|4|138 इत्यनेन अकारलोपं कृत्वा "सुपाद्" इति शब्दः सिद्ध्यति । अस्य भसंज्ञायां सत्याम् "पाद्" इत्यस्य "पद्" आदेशः भवेत् इति वर्तमानसूत्रेण स्पष्टीक्रियते ।

एवमेव, "द्वौ द्वौ पादौ" इत्यत्रापि पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च 5|4|1 इत्यनेन तत्पुरुषसमासं अकारलोपं च कृत्वा "द्विपाद्" इति प्राप्ते "वुन्" प्रत्यये परे तस्य भसंज्ञा भवति, अतः वर्तमानसूत्रेण "पाद् " शब्दस्य "पद्" आदेशं कृत्वा "द्विपदिका" इति शब्दः सिद्ध्यति । अस्य सम्पूर्णा प्रकिया पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च 5|4|1 इत्यत्र निर्दिष्टा अस्ति ।

2. "सुपाद् + टा" इति स्थिते वस्तुतः येन विधिस्तदन्तस्य 1|1|72 इत्यनेन सुपाद्-शब्दस्य सम्पूर्णस्य "पद्" आदेशः भवेत् । परन्तु अस्मिन् विषये एका परिभाषा पाठ्यते - निर्दिश्यमानस्य आदेशाः भवन्ति । अनया परिभाषया यत्र कस्यचन पदार्थस्य विशिष्टरूपेण निर्देशं कृत्वा आदेशविधानं कृतम् अस्ति, तत्र तस्मात् शब्दादेव प्रत्ययः विधीयते, तदन्तात् न । अतः "सुपाद् + टा" इत्यत्र केवलम् "पाद्" शब्दस्यैव "पद्" आदेशः भवति, न हि "सुपाद्" शब्दस्य ।

3. सूत्रेऽस्मिन् यद्यपि "पत्" इत्युच्यते तथापि आदेशः "पद्" अयमेव विधीयते ति । पद्-इत्यस्य दकारस्य वाऽवसाने8|4|56 इत्यनेन चर्त्वम् कृत्वा सूत्रे "पत्" इति निर्देशः कृतः अस्ति ।
One-line meaning in English
The भसंज्ञक अङ्ग of the word पाद् gets पद् as आदेश.
काशिकावृत्तिः
द्विपदः पश्य। द्विपदा कृतम्। भस्य इति किम्? द्विपादौ। द्विपादः। पादः पत् 6|4|130। पादः इति पादशब्दो लुप्ताकारो गृह्यते। तदन्तस्य अङ्गस्य भस्य पतित्ययम् आदेशो भवति। स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्य एव भवति, न तदन्तस्य सर्वस्य। द्विपदः पश्य। द्विपदा। द्विपदे। द्विपदिकां ददाति। त्रिपदिकां ददाति। वैयाघ्रपद्यः।
`पादः` इति। `पादशब्दो लुप्ताकारो गृह्रते` इति। अथ पादयतेः क्विबन्तस्य यः पाच्छब्दः सम्पद्यते स कस्मान्न गृह्रते? तस्यासम्भवात्। पादयतेर्हि क्विप्? `अन्येभ्योऽपि दृश्यते` 3|2|178 इत्यनेन स्यात्? स च `दृश्यते` इति वचनान्न भवति। यत्र लोके क्विबन्तप्रोयगो दृश्यते तत्र यथा स्यादित्येवमर्थं हि तत्र `दुश्यते` इत्तयुक्तम्, न च पादयतेः क्विबन्तस्य प्रयोगो दृश्यते? पादशब्दस्य समास एवाकारो लुप्यते, तेन सामथ्र्यात्? तदन्तस्याङ्गस्य कार्यं विज्ञायत इत्याह--`तदन्तस्याङ्गस्य` इत्यादि। यदि तर्हि पाच्छब्दन्तस्याङ्गस्य पदित्ययमादेशो विज्ञायेत, एवं तर्हि `ये न विधिस्तदन्तस्य` 1|1|71 इति सर्वस्य तदन्तस्य प्राप्नोतीत्याह--`स च` इत्यादि। `द्विपदः` इति। द्वौ पादवस्येति बहुव्रीहिः। `संख्यासुपूर्वस्य` 5|4|140 इत्यकारलोपः। `द्विपदिकाम्` इति। द्वौ द्वौ पादौ ददातीति `पादशतस्य` 5|4|1 इत्यादिना वुन्। `वैयाघ्रपद्यः` इति। व्याघ्रस्येव पादावस्येति बहुव्रीहिः, `पादस्य लोपोऽहस्त्यादिभ्यः` 5|4|138 इत्यकारलोपः, व्याघ्रपदोऽपत्यमिति गर्गादित्वाद्यञ्॥
पादिति पादशब्दो लुप्ताकारो गृह्यत इति । पादयतेः क्विबन्तस्याप्यत्र ग्रहणमिति येन विधिस्तदन्तस्य इत्यत्र भाष्यकारेणोक्तम् । तस्मादपिशब्दाध्याहारेणायं ग्रन्थो योज्यः । लुप्ताकारः पादशब्दोऽपि गृह्यते, पादयतिः क्विबन्तोऽपि । अङ्गाधिकारे तस्य च तदुतरपदस्य च इति वक्तव्यातदन्तस्याङ्गस्येत्यत्रापि तस्य चाङ्गस्येति द्रष्टव्यम् । तदन्ते तु वक्तव्यमस्तीति तसेयैव प्राधान्येनोपन्यासः, तद्दर्शयति - स चेति । यद्यपि पाच्छब्देन तदन्तः समुदायः प्रत्याय्यते, तथापि विशेषणत्वेन यो निर्द्दिश्यते तत्रापि यतः षष्ठी श्रूयते तस्यैवादेशः, न प्रतीयमानस्य समुदायस्येत्यर्थः । द्विपद इति । द्वौ पादावस्येति बहुव्रीहिः, संख्यासुपूर्वस्य इत्यन्तलोपः । द्विपदिकामिति । पादशतस्य संख्यादेः इति वुन्, लोपश्च । व्याघ्रपाच्छब्दो गर्गादिः ॥
सिद्धान्तकौमुदी
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपद्भ्यामित्यादि ॥ अग्निं मन्थतीत्यग्निमत् । अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमद्भ्यामित्यादि । ऋत्विग् (कौमुदी-373) इत्यादिसूत्रेणाञ्चेः सुप्युपपदे क्विन् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः॥ सुपदः। सुपदा। सुपाद्भ्याम्॥ अग्निमत्, अग्निमद्। अग्निमथौ। अग्निमथः॥
महाभाष्यम्
पादः पत् (3128) (पादेशाधिकरणम्) (6596 उपसंख्यानवार्तिकम् ।। 1 ।।) - पाद उपधाह्रस्वत्वम् - पाद उपधाह्रस्वत्वं वक्तव्यम् । द्विपदः पश्य ।। (6597 आदेशे दोषवार्तिकम् ।। 2 ।।) - आदेशे हि सर्वादेशप्रसङ्गः - आदेशे हि सति सर्वादेशः प्रसज्येत । सर्वस्य द्विपाच्छब्दस्य त्रिपाच्छब्दस्य च पच्छब्द आदेशः प्रसज्येत येन विधिस्तदन्तस्य 1|1|72 इति ।। तत्तर्हि वक्तव्यम् । (6598 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 3 ।।) - न वा निर्दिश्यमानस्यादेशात् - न वा वक्तव्यम् । किं कारणम् ? निर्दिश्यमानस्यादेशा भवन्तीत्येषा परिभाषा कर्तव्या ।। कः पुनरत्र विशेषः ‐ एषा वा परिभाषा क्रियते, उपधाह्रस्वत्वं वोच्यते । अवश्यमेषा परिभाषा कर्तव्या, बहून्येतस्याः परिभाषायाः प्रयोजनानि । कानि पुनस्तानि प्रयोजनानि ? (6599 परिभाषाप्रयोजनवार्तिकम् ।। 4 ।।) - प्रयोजनं सुप्तिङादेशेषु - सुप् ‐ -कुमार्याम्, किशोर्याम्, खट्वायाम्, मालायाम्, तस्याम्, यस्याम् । आड्याट्स्याट्सु कृतेषु साड्याट्स्याट्कस्य आम् प्राप्नोति । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति । इदमिह संप्रधार्यम् ‐ -आड्याट्स्याटः क्रियन्तामामिति, किमत्र कर्तव्यम् ? परत्वादाम् । नित्या आड्याट्स्याटः । कृतेऽप्यामि प्राप्नुवन्त्यकृतेऽपि । अनित्या आड्याट्स्याटः । कथम् ? अन्यस्य कृते आमि प्राप्नुवन्त्यन्यस्याकृते । शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । उभयोरनित्ययोः परत्वादाम् ।। इदं तर्हि ‐ -यस्यै ‐ -तस्यै, स्याटि कृते सस्याट्कस्य स्मैभावः प्राप्नोति । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति । यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ? स्याटा व्यवहितत्वात् । सुप् ।। तिङ् ‐ -अरुदिताम्, अरुदितम्, अरुदित ‐ -इति । इटि कृते सेट्कस्य तांतंतामादेशाः प्राप्नुवन्ति । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति । इदमिह संप्रधार्यम् ‐ -इट् क्रियताम्, तांतंताम इति, किमत्र कर्तव्यम् ? परत्वादिडागमः, अन्तरङ्गास्तांतन्तामः ।। इदं तर्हि ‐ -क्रियास्ताम्, क्रियास्तम्, क्रियास्त, क्रियासम् । यासुटि कृते सयासुट्कस्य तांतन्तामः प्राप्नुवन्ति । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवतीति ।। (6600 परिभाषाप्रयोजनवार्तिकम् ।। 5 ।।) - ल्यब्भावे च - ल्यब्भावे च प्रयोजनम् । प्रकृत्य । प्रहृत्य । क्त्वान्तस्य ल्यप्प्राप्नोति । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।। (प्रयोजनभाष्यम्) त्रिचतुर्युष्मदस्मात्त्यदादिविकारेषु च प्रयोजनम् । अतितिस्रः, अतिचतस्रः । त्रिचतुरन्तस्य तिसृचतसृभावः प्राप्नोति । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।। युष्मद् ‐ -अस्मद् ‐ -अतियूयम्, अतिवयम् । युष्मदस्मदन्तस्य यूयवयौ प्राप्नुतः । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।। त्यदादिविकारः ‐ -अतिस्यः, उत्तमस्यः, अत्यसौ, उत्तमासौ । त्यदाद्यन्तस्य त्यदादिविकाराः प्राप्नुवन्ति । किमन्तस्य कादेशः प्राप्नोति । अतिकः, परमकः । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।। (प्रयोजनभाष्यम्) उदः स्थास्तम्भोः पूर्वत्वे प्रयोजनम् । उदस्थात्, उदस्थाताम् । अटि कृते साट्कस्य पूर्वसवर्णः प्राप्नोति उदः स्थास्तम्भोः ‐ - इति । निर्दिश्यमानस्यादेशा भवन्तीति न दोषो भवति ।। यस्तर्हि निर्दिश्यते तस्य कस्मान्न भवति ? अटा व्यवहितत्वात् ।। सा तर्ह्येषा परिभाषा कर्तव्या । न कर्तव्या । उक्तं षष्ठी स्थानेयोगा 1|1|49 इत्येतस्य योगस्य वचने प्रयोजनम् ‐ -षष्ठ्यन्तं स्थानेन यथा युज्यते, यतः षष्ठी उच्चारितेति ।।