Page loading... Please wait.
6|1|205 - निष्ठा च द्व्यजनात्‌
॥ तस्मै पाणिनये नमः ॥
6|1|205
SK 3693
निष्ठा च द्व्यजनात्‌   🔊
सूत्रच्छेदः
निष्ठा (प्रथमैकवचनम्) , च (अव्ययम्) , द्व्-यच् (प्रथमैकवचनम्) , अनात् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
निष्ठान्तं द्व्यच् संज्ञायां विषये आद्युदात्तं भवति स चेदादिराकारो न भवति। दत्तः। गुप्तः। बुद्धः। प्रत्ययस्वरापवादः। निष्ठा इति किम्? देवः। भीमः। द्व्यचिति किम्? चिन्तितः। रक्षितः। अनातिति किम्? त्रातः। आप्तः। संज्ञायाम् इति किम्? कृतम्। हृतम्।
`गुप्तः` इति `गुपू रक्षणे` (धातुपाठः-395)। `बुद्धः` इति। `बुध अवगमने` (धातुपाठः-858)। `देवः` इति। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। भीमशब्दोऽपि मगन्तत्वात्? प्रत्यस्वरेण। `इषियुधि` (द।उ।7।31) इत्याद्यधिकृत्य `भियः षुग्वा` (द।उ।7।35) इति मक्प्रत्ययान्तो व्युत्पाद्यते। `चिन्तितः` इति। `चिति स्मृत्याम्` (धातुपाठः-1535), चौरादिकः, `निष्ठायां सेटि` 6|4|52 इति णिलोपः। `रक्षितः` इति। `रक्ष पालने` (धातुपाठः-658)। `त्रातः, आप्तः` इति। `त्रैङ पालने` (धातुपाठः-965), `आप्लृ व्यातौ` (धातुपाठः-1260)॥
इहाद्याक्तः अद्यात इत्येकादेशस्य बहिरङ्गत्वादसिद्धत्वाद् ठनात्ऽ इतिक प्रतिषेधाभावः। भीष्मशब्दः ठ्भियः षुक्चऽ इति मन्प्रत्ययान्तः। चिन्तित इति। ठ्चिति स्मृत्याम्ऽ चुरादिः ॥
सिद्धान्तकौमुदी
निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । द्व्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
निष्ठा च द्व्यजनात् (2642) (6318 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।) - निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधः - निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधो वक्तव्यः । दत्ताभ्याम्, गुप्ताभ्याम् ।। (6319 उपसंख्यानानुपयोगवार्तिकम् ।। 2 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यम् । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गोऽत्र दीर्घः, अन्तरङ्गः स्वरः, असिद्धं बहिरङ्गमन्तरङ्गे ।। (आक्षेपसमाधानानावश्यकत्वबोधकभाष्यम्) अन्तरेण प्रतिषेधमन्तरेण चैतां परिभाषां सिद्धम् । कथम् ? नैवं विज्ञायते ‐ - न चेदकारान्ता निष्ठेति । कथं तर्हि ? न चेदाकारात्परा निष्ठेति ।। यद्येवं निर्देशश्चैव नोपपद्यते, न ह्येषा आकारात्परा पञ्चमी युक्ता । इह च प्राप्नोति ‐ - आप्तः, राद्ध इति ।। एवं तर्हि ‐ - न चेदवर्णात्परा निष्ठेति । भवेन्निर्देश उपपन्नः, इह तु प्राप्नोति ‐ - आप्तः, राद्ध इति, इह च न प्राप्नोति ‐ - यतः, रत इति ।। एवं तर्हि विहितविशेषणमकारान्तग्रहणम् ‐ - न चेदकारान्ताद्विहिता निष्ठेति । एवमपि ‐ - दत्तः ‐ - अत्र न प्राप्नोति, इह च प्राप्नोति ‐ - आप्तः, राद्ध इति ।। एवं तर्हि कार्यिविशेषणमाकारग्रहणम् ‐ - न चेदाकारः कार्यी भवति । एवमपि ‐ - अद्याष्टः, कदाष्टः ‐ - अत्र न प्राप्नोति । तस्मात्सुष्ठूच्यते ‐ - निष्ठायां यञ्ञि दीर्घत्वे प्रतिषेधः न वा बहिरङ्गलक्षणत्वात् इति ।।