Page loading... Please wait.
8|2|107 - एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ
॥ तस्मै पाणिनये नमः ॥
8|2|107
SK 3626
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ   🔊
सूत्रच्छेदः
एचः (षष्ठ्येकवचनम्) , अप्रगृह्यस्य (षष्ठ्येकवचनम्) , अदूरात् (पञ्चम्येकवचनम्) , हूते (सप्तम्येकवचनम्) , पूर्वस्य (षष्ठ्येकवचनम्) , अर्धस्य (षष्ठ्येकवचनम्) , उत्तरस्य (षष्ठ्येकवचनम्) , इदुतौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 वाक्यस्य टेः प्लुतः उदात्तः  8|2|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
एचो ऽप्रगृह्यस्य अदूराद् धूते प्लुतविषयस्य अर्धस्य अकारः आदेशो भवति, स च प्लुतः, उत्तरस्ये कारोकारावादेशौ भवतः। विषयपरिगणनं कर्तव्यम् प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवदयाज्यान्तेष्विति वक्तव्यम्। प्रश्नान्ते अगम3ः पूर्वा3न् ग्रामा3नग्निभूता3इ, पटा3उ। अभिपूजिते भद्रं करोषि माणवक3 अग्निभूता3इ, पटा3उ। विचार्यमाणे होतव्यं दीक्षितस्य गृहा3इ प्रत्यभिवादे आयुष्मानेधि अग्निभूता3इ, पटा3उ। याज्यान्ते उक्षन्नाय वशान्नाय सोमपृष्ठाय वेधसे। स्तोवैर्विधेमाग्नया3इ। सो ऽयम् आकरः प्लुतो यथाविषयम् उदात्तो ऽनुदात्तः स्वरितो वेदितव्यः। इदुतौ पुनरुदात्तावेव भवतः। परिगणनं किम्? विष्णुभूते विष्णुभूते3 घातयिष्यामि त्वा। आगच्छ भो माणवक विष्णुभूते। परिगणने च सति अदूराद् धूते इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत्, भद्रं करोषि गौः इति। अप्रगृह्यस्य इति किम्? शोभने खलु स्तः खट्वे3। आमन्त्रिते छन्दसि प्लुतविकरो ऽयं वक्तव्यः। अग्ना3इ पत्नी वा3इ।
एचः समाहारवर्णाः तत्र एकारस्य ओकारस्य च पूर्वेण प्रकरणेन समुदायस्यैष प्लुतः, एचोः पुनरवयवयोरिदुतोः। अनन्तरसूत्रेणेदमारभ्यते `विषयपरिगणनं कत्र्तव्यम्` इति। एतद्ग्रहणवाक्यम्। अस्य `प्रश्नान्ताभिपूजित` इत्यादिना विवरणं करोति `कत्र्तव्यम्` [वक्तव्यम्--काशिका] इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`अनुदात्तं प्रश्नान्ताभिपूजितयोः` 8|2|100 इत्यादयो योगा इहानुवत्र्तन्ते, तेनान्यत्र न भवति। `यथाविषयम्` इति। यो यस्य विषयो यथाविषयम्--`यथाऽसादृश्ये` 2|1|7 इत्यव्ययीभावः, `प्रश्नान्ताभिपूजितयोः` 8|2|100 अनुदात्तः प्लुतः। प्रश्ने तु `अनन्त्यस्यापि प्रश्नाख्यानयोः` 8|2|105 इति स्वरितः, शेषेपूदात्तः। `इतुतौ पुनरुदात्तावेतौ` इति। `टेरुदात्तः` 8|2|82 इति चाधिकारात्। `विष्णुभूते विष्णुभूते3` इति। अत्र `आम्रेडितं भत्र्सने` 8|2|95 इति प्लुतः। `आगच्छ भो माणवक विष्णुभूते3` इति। अत्र `दूराद्घते च` 8|2|84 इति। ननु चासत्यपि परिगणने नैव प्लुतः प्राप्नोति; `अदूराद्धते` इति वचनात्, तत्किमर्थमिदं परिगणनस्य प्रत्युदाहरणित्याह--`परिगणने च` इत्यादि। असति परिगणने, अदूराद्धूत [`अदूराद्धूतेन भविष्यतीति` इत्येव--कांउ।पाठः] इत्युच्यते। अस्मस्तु सत्येतन्न वक्तव्यम्। परिगणनादेव हि दूराद्धूते न भविष्यतीति। `कत्र्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`याज्यान्तः` 8|2|90 इत्यतोऽन्तग्रहणमनुवत्र्तते, तेनान्तस्यैव भविष्यतीति। `भद्रं करोषि गौः` इति। `अभिपूजिते` 8|2|100 इति प्लुतः। अन्तग्रहणानुवृत्तेरत्रायं विधिर्न भवति, न ह्रत्रैतच्छब्दोऽश्ते, किं तर्हि? व्यञ्जनम्। `शोभने खल्? स्तः खट्वे3` इति। अत्रापि `अभिपूजिते` 8|2|100 इत्येव प्लुतः। `आमन्त्रिते `च` [`च` नास्ति--काशिका पदमञ्जरी च] इत्यादि। प्लुतश्चासौ विकारश्चेति प्लुतविकारः। प्लुतव्यपदेशस्त्विदुतोः प्लुतसाहचर्याद्धेदितव्यः। इदुतोग्र्रहणमैचः पूर्वस्योत्तरस्य चैत आदेशा मा भूवन्नित्येवमर्थम्। तपरकरणमिहापि मुखसुखार्थम्॥
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुतरस्येदुतौ॥ विषयपरिगणनं कर्तव्यमिति। एतद्विवृणोदि---प्रश्नान्तेति। यथाविषयमिति। प्रश्नान्तेऽनुदातः स्वरितो वा, शेषे तूदातः। इदुतौ पुनरुदातावेवेति। अनुवृतस्य उदातग्रहणस्याभिसम्बन्धात्। विष्णुभूते इति। कथं पुनरिदं परिगणनस्योदाहरणम्, यावता सूत्रे तु ठदूराद्धूतेऽइत्युच्यते?अत आह----परिगणनं चेति। अन्यार्थेऽवश्यकर्तव्ये परिगणने तेनैव सिद्धत्वाद् ठदूराद्धूतेऽ इति न वक्तव्यम्, ततश्चेदमपि परिगणनस्य प्रत्युदाहरणमुपपद्यत इति। गौरिति। ठसर्वनामस्थानेऽ इति प्रतिषेधात् सौ परतः पूर्व पदं न भवति। अथ यदा सावपि पदं भवतीति पक्षः, तदा कस्मान्न भवति? उक्तमेतद् ठ्वाक्यपदयोरन्त्यस्यऽ इति, विसर्जनीयशब्दश्चात्र वाक्यान्तः। नन्वेवं पदान्तग्रहणमित्यत्र पदशब्देन वाक्यमुच्यतेऽन्वर्थग्रहणात्---पद्यते प्रतीयतेऽनेन हेतुनार्थ इति? एतच्च ठ्याज्यान्तःऽ इत्यतोऽन्तग्रहणानुवृत्या लभ्यते। अग्निभूता6इति। अग्निभूतिशब्दस्य सम्बुद्धौ रूपम्। आमन्त्रिति इति। अप्राप्त एव प्लुते वचनम्॥
सिद्धान्तकौमुदी
अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ॥ ।प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव (वार्तिकम्) ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने ॥ ।आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः (वार्तिकम्) ॥ अग्न 3 इ पत्नी वः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ ।। एचः प्लुतविकारे पदान्तग्रहणम्।। एचः प्लुतविकारे पदान्तग्रहणं कर्तव्यम्। इह मा भूत्-भद्रं करोषि(1) गौ3रिति।। विषयपरिगणनं च।। विषयपरिगणनं च कर्तव्यम्। प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्। प्रश्नान्त-अगमा3 पूर्वा3न्(3) ग्रामा(3)3नग्निभूता3 इ?। पटा3उ?। प्रश्नान्त।। अभिपूजितसिद्धोऽसि माणवकाऽग्निभूता3ःथ्द्य;। पटा3उ। अभिपूजित।। विचार्यमाण-हो-तव्यं दीक्षितस्य गृहा3ःथ्द्य;। विचार्यमाण।। प्रत्यभिवाद-आयुष्मानेधि अग्निभूता3ःथ्द्य;। प्रत्यभिवाद।। याज्यान्त-उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे स्तोमैविधेमाग्नया3ःथ्द्य;(4)।। आमन्त्रिते छन्दस्युपसङ्ख्यानम्।। आमन्त्रिते छन्दस्युपसङ्ख्यानं कर्तव्यम्। अग्ना3ःथ्द्य; पत्नीर्वाः3(5) सजूर्देवेन त्वष्ट्रा सोमं पिब।। झ्र्एचोऽप्रगृह्यस्याऽदूराट