Page loading... Please wait.
4|4|143 - शिवशमरिष्टस्य करे
॥ तस्मै पाणिनये नमः ॥
4|4|143
SK 3489
शिवशमरिष्टस्य करे  
सूत्रच्छेदः
शिव-शम्-अरिष्टस्य (षष्ठ्येकवचनम्) , करे (सप्तम्येकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , तातिल्  4|4|142 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
करे (इति) शिव-शम्-अरिष्टस्य छन्दसि संज्ञायाम् तातिल्
सूत्रार्थः
"करोति" अस्मिन् अर्थे षष्ठीसमर्थात् "शिव"शब्दात्, "शम्"शब्दात्, "अरिष्ट"शब्दात् च वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।
"करे" इति "कर" इत्यस्य सप्तम्येकवचनम् । कृ-धातोः अच्-प्रत्ययं कृत्वा "कर" इति प्रातिपदिकं सिद्ध्यति । करोति सः करः । अस्मिन्नेव अर्थे "शिव", "शम्" तथा "अरिष्ट" - एतेभ्यः शब्देभ्यः वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।

1. शिवस्य करः = शिवम् करोति सः = शिव + तातिल् → शिवताति ।
2. शमः करः = शमं करोति सः = शम् + ताति → शन्ताति ।
3. अरिष्टस्य करः = अरिष्टं करोति सः = अरिष्ट + ताति = अरिष्टताति ।

वेदेषु प्रयोगः -
1. (शिवताति) - पैप्पलादसंहिता (अथर्ववेदः) 5.36.1 - ये भौमा भूम्या अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते ।
2. (शन्ताति) - ऋग्वेदः 8.18.7 - उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् । सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑: ॥
3. (अरिष्टताति) - ऋग्वेदः 10.60.8 - ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

ज्ञातव्यम् -
1. सूत्रे विद्यमानः "शिव-शम्-अरिष्टस्य" इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति ।
2. "तातिल्" इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा "ताति" इत्यवशिष्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
करोति इति करः प्रत्ययार्थः। तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः। शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः करे इत्येतस्मिन्नर्थे तातिल् प्रत्ययो भवति। शिवं करोति इति शिवतातिः। शंतातिः। अरिष्टतातिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददादुषे (याभिः॒ शन्ता॑ती॒ भव॑थो द॒दा॒दुषे॑) । अथो अरिष्टतातये (अथो॑ अरि॒ष्टता॑तये ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.