Page loading... Please wait.
1|4|12 - दीर्घं च
॥ तस्मै पाणिनये नमः ॥
1|4|12
SK 33
दीर्घं च   🔊
सूत्रच्छेदः
दीर्घम् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
गुरु  1|4|11 (प्रथमैकवचनम्)
अधिकारः
आकडारात् एका संज्ञा  1|4|1
सम्पूर्णसूत्रम्
दीर्घम् गुरु च
सूत्रार्थः
दीर्घस्वरः गुरुसंज्ञकः भवति ।
अनेन सूत्रेण "गुरु" इयं संज्ञा पाठ्यते । यः स्वरः दीर्घः अस्ति, सः गुरुसंज्ञकः भवति । यथा - "राजा" अस्मिन् शब्दे द्वावपि आकारौ गुरुसंज्ञां प्राप्नुतः ।

"गुरु" संज्ञायाः प्रयोगः एतादृशेषु सूत्रेषु दृश्यते - गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् 8|2|86, गुरोश्च हलः 3|3|103

ज्ञातव्यम् - ऊकालोऽज्झ्रस्वदीर्घप्लुतः 1|2|27 अनेन सूत्रेण दीर्घसंज्ञा पाठ्यते ।
One-line meaning in English
A दीर्घ स्वर gets the term गुरु.
काशिकावृत्तिः
संयोगे इति न अनुवर्तते। सामान्येन संज्ञाविधान। दीर्घं च अक्षरं गुरुसंज्ञं भवति। ईहाञ्चक्रे। ईक्षाञ्चक्रे।
`ईहाञ्चक्रे, उहाञ्चक्रे` इति। `आम्प्रत्ययवत्` 1|3|63 इत्यादौ सूत्र एते व्यत्पादिते। गुरुसंज्ञायां त्वत्र कार्यम्- `इजादेश्च गुरुमतोऽनुच्छः 3|1|36 इत्यात्मप्रत्ययः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
दीर्घं च गुरुसंज्ञं स्यात् ॥। इति संज्ञाप्रकरणम्‌ ।
दीर्घं च - दीर्घं च । संयोग इति नानुवर्तते । दीर्घमपि गुरुसंज्ञकमित्यर्थः । इति संज्ञाप्रकरणमिति । सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां संज्ञाप्रकरणं समाप्तम्॥********************अथ सन्नन्तप्रक्रिया ।अथ सन्प्रक्रिया निरूप्यन्ते ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
गुरु स्यात्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.