Page loading... Please wait.
8|2|31 - हो ढः
॥ तस्मै पाणिनये नमः ॥
8|2|31
SK 324
हो ढः   🔊
सूत्रच्छेदः
हः (षष्ठ्येकवचनम्) , ढः (प्रथमैकवचनम्)
अनुवृत्तिः
झलि  8|2|26 (सप्तम्येकवचनम्) , अन्ते  8|2|29 (सप्तम्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
हः ढः झलि पदस्य अन्ते
सूत्रार्थः
हकारस्य पदान्ते झलि परे वा ढकारादेशः भवति ।
पदान्ते विद्यमानस्य हकारस्य नित्यम् ढकारादेशः भवति । अपदान्ते विद्यमानस्य हकारस्य झलि परे ढकारादेशः भवति ।

यथा -
1) "मधुलिह्" इत्यस्य हकारान्तपुँल्लिङ्गशब्दस्य तृतीयैकवचनस्य रूपम् -
मधुलिह् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः]
→ मधुलिढ् + भ्याम् [स्वादिष्वसर्वनामस्थाने 1|4|17 इति "लिह्" इत्यस्य पदसंज्ञा । अतः हकारस्य हो ढः 8|2|31 इति ढकारः ।]
→ मधुलिड् भ्याम् [झलां जशोऽन्ते 8|2|39 इति जश्त्वम् ।]
→ मधुलिड्भ्याम् ।

2) गुहुँ (संवरणे) अस्य धातोः क्त-प्रत्यये प्रक्रिया इयम् -
गुह् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ गुढ् + त [अपदान्तहकारस्य हो ढः 8|2|31 इति झलि परे ढकारः]
→ गुढ् + ध [झषस्तथोर्धोऽधः 8|2|40 इत्यनेन तकारस्य धकारः]
→ गुढ् + ढ [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वे धकारस्य ढकारः]
→ गुढ [ ढो ढे लोपः 8|3|13 इति ढकारे परे ढकारस्य लोपः । ष्टुत्वम् अस्य कृते सिद्धम् अस्ति ।]
→ गूढ [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इति उकारस्य दीर्घः । ढकारलोपः अस्य कृते सिद्धः अस्ति ।]
One-line meaning in English
A हकार is converted to a ढकार at पदान्त or when followed by a झल् letter.
काशिकावृत्तिः
हकारस्य ढकारदेशो भवति झलि परतः पदान्ते च। सोढा। सोढुम्। सोढव्यम्। जलाषात्। वोढा। वोढुम्। वोढव्यम्। प्रष्ठवाट्। दिव्यवाट्।
`सोढा` इति। `हो ढः` इति ढत्वे कृते `झषस्तथोर्धोऽधः` 8|2|40 इति तृचतकारस्य धत्वम्, ष्टुत्वम्, `ढो ढे लोपः` 8|2|13 `सहिवहोरोदवणस्य` 6|3|111 इत्योत्त्वम्। `जलाषाट्` इति। जलं सहत इति `भजो ण्विः` 3|2|62 , `छन्दसि सहः` 3|2|63 इति ण्विः, उपधावृद्धिः उपपदसमासः, `अन्येषामपि दृश्यते` 6|3|136 इति पूर्वपदस्य दीर्घ, ढकारस्य जश्त्वम्--डकारः, तस्य चत्त्र्वम्--टकारः, `सहेः साडः सः` 8|3|56 इति मूर्घन्यः। `प्रष्ठवाट्` इति। `वहश्च` 3|2|64 इति ण्विः। `चुहोः कुढौ` इत्येकयोग एव कत्र्तव्ये पृथग्योगकरणं समसंख्यात्वप्रतिषेधार्थम्। एकयोगे तु समसंख्यत्वाज्झलादौ कुत्व पदान्ते ढत्वं स्यात्॥
सोढेअति । ठ्तीषसहऽ इतीड् विकल्पः । तुराषाडिति । ठ्च्छन्दसि सहःऽ इति ण्विः, ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घत्वम्; ठ्सहेः साडः सःऽ इति षत्वम् । प्रष्ठवाडिति । ठ्वहश्चऽ इति ण्विः ॥
सिद्धान्तकौमुदी
॥ अथ हलन्तपुंलिङ्गप्रकरणम्‌ ॥

हस्य ढः स्याज्झलि पदान्ते च । हल्ङ्याब् (कौमुदी-252) इति सुलोपः । पदान्तत्वाद्धस्य ढः । जश्त्वचर्त्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥
नहो धः - अथ हान्ताः । "णह बन्धने"णो नः॑ । उपनह्रते इति विग्रहे उपपूर्वात्संपदादित्वात्कर्मणि क्विप् ।नहिवृती॑त्यादिना पूर्वपदस्य दीर्घः । उपानह्शब्दः स्त्रीलिङ्गः — पादुकावाची । "पादूरुपानत्स्त्री" इत्यमरः । नहो धः । "हो ढः" इत्यतो "ह" इत्यनुवर्तते ।पदस्ये॑त्यधिकृतम् ।स्कोः संयोगे॑त्यतोऽन्ते इत्यनुवर्तते ।झलो झली॑त्यतोझली॑त्यनुवर्तते । तदाह — नहो हस्येत्यादिना । "हो ढः" इति ढत्वापवादः । उपानदिति । उपानह्शब्दात्सोर्हल्ङ्यादिलोपः, हस्य धः, जश्त्वचर्त्वे इति भावः । अत्र दकार एव तु न विहितः, तथा सतिनद्ध॑मित्यत्ररदाभ्या॑मिति नत्वप्रसङ्गादित्यलम् । उपानद्भ्यामिति । हस्य धत्वे जश्त्वमिति भावः । उपानत्स्विति । धत्वेखरि चे॑ति चत्र्वमिति भावः । उष्णिहशब्दश्छन्दोविशेषवाची स्त्रीलिङ्गः । तुं व्युत्पादयितुमाह — ष्णिह प्रीतावित्यादिना । दलोपषत्वे इति । उदो दकारस्य लोपः, सस्य षत्वं च निपात्यत इत्यर्थः । न च "धात्वादेः षः सः" इति कृतसकारस्य "आदेशप्रत्यययोः" इत्येव षत्वे सिद्धे किं तन्नि पातनेन इति वाच्यं, सात्पदाद्यो॑रिति निषेधबाधनार्थं षत्वनिपातनस्यावश्यकत्वात् । न च उष्णिह्शब्दात्समासात्सुबुत्पत्तेः पूर्वं स्निहित्येतन्न पदम् । नितरां सकारस्य पदादित्वमिति वाच्यं,पदादादि॑रिति पक्षे षत्वनिषेधप्रसक्तेरित्याहुः । हस्य घ इति । घोषनादसंवारमहाप्राणसाम्यादिति भावः । नचक्विन्प्रत्ययस्ये॑ति कुत्वस्याऽसिद्धत्वाद्धो ढ इति ढत्वमेवोचितमिति वाच्यं,षत्वापवादः कुत्व॑मिति कैयटादिमते तुल्यन्यायतया षत्वस्येव ढत्वस्यापि कुत्वेन बाधात् । जश्त्वचर्त्वे इति । नच जश्त्वे कर्तव्येक्विन्प्रत्ययस्य कु॑रिति कुत्वस्याऽसिद्धत्वं शङ्क्यम्, "उष्णिगञ्चु" इति निर्देशेन जश्त्वे कर्तव्ये कुत्वस्याऽसिद्धत्वाऽभावज्ञापनात् । वस्तुतस्तुक्विन्प्रत्ययस्य कु॑रिति कुत्वं षत्वापवादो न भवती॑ति मूलकारमते तुल्यन्यायाड्ढत्वस्यापि नापवादः । ततश्च तद्रीत्या ढडगका इति बोध्यम् । इति हान्ताः । अथ वान्ताः । द्यौरिति । दिव्शब्दः स्त्रीलिङ्गः ।द्यौदिवौ द्वे स्त्रिया॑मित्यमरः । तस्मात्सुः,दिव औ॑दिति वकारस्य औकारः, इकारस्य यण्, रुत्वविसर्गौ । सुलोपस्य औत्त्वस्थानिभूतवकाराश्रयत्वेनाल्विधित्वात्स्थानिवत्त्वाभावान्न हल्ङ्यादिलोप इति भावः । द्युभ्यामिति । भ्यामादौ हलिदिव उदि॑त्युत्त्वमिति भावः । इति वान्ताः । अथ रान्ताः । गीरिति ।गृ निगरणे॑क्विप् ,ॠत इद्दातो॑रितीत्त्वं रपरत्वं, गिर्शब्दात्सुबुत्पत्तिः, सोर्लोपः, र्लोरुपधायाः॑ इति दीर्घः, रेफस्य विसर्ग इति भावः । भ्यामादौ तु हलि "र्वोः" इति दीर्घः, गीभ्र्यामित्यादि । गीर्षु । एवं पूरिति । गीर्वदित्यर्थः । "पृ पालनपूरणयोः" क्विप्,उदोष्ठपूर्वस्ये॑त्युत्त्वं, रपरत्वम् । पुर्शब्दात्सोर्लोपः,र्वो॑रिति दीर्घः, रेफस्य विसर्ग इति भावः । चतरुआआदेश इति । जश्शसोः स्त्रीलिङ्गस्य चतुर्शब्दस्यत्रिचतुरोः स्त्रिया॑मित्यनेनेति भावः । चतरुआ इति । परत्वा॒च्चतुरनडुहो॑रित्यमानं बाधित्वा चतसृभावे यण् । चतसृभावे कृते आम्तु न,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायादिति स्थानिवत्सूत्रे भाष्ये स्पष्टम् । चतसृणामिति । "न तिसृचतसृ" इति दीर्घनिषेधः । इति रान्ताः । अथ मान्ताः । किम इति । किम्शब्दात्स्त्रीलिङ्गाद्विभक्तौ "किमः कः" इति प्रकृतेः कादेशे कृतेऽदन्तात्वाट्टाबित्यर्थः । सर्वावदिति । सर्वाशब्दवदित्यर्थः ।सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः॑ इति न, शब्दस्वरूपपरस्य गौणतया कदाऽपि सर्वनामत्वाऽभावादिति भावः ।
नहो धः - नहो धः ।द॑इत्येव तु नोक्तं, तथा हि सतिनद्ध॑मित्यत्ररदाभ्यां॑मिति नत्वं स्यात्,झषस्तथो॑रिति च न स्यात् । नहो हस्येति ।हो ढः॑इत्यतोऽनुवृत्तेःअलोऽन्त्यस्ये॑त्यनेन वा हस्यैवादेश इति भावः ।झलो झलि॒॑पदस्य॒॑स्कोःसंयोगाद्योरन्ते चे॑त्यतो झल्पदान्तग्रहणान्यनुवर्तन्ते । तदाह — झलीत्यादि । झलि परतः पदान्ते वा विद्यमानेस्येत्यर्थः । उपानदिति । उपपूर्वान्नहेः संपदादित्वात्क्विपिनहिवृती॑ति पूर्वपदस्य दीर्घः । सोर्हङ्यादिलोपे धत्वम् । जश्त्वचर्त्वे । अत्रेदं बोध्यम् — सुष्ठु अनङ्वाहो यस्यामिति बहुव्रीहौस्वनङ्वा॑निति पुंवदेव रूपम्ष । केचित्तु गौरादिङीषं कृत्वास्वनङ्वाही॑त्युदाजह्युः । तदसत् । अनुपसर्जनाधिकारविरोधात् । गीरिति ।गृ निगरणे॑,गृ शब्दे॑इत्यस्माद्वा क्विप् ।ॠत इद्धतोः॑इतीत्त्वे रपरत्वम् ।र्वोरुप धाया दीर्घः॑इति दीर्घः । पूरिति ।पृ पालनपूरणयोः॒॑उदोष्ठपूर्वस्य॑इत्युत्त्वम् । चतरुआ इति । इहचतुरनडुहो॑रित्याम्न भवति, परत्वादामं बाधित्वा चतरुआआदेसे कृते सकृद्गतिन्यायेन पुनस्तस्याऽप्रवृत्तेः । चतसृणामिति ।न तुसृचतसृ॑इति न दीर्घः । सर्ववदिति ।तेन तुल्य॑मिति वति ।सर्वनाम्नो वृत्तिमात्रे॑इति पुंवद्भावः ।
लघुसिद्धान्तकौमुदी
हस्य ढः स्याज्झलि पदान्ते च। लिट्, लिड्। लिहौ। लिहः। लिड्भ्याम्। लिट्त्सु, लिट्सु॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.