Page loading... Please wait.
8|3|96 - विकुशमिपरिभ्यः स्थलम्
॥ तस्मै पाणिनये नमः ॥
8|3|96
SK 3085
विकुशमिपरिभ्यः स्थलम्   🔊
सूत्रच्छेदः
विकुशमिपरिभ्यः (पञ्चमीबहुवचनम्) , स्थलम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वि कु शमि परि इत्येतेभ्यः उत्तरस्य स्थलसकारस्य मूर्धन्यादेशो भवति। विष्ठलम्। कुष्ठलम्। शमिष्ठलम्। परिष्ठलम्।
`सात्पदाद्योः` 8|3|113 इति प्रतिषेधे प्राप्ते वचनम्। यथा चैवं तथा `कपिष्ठलो गोत्रे` 8|3|91 इत्यत्र प्रतिपादितम्। `विष्ठलम्, कुष्ठलम्` इति। स्थलशब्दः पचाद्यजन्तः, तेन यदा विकुशब्दौ निपातौ समत्येते तदा `कुयतिप्रादयः` 2|2|18 इति समासः। अथानिपातौ पक्षिपृथिवीवचणौ, तदा षष्ठीसमासः। `शमिष्ठलम्` इति। शमीनां स्थलमिति समासः। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्` 6|3|62 इति ह्यस्वः। ह्यस्वोच्चारणं दोर्धपक्षे मा भूदित्येवमर्थम्, अन्यथा हि बहुलवचनात्? दीर्घोऽपि पक्षे विज्ञायेत। `परिष्ठलम्` इति। प्रादिसमासः॥ येषामत्रोपपदसमासे कृते स्थलशब्द उत्तरपदे सप्तम्या अलुग्भवति, ये चेणन्ताः, तेब्यः `इष्कोः` 8|3|57 इत्यनेन प्राप्तस्य वत्वस्य पदादिलक्षणप्रतिषेधे प्राप्ते वचनम्। बर्हिःशब्दादपि `नुज्विसर्जनीयशष्र्यवायेऽपि` 8|3|58 इति पदादिलक्षण एव प्रतिषेधे प्राप्ते वचनम्। शेवेभ्यस्त्वप्राप्त एव। स्थ इति धातुग्रहणं स्यात्? स्वरूपग्रहणं वा? यदि `आतो धातोः` 6|4|140 इत्याकारलोपं कृत्वा तिष्ठतेः षष्ठआं धिर्देशस्ततो धातुग्रहणम्। अथ सुब्ब्यत्ययेन षष्ठ्याः स्णले प्रथमां कृत्वा स्थशब्दस्य कप्रत्ययान्तस्य निर्देशस्तदा स्वरूपग्रहणम्। यदात्र यदि धातोरिह ग्रहणं स्यात्? तदा गोस्थानमित्यादावपि प्रसज्येतेत्यालोच्य स्वरूपग्रहणं दर्शयन्नाह `इत्येतेभ्यः` इत्यादि। उदाहरणेषु गोष्ठ इत्यत्र गोशब्दे प्रथमान्त उपपदे घञर्थे कविधानम्। `स्वास्नापाव्यथिहविवुज्यर्थं धञर्थे कविधानाम्` (वा।306) इति गावस्तिष्ठन्त्यस्मिन्नित्यधिकरणे कप्रत्ययः। अपतिष्ठतीत्यर्थेऽपष्ठ इत्यत्र `सुर्पि स्वा` 3|2|4 इति कप्रत्वदः। `आपष्ठः` इति क्वचित्पाठः। `अन्येषामपि दृश्यते` 6|3|136 इति दीर्घः। अन्यत्रापि सर्वत्र `सुपि स्थः` 3|2|4 इत#इ कप्रत्ययः। यदि कुशब्दो निपातस्तदा प्रणमान्त एतस्मिन्नुपपदे कणिधिः, अथानिपातस्तदा सप्तम्यन्ते। अम्बादिषु सप्तम्यन्तेष्वेव। `जम्बष्ठः` इति। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्` 6|3|62 इति ह्यस्वः। `स्थ` इति। स्वरूपग्रहणादन्येवां न प्राप्नोतीतीदमाह--`स्थास्थिन्स्थृणाम्` इत्यादि। एषामपि षत्वं वक्तव्यम्, व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्--सुषामादेराकृ-तिगणत्वादेषां षत्वं भविष्यतीति। `सव्र्येष्ठा` [`सव्येष्ठाः`---काशिका] इति। सव्ये तिष्ठतीति `दिवेॠ।` (द।उ।2।7) इत्यनुवत्र्तमाने `नयतेर्डिच्च` (द।उ।2।8) इति डिति च `सव्ये स्थश्छब्दसि` (द।उ।2।9) इति सव्यशब्द उपपदे तिष्ठतेॠप्रत्ययः, डित्वाट्टिलोपः, `तत्पुरुषे` 6|3|13 इत्यादिना सम्पम्या अलुक्, सव्येष्ठृ इति स्थिते `ऋदुशनस्पुदोदंशोऽनेहसाम्` 7|1|94 इत्यादिमाब्नङ्, `सर्वनामस्णाने चासम्बुद्धौ` 6|4|8 इति दीर्घः। `परमेष्ठी` [`परमेष्ठीः`--काशिका] इति। `गमेरिधिः` (द।उ।6।57) इत्यनुवत्र्तमाने `परमे स्थः किच्च` [`कित्` इत्येव--द।उ।] (द।उ।6।61) इतीनिप्रत्ययः, कित्त्वादालोपः। परमेष्ठिन्निति स्थिते `सौ च` 6|4|13 इति दीर्घः। `सव्येष्ठृसारधिः` इति। पूर्ववत्? सव्येष्ठृशब्दं साधयित्वा सारधिशब्देन कर्मधारयः॥
वि, कु, परि---इत्येतेषाम् ठ्कुगतिप्रादयःऽ इति समासः, शमीशशब्दस्य तु षष्ठीसमासः, ठ्ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्ऽ इति ह्रस्वत्वम् । सूत्रे ह्रस्वोच्चारणे ह्रस्वपक्ष एव षत्वं यथा स्यात् । तेन प्रयोगे बहुलवचनाद्यदा ह्रस्वत्वं न भवति, तदा षत्वमपि न भवति ॥
सिद्धान्तकौमुदी
एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.