Page loading... Please wait.
7|2|37 - ग्रहोऽलिटि दीर्घः
॥ तस्मै पाणिनये नमः ॥
7|2|37
SK 2562
ग्रहोऽलिटि दीर्घः   🔊
सूत्रच्छेदः
ग्रहः (पञ्चम्येकवचनम्) , अलिटि (सप्तम्येकवचनम्) , दीर्घः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ग्रहः उत्तरस्य इटः अलिटि दीर्घो भवति। ग्रहीता। ग्रहीतुम्। ग्रहीतव्यम्। अलिटि इति किम्? जगृहिव। जगृहिम्। प्रकृतस्येटो दीर्घत्वमिदम्, चिण्वदिटो न भवति। ग्राहिता। ह्याहिष्यते।
`ग्रह उत्तरस्य` `ग्रह` इति पञ्चमीं दर्शयति। यद्येवम्, तदेङ्ग्रहणं कत्र्तव्यम्? न कत्र्तव्यम्; प्रकृतमेव तदनुवत्र्तते। तद्धि प्रथमान्तनिर्दिष्टम्, षीष्ठीनिर्देशेन चेहार्थः? नैष दोषखः; `ग्रहः` इत्येषा पञ्चमीति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति; `तस्मादित्युत्तरस्य` 1|1|66 इति वचनात्। `जगृहिव, जगृहिम्` इति। ग्रह्रादिसूत्रेण 6|1|16 सम्प्रसारणम्।तथा ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह--`प्रकृतस्यैव` इत्यादि। आर्धधातुकस्येति यः प्रकृत इट्? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात्। चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते। तत्सहचरित इट्? चिण्वदित्युच्यते। `ग्राहित` इति। `अनद्यतने लुट्` 3|3|35 , `स्यतासी लृलुटोः` 3|1|33 इति तासिः, भावकर्मणोः` 1|3|13 इत्यात्मनेपदम्, `लुट प्रथमस्य` 2|4|85 इत्यादिना डादेशः, टिलोपः, `स्यसिच्सीयुट्तासिषु` 6|4|62 इत्यादिनेट्? चिण्वद्भावाद्वृद्धिः। अथ जरीगृहिता, जरीगृहीतुमित्यत्र यङन्तात्? तृनि तुमुनि च यलोपाल्लोपयोः कृतयोर्दीर्घः कस्मान्न भवति? उत्तरसूत्रे वाग्रहणस्योभयोरपि योगयोः शेषभूतत्वाद्व्यवस्थिविभाषाविज्ञानात्। अथ वा--विहितविशेषणपक्षोऽत्र व्याख्यायते। ग्रहेर्थो विहित इट्? तस्य दीर्घो भवति। न चात्र ग्रहेर्विहित इट्? कुतस्तर्हि? यङ्न्तात्। तस्मान्नेह दीर्घस्य प्रसङ्गः। अथ `ग्रह ईडलिटि` इत्येवं कस्मान्नोक्तम्, किं दीर्घग्रहणेन? नैवं शक्याम्; एवं सतीट्कार्यमीटो न स्यात्, ततश्चाग्रहीदित्यत्र `इट ईटि` 8|2|28 इति सिचो लोपो न स्यात्, `नेटि` 7|2|4 इति प्रतिषेधश्च; इह चाग्रहीढ्वम्, अग्रहीध्वमित्यत्रेटः `विभाषेटः` 8|3|79 इति मूर्घन्यश्च; दीर्घ इट आदेशे सति तस्य स्थानिवद्भावदिट्कार्यमुपपद्यत इति दीर्घं एव विधीयते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्नतु लिटि । ग्रहीता । लिटि तु जग्रहिथ । गृह्यात् । ग्रहीषीष्ट । ह्म्यन्त----(कौमुदी-2299) इति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत ॥ । इति तिङन्तक्र्यादिप्रकरणम्‌ ।
ग्रहोऽलिटि दीर्घः - ग्रहोऽलिटि दीर्घः ।ग्रहट इति दिग्योगे पञ्चमी । "आद्र्धधातुकस्येट्" इत्यत इडित्यनुवृत्तं षष्ठन्तं विपरिणम्यते,एकाच उपदेशेऽनुदात्ता॑ दित्यत एकाच इति च । तदाह — एकाच इत्यादि । एकाचः किम । यङ्लुकि माभूत् । जाग्रहिता । विहितस्येति किम् । ग्रहितम् । णिलोपे कृते ग्रहधातोः परत्वेऽपि विहतत्वाऽभावादिटो न दीर्घः । न च णिलोपस्य स्थानिवत्त्वान्न ग्रहधातोः पर इडिति वाच्यं, दीर्घकित्त्वात्संप्रसारणमिति भावः । लिङस्तङ्याह — ग्रहीषीष्टेति । "ग्रहोऽलिटी" ति दीर्घः ।न लिङी॑ति इटो दीर्घनिषेधस्तु न, तत्रवृतट इत्यनुवृत्तेः । अग्रहीष्टामिति ।ग्रहोऽलिटी॑ति दीर्घः । अग्रहीषुः । अग्रहीरित्यादि । लुङस्तङ्याह — अग्रहीष्टेति ।ग्रहोऽलिटी॑ति दीर्घः । अग्रहीषतेति । अग्रहीष्ठा इत्यादि सुगमम् । इति क्र्यादयः ।॥ इति बालमनोरमायाम् क्र्यादयः॥अथ तिङन्ते लकारार्थप्रक्रिया ।अथ लकारार्थप्रक्रिया निरूप्यते ।
ग्रहोऽलिटि दीर्घः - ग्रहिषीष्टेति ।वृत॑ इत्यनुवृत्तेर्न लिङी॑ति दीर्घनिषेधो न प्रवर्तते । अग्रहीषातामिति । लुङ् । आत्मनेपदद्विवचनम् ।इति तत्त्वबोधिन्याम् क्र्यादयः ।अथ तिङन्ते लकारार्थप्रक्रिया ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ग्रहोऽलिटि दीर्घः ।। ग्रहेर्दीर्घत्वे इड्ग्रहणम्(2) ।। ग्रहेर्दीर्घत्वे इड्ग्रहणं कर्तव्यम् । इटो दीर्घ इति वक्तव्यम् ।। न वक्तव्यम् ‐ प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। आर्धधातुकस्येड्वलादेरिति ।। एवमपि कर्त्तव्यमेव(3) ।। अकरणे(4) ह्यसंप्रत्ययः षष्ठ्यभावात् ।। अक्रियमाणे हीड्ग्रहणेऽसंप्रत्ययः स्यात् ।। किं कारणम् ? ।। षष्ठ्यभावात् । षष्ठीनिर्दिष्टस्य आदेशा उच्यन्ते न चात्र षष्ठीं पश्यामः ।। क्रियमाणे चापि इड्ग्रहणे(1) ‐ ।। चिण्वदिटः प्रतिषेधः ।। चिण्वदिटः प्रतिषेधो वक्तव्यः । ग्रहिष्यते ।। यङ्लोपे च ।। यङ्लोपे च प्रतिषेधो वक्तव्यः । जरीगृहिता जरीगृहितुम् जरीगृहितव्यम् ।। यदि पुनरिड् दीर्घ आगमान्तरं विज्ञायेत ? ।। इड्दीर्घ इति चेद्विप्रतिषिद्धम् ।। इडदीर्घ इति चेद्विप्रतिषिद्धं भवति(3) । यदि इण्न दीर्घः, अथ दीर्घो नेट्, इड् दीर्घश्चेति विप्रतिषिद्धम् ।। प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वाऽभावः(1) ।। प्रतिषिद्धस्य च (2)पुनर्विधाने दीर्घत्वस्याऽभावः । वुवूर्षते विवरिषते विवरीषते ।। अत्रापीड् दीर्घ इत्यनुवर्तिष्यते ।। यत्तर्हि विदेशस्थं प्रतिषिध्य पुनर्विधानं तन्न सिध्यति । जॄव्रश्च्योः क्त्विश्र्युकः कितीत्यनेन प्रतिषिद्धे दीर्घत्वं न प्राप्नोति । जरित्वा जरीत्वा । इर्टो विधिरिटः प्रतिषेधः । यथाप्राप्त(3) इड् दीर्घो भविष्यति ।। यदि तर्हीटो ग्रहणे इर्टो ग्रहणं न भवति, ‐ जरीत्वा ‐ न क्त्वा सेडिति कित्त्वप्रतिषेधो न प्राप्नोति । इह चाऽग्रहीदिति ‐ इट इर्टीति सिज्लोपो न प्राप्नोति । इह चाऽग्रहीत् ‐ नेटीति वृद्धिप्रतिषेधो न प्राप्नोति ।। मा भूदेवं ह्मयन्तानामित्येवं भविष्यति ।। अत्रापि नेटीत्येवानुवर्तते । तच्चावश्यमिड्ग्रहणमनुर्वत्यम्-अधाक्षीदित्येवमर्थम्(4) । तथा ‐ अग्रहीध्वम्(5) अग्रहीढ्वं ‐ विभाषेट इति मूर्धन्यो न प्राप्नोति । तस्मान्नैतच्छक्यं(1) वक्तुम् ‐ इटोग्रहणे इर्टो ग्रहणं न भवतीति ।। भवति चेत्प्रतिषिद्धस्य च(2) पुनर्विधाने दीर्घाऽभाव (ःथ्द्य;त्येव) । तस्मादशक्य इड् दीर्घ आगमान्तरं विज्ञातुम् । न चेद्विज्ञायते इटो ग्रहणं कर्तव्यम् ।। न कर्तव्यम् । आर्धधातुकस्येति वर्तते । ग्रहः परस्यार्धधातुकस्य दीर्घत्वं वक्ष्यामि ।। इहापि तर्हि प्राप्नोति ‐ ग्रहणम् ग्रहणीयम् ।।वलादेरिति वर्तते ।। एवमपि ग्रहीता ग्रहीतुम् अत्र न प्राप्नोति ।। भूतपूर्वगत्या भविष्यति । एवमपि ग्राहकः-अत्र प्राप्नोति ।। किं चेट्प्रतिघातेन खल्वपि दीर्घत्वमुच्यमानमिटं बाधेत(3) । तस्मादिटो ग्रहणं कर्तव्यम् ।। न कर्तव्यम् । प्रकृतमनुवर्तते ।। क्व प्रकृतम् ? ।। आर्धधातुकस्येड्वलादेरिति ।। ननु चोक्तम् ‐ एवमपि कर्तव्यमेव(5), अग्रहणे ह्यसंप्रत्ययः षष्ठ्यनिर्देशा ‐ दिति ।। नैषः दोषः । ग्रह इत्येषा पञ्ञ्चमी इडिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति ‐ -तस्मादित्युत्तरस्येति ।। एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं चिण्वदिटः प्रतिषधःथ्द्य;ति ।। कथम् ? ।। प्रकृतस्येट(6) इदं दीर्घत्वं, न च चिण्वदिट्प्रकृतः ।। यङ्लोपे च(7) कथम् ? ।। प्रकृतस्येट(6) इदं दीर्घत्वं, न च चिण्वदिट्प्रकृतः ।। यङ्लोपे च(7)कथम् ? ।। यङ्लोपे चोक्तम् ‐ इटि सर्वत्र ।। क्व सर्वत्र ? ।। यद्येव(1) प्रकृतस्येटो दीर्घत्वमथापि इर्ड्दीर्घ(2) आगमान्तरं विज्ञायेत (2)।। यङ्लोपे चोक्तम्(4) ।। किमुक्तम् ? ।। तदन्तद्विर्वचनादिति ।।