Page loading... Please wait.
6|4|63 - दीङो युडचि क्ङिति
॥ तस्मै पाणिनये नमः ॥
6|4|63
SK 2507
दीङो युडचि क्ङिति   🔊
सूत्रच्छेदः
दीङः (पञ्चम्येकवचनम्) , युट् (प्रथमैकवचनम्) , अचि (सप्तम्येकवचनम्) , क्ङिति (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 आर्धधातुके  6|4|46
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
दीङो युडागमो भवति अजादौ क्ङिति प्रत्यये परतः। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङः इति पञ्चमीनिर्देशादजादेर् युडागमो भवति। विधानसामर्थ्याच् च एरनेकाचो ऽसंयोगपूर्वस्य 6|4|82 इति यणादेशे कर्तव्ये तस्य सिद्धत्वं न भवति। अचि इति किम्? उपदेदीयते। क्ङिति इति किम्? उपदानम्।
`उपदिदीये` इति। `दीङ क्षये` (धातुपाठः-1134), `असंयोगाल्लिट्? कित्` 1|2|5 इति कित्त्वम्, लिटस्तझयोरेशिरेचौ। `दीङः` इति षष्टीयं वा स्यात्, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा `आद्यन्तौ टिकितौ` 1|1|45 इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्यते; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह--`दीङ इति पञ्चमीनिर्देशात्` इत्यादि। पञ्चमीनिर्देशे हि सति `उभयनिर्देश पञ्चमनिर्देशो बलीयान्` (शाक।प।97) इति `दीङः` इति पञ्चम्याः `अचि` इति सम्पम्याः षष्ठीत्वे प्रकल्पते `तस्मादित्युत्तरस्य` 1|1|66 इत्यजादेरादिर्युडागमो भवति। `अचि` इति सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र `एरनेकाचः` 6|4|82 इति यणादेशे कर्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्, ततश्चोपदिदीय इति न सिद्ध्येत्, `उपदिद्ये` इत्यनिष्टं रूपं प्राप्नोति, अत आह--`विधानसामथ्र्यात्` इत्यादि। यदि यणादेशे कत्र्तव्ये युटोऽसिद्धत्वं स्यात्, तदा युटो विधानमनर्थकं स्यात्; विशेषाभावात्। कथं पुनर्विशेषाभावः, यावताऽसति हि युटएकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्। `उपदेदीयते` इति। `दीङ क्षये` (धातुपाठः-1134), `असंयोगाल्लिट्? कित्` 1|2|5 इति कित्त्वम्, लिटस्तझयोरेशिरेचो।`दीङः` इति षष्टीयं वा स्यात्, पञ्चमी वेति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा `आद्यन्तौ टकितौ` 1|1|45 इत्यादौ युटि कृते धातोरनिष्टं रूपमापद्येत; अत इदं षष्ठीपक्षे दूषणमालक्ष्य पञ्चमीपक्षं पुरस्कृत्याह--`दीङ इति पञ्चमीनिर्देशात्` इत्यादि। पञ्चमीनिर्देशे हि सति `उभयनिर्देश पञ्चमीनिर्देशो बलीयान्` (शाक।प।97) इति `दीङः` इति पञ्चम्याः `अचि` इति सप्तम्याः षष्ठीत्वे प्रकल्पिते `तस्मादित्युत्तरस्य` 1|1|66 इत्यजादेरादिर्युडागमो भवति। `अचि` इति। सप्तमीनिर्देशस्तूत्तरार्थः। ननु चात्र `एरनेकाचः` 6|4|82 इति यणादेशे कत्र्तव्ये युडसिद्ध इति यणादेशेन भवितव्यम्, ततश्चोपदिदीय इति न सिद्ध्येत्, `उपदिद्ये` इत्यनिष्टं रूपं प्राप्नोति। अत आह--`विधानसामथ्र्यात्` इत्यादि। यदि यणादेशे कत्र्तव्ये पुटोऽसिद्धत्वं स्यात्, तदा युटो विधानमनर्थकं स्यात्; विशेषाभावात्। कथं पुनर्विशेषाभावः, यावताऽसति हि युटएकस्य यकारस्य श्रवणं भवति, सति तु द्वयोः? नैषोऽस्ति विशेषः; न हि व्यञ्जनपरस्यैकस्यानेकस्य का हला श्रवणं प्रति विशेषोऽस्ति। ये तु विशेषमिच्छन्ति, तन्मतेनास्माभिः पूर्वमेव यणादेशे युटः सिद्धत्वमन्यथा प्रतिपादितम्। `उपदेदीयते` इति। यङः। `उपदानम्` इति। ल्युट्, `मीनातिमिनोतिदीङीं ल्यपि च` 6|1|49 इत्यात्त्वम्। `दीङ` इत्यनुबन्धनिर्देशो यङलुकि मा भूदित्येवमर्थः--देद्यतु, देद्युरिति। ननु चात्र `कास्प्रत्ययादाममन्त्रे` 3|1|35 इत्यामा भवितव्यम्, तेनाक्ङित्वादेव न भविष्यति? सत्यमेतत्; अमन्त्रे न भविष्यति, मन्त्रे तु स्यादेव; तत्रामोऽभावात्। अथ यङ्लुगन्तस्य मन्त्रे प्रयोगो न दृश्यते, तदा विस्पष्टार्थम्॥
दीङ् इति पञ्चमीनिर्देशादिति । षष्ठ।लं त्वास्यां दीङ् एवादितो युट् स्यात्, पञ्चम्यां तूभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति अचीति सप्यम्याः षष्ठ।लं प्रकल्पितायामजादेर्युड् भवति । सप्तमीनिर्देशस्तूतरार्थः, तदादिविध्यर्थश्च । विधानसामर्थ्याच्चेति । यदि युटोऽसिद्धत्वेन यणादेशः स्यात्, युड्विधानमनर्थकं स्यात् उपदिय्य इति रुपे विशेषाभावात् । न च यकारद्वयश्रवणाद्विशेषः, हलो यमां यमि लोपः, थैति पक्षे यलोपविधानात् । न च पक्षे श्रुतिभदः, यणो मये द्वे इति द्विर्वचनविधानादेव सिद्धत्वात् । श्रुतिभेदोऽपि व्यञ्जनात्परस्यैकस्यानेकस्य वा यकारस्य कीदृश इति चिन्त्यम् । उपदानमिति । मीनातिमिनोतिदीङं ल्यपि च त्यात्विम्, दीङ्ः इत्यनुबन्धनिर्द्देशो यङ्लुकि मा भूदिति ॥
सिद्धान्तकौमुदी
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् ॥ ।वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ (वार्तिकम्) ॥ दिदीये ॥
दीङो युडचि क्ङिति - दीङो युडचि । "आद्र्धधातुके" इत्यधिकृतमचा विशेष्यते । तदादिविधिः । "दीङ" इति पञ्चमी । सप्तमी षष्ठर्थे ।तदाह — दीङः परस्येत्यादिना । दिदी ए इति स्थिते परत्वात् "एरनेकाचः" इति यणि प्राप्ते नित्यत्वाद्युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः । तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह — -वुग्युटाविति ।
दीङो युडचि क्ङिति - दीङो । पञ्चमीत्यभिप्रायेण व्याचष्टे — परस्येति । अजादेरिति ।डऋ सी॑त्यत्रेवउभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति सप्तम्याः षष्ठीकल्पनम् । अचि किम् । देदीयते । क्ङितीति किम् । उपादानम् । आभीयत्वेनाऽसिद्धत्वमाशङ्क्याह — वुग्युटाविति ।*वुग्युटावुवडणोः सिद्धौ वक्तव्यौ । दिदीये इति । परमपि यणं बाधित्वा नित्यत्वादादौ युट् । सति तु यणि ईकारस्य श्रवणं न स्यादिति युटः सिद्धत्वमुक्तम् ।
लघुसिद्धान्तकौमुदी
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। (वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ)। दिदीये॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.