`अघसत्` इति। लृदित्त्वात् पुषादिसूत्रेण
3|1|55 च्लेरङ्गादेशः। `जिघत्सति` इति। `सः स्याद्र्धधातुके`
7|4|49 इति सकारस्य तकारः।`घस्लृभावेऽच्युपसंख्यानम्` इति। घस्लृभावे कत्र्तव्येऽचि तस्योपसंख्यानम् = प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन घस्लृभावेऽच्यपि भवति। `प्रघसः` इति। पचाद्यच्॥