Page loading... Please wait.
6|4|67 - एर्लिङि
॥ तस्मै पाणिनये नमः ॥
6|4|67
SK 2374
एर्लिङि  
सूत्रच्छेदः
एः (प्रथमैकवचनम्) , लिङि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 आर्धधातुके  6|1|46
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
घुमास्थागापाजहातिसामङ्गानां लिङि परतः एकारादेशो भवति। देयात्। धेया। मेयात्। स्थेयात्। गेयात्। पेयात्। हेयात्। अवसेयात्। क्ङिति इत्येव, दासीष्ट। धासीष्ट।
`पूर्वेणेत्त्वे प्राप्त एत्वं विधीयते। `मेयात्` इति। `मा माने` (धातुपाठः-1062) इत्यस्येदम्दाहरणम्, न तु माङ् मेङोः, तयोह्र्रात्मनेपदित्वात्परस्मैपदं न सम्भवति। `गेयात्` इति। `कै गै` (धातुपाठः-916,917) इत्यस्योदाहरणम्, न तु गाङः; तस्य परस्मैपदासम्भवात्। नापीणिगिङादेशानाम्; तेषामपि लिङ्यसम्भवात्। इङादेशस्य तु पूर्वस्माच्च हेतोः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
घुसंज्ञानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥
एर्लिङि - एर्लिङि ।ए॑रिति प्रथमान्तम् ।आद्र्धधातुके॑इत्यधिकृतम् ।घुमास्थागापाजहातिसा॑मित्यनुवर्तते । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहवनचम् । तदाह — घुसंज्ञानां मास्थादीनामिति । किति लिङिति ।दीङो यु॑डित्यतः कितीत्यनुवृत्तेरिति भावः । ङितीति नानुवर्तते, लिङाद्र्धधातुकस्य ङित्त्वाऽसंभावात् ।
एर्लिङि - एर्लिङि । मास्थादीनमिति । मास्थागापाजहातिसामित्यर्थः । मा माने । गामादाग्रहणेष्वविशेषेऽपि माङ्मेङौ नेह गृह्रेते, लिङि कित्त्वाऽसंभवात् । ष्टा गतिनिवृत्तौ । गै शब्दे । गाङ् गतौ इति तु न गृह्रते, लिङि कित्त्वाऽसंभवादेव । पा पाने । ओहाक् त्यागे । षोऽन्तकर्मणि । देयात् । धेयात् । मेयात् । स्थेयात् । गेयात् । पेयात् । हेयात् । अवसंयात् । आद्र्धधातुके किम् । मायात् । मायाताम् । मायुः । कितीति किम् । दासीष्ट । इहदीङो युडची॑त्यतः क्ङितीत्यनुवर्तमानेऽपि प्रकृतोपयोगितया कितीत्यस्यैवानुवृत्तिः कृता ।
लघुसिद्धान्तकौमुदी
घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.