Page loading... Please wait.
8|2|26 - झलो झलि
॥ तस्मै पाणिनये नमः ॥
8|2|26
SK 2281
झलो झलि   🔊
सूत्रच्छेदः
झलः (पञ्चम्येकवचनम्) , झलि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
झलः उत्तरस्य सकारस्य झलि परतो लोपो भवति अभित्त। अभित्थाः। अच्छित्त। अच्छित्थाः। अवात्ताम्, अवात्त इत्यत्र वा सिचः सकारलोपस्य असिद्धत्वात् सः स्यार्धधातुके 7|4|49 इति सकारस्य तकारः। झलः इति किम्? अमंस्त। अमंस्थाः। झलि इति किम्? अभित्साताम्। अभित्सत। अयम् अपि सिच एव लोपः, तेन इह न भवति, सोमसुत् स्तोता, दृष्त्स्थानम् इति।
`अभित्त, अभित्थाः` इति। भिदेर्लुङि स्वरितेत्त्वादात्मनेपदम्; तथासो, दकारस्य `खरि च` 8|4|54 इति चत्त्र्वम्--तकारः। `अवात्ताम्` इति। दसेर्लुङि तसस्ताम्। `अदात्त` इति। थस्य तः, `वदव्रज` 7|2|3 इत्यादिना वृद्धिः। अत्र सकारलोपे कृते `सः स्यार्धधातुके` 7|4|49 इति तकारो न प्राप्नोतीति यस्य भ्रान्तिः स्यात्, तं प्रत्याह--`अवात्ताम्` इत्यदि। `अमंस्त, अमंस्थाः` इति। `मन ज्ञाने` (धातुपाठः-1176), अनुदात्तेत्त्वादात्मनेपदम्। `अभित्साताम्` इति। भिदेराताम्। `अभित्सत` इति। `आत्मनेपदेष्वनतः` 7|1|5 इति झस्यादादेशः॥
भिदिच्छिदी स्वरितेतौ, मन्यतिहनुदातेत् । अयमपि सिच एव लोप इति । यदि वा ठ्पदस्यऽ इति वर्तते, तत्र प्रत्यासतेः ठ्झलो झलिऽ सस्येति निर्द्दिष्टानां त्रयाणामप्येकसम्बन्धत्वे विधिरयमिति सोमसुत् स्तोतेत्यादौ न भविष्यति । समासेऽपि न भवति---सोमसुत्स्थितिरिति । किं कारणम् ? सकारथकाराभ्यां यत्पदमारब्धं तत्प्रति तकारस्यावयवत्वाभावात् ॥
सिद्धान्तकौमुदी
झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टाम् । इत्यादि । 49 खादृ भक्षणे । ऋकार इत् । खादति । चखाद । 50 खद स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥
झलो झलि - असैध् स् तामिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपेऽप्राप्ते — झलो झलि । झल इति पञ्चमी । संयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येति चानुवर्तते । तदाह — झलः परस्येत्यादि । असैद्धामिति । असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् । पक्ष इति । इट्पक्षे इत्यर्थः । असेधीदिति । इट ईटीति सलोपः । नेटीति वृद्धिप्रतिषेधः । लघूपधगुणः । खादृ इति । अत्र ऋदित्वंनाग्लोपी॑त्याद्यर्थमित्यभिप्रेत्याह — ऋकार इदिति । खदेति । स्थैर्यं — स्थिरीभवनम् ।
झलो झलि - ॒संयोगान्तस्ये॑त्यतो लोप इति,रात्सस्ये॑त्यतः सस्येति चानुवर्तते । तदाह — सस्य लोपः स्यादिति । पदस्येत्यधिकारात्प्रत्यासत्तेर्झलो झलि सस्येति निर्दिष्टानां त्रयाणामेकपदसंबन्धित्वे लोपोऽयम् । तेनसोमसुत्स्थानटमित्यत्र नभवति । झलः किम् । अनैष्टाम् । झलि किम् । असैत्सीत् । असेधीदिति ।नेटी॑ति वृद्धिप्रतिषेधः गुणः । रखादृ भक्षणे । ऋकार इदिति । तेननाग्लोपी॑ति निषेधः । अचखादत् ।
लघुसिद्धान्तकौमुदी
झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः। अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्॥ क्षि क्षये॥ 13॥ क्षयति। चिक्षाय। चिक्षियतुः। चिक्षियुः। एकाच इति निषेधे प्राप्ते --।
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.