Page loading... Please wait.
1|1|31 - द्वन्द्वे च
॥ तस्मै पाणिनये नमः ॥
1|1|31
SK 224
द्वन्द्वे च   🔊
सूत्रच्छेदः
द्वन्द्वे (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
सर्वनामानि  1|1|27 (प्रथमाबहुवचनम्) , सर्व-आदीनि  1|1|27 (प्रथमाबहुवचनम्) , न  1|1|29 (अव्ययम्)
अधिकारः
-
सम्पूर्णसूत्रम्
सर्वादीनि द्वन्द्वे न सर्वनामानि
सूत्रार्थः
द्वन्द्वसमासे विद्यमानानाम् सर्वादिगणस्य शब्दानाम् "सर्वनाम" इति संज्ञा न भवति ।
Additional description will be added soon.
One-line meaning in English
The words present in a द्वन्द्व समास are not called सर्वनाम even if they belong to सर्वादिगण.
काशिकावृत्तिः
द्वन्द्वे च समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । पूर्वापराणाम्, कतरकतमानाम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
अयं समुदायस्यैव निषेधो नावयवानाम्, कुतः ? त्यादादीनां तावत् "त्यदादीनि सर्वैर्नित्यम्" इति एकशेषेण भाव्यम्, प्राक् च त्यादादिभ्योऽकारान्ताः,तत्र न काकचोर्विशेषः; शर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" त्विष्यत एव-दक्षिणोतरपूर्वाणामिति, सोऽयं प्रतिषेधो ज्ञापयति-"अस्ति सर्वनामसंज्ञायां तदन्तविधिः" इति ॥
सिद्धान्तकौमुदी
द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । नचैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥
द्वन्द्वे च - तदाह — द्वन्द्वे उक्तेति । सर्वनामसंज्ञा नेत्यर्थः । वर्णाश्रमेतराणामिति ।वर्णाश्रमेतराणां नो ब्राऊहि धर्मानशेषतः॑ इति याज्ञवल्क्यस्मृतिः । वर्णाश्चाअश्रमाश्च इतरे चेति द्वन्द्वः । अत्र सर्वनामत्वाऽभावादामि सर्वनाम्न इति न सुट् । समुदायस्यैवेति । द्वन्द्वे विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नाऽर्थः, विद्यतिक्रियाध्याहारे गौरवात् । किन्तु द्वन्द्वे सर्वनामसंज्ञा न भवतीति प्रधानभूतया निषेध्यवनक्रिययैव द्वन्द्वस्याधारतयाऽन्वयः । द्वन्द्वाधारा सर्वनामसंज्ञा न भवतीत्यक्षरार्थः । द्वन्द्वस्य सर्वनामसंज्ञा नेति फलितम् । वर्णाश्रमतरेत्यादिसमुदायस्यैव द्वन्द्वता नतु तदवयवानाम् । एवंच वर्णाश्रमेतरेत्यादिसमुदायस्यैव सर्वनामत्वनिषेधो नतु तदवयवानामिति वस्तुस्तितिकथनम् । ननु द्वन्दावयवानां सर्वनामत्वनिषेधाऽभावे वर्णाश्रमेतरशब्दे इतरशब्दस्य सर्वनामतया ततः परस्यामः सुटि वर्णाश्रमेतरेषामिति स्यात् । नच अवर्णान्तात्सर्वनाम्नोऽह्गात्परस्यामः सुड्विधीयते । ततश्च वर्णाश्रमेतरशब्दस्य समुदायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात्परत्वादामः स#उट् स्यात् । न चैवं सति द्वन्द्वस्य तन्निषेधात् । इतरशब्दस्तु सर्वनामसंज्ञकः,न ततो विहित आम्, आमः समुदायादेव विधानात् । अतो न सुडिति भावः ।अवर्णान्तादङ्गात्सर्वनाम्नो विहितस्यामः सु॑डिति व्याख्याने तु येषां तेषामित्यत्राऽव्याप्तिः । अतोऽवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडित्येव व्याख्येयम् ।
द्वन्द्वे च - द्वन्द्वे च । समुदायस्येति । तत्रैव द्वन्द्वशब्दस्य मुख्यत्वात् । न चद्वन्द्वे यानि सर्वादीनी॑ति संबन्धः, कारकाणां क्रिययैवान्वयात् । न चद्वन्द्वे विद्यमानानि यानी॑ति संबन्धः, विद्यतिक्रियाध्याहारे गौरवात्, निषेध्याया भवतिक्रियाया एव प्राधान्येन तदन्वयस्यैव न्याय्यत्वाच्चेति भावः । सुट्प्रसङ्ग इति । न चद्वन्द्वे चे॑ति निषेधसामथ्र्यात्वर्णाश्रमेतराणा॑मित्यादौ सुण्न प्रसज्यत इति वाच्यम्, अनङ्गस्य त्रतसिलादेव्र्यावृत्त्या तत्सामथ्र्यस्योपक्षीणत्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.