Page loading... Please wait.
8|3|28 - ङ्णोः कुक्टुक् शरि
॥ तस्मै पाणिनये नमः ॥
8|3|28
SK 130
ङ्णोः कुक्टुक् शरि   🔊
सूत्रच्छेदः
ङ्‍णोः (षष्ठीद्विवचनम्) , कुक्टुक् (प्रथमैकवचनम्) , शरि (सप्तम्येकवचनम्)
अनुवृत्तिः
वा  8|3|26 (अव्ययम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदस्य ङ्णोः शरि कुक् टुक् वा
सूत्रार्थः
पदान्ते विद्यमानस्य ङकारस्य णकारस्य च शर्-वर्णे परे (क्रमेण) विकल्पेन कुक् तथा टुक् आगमः भवति ।
शर्-प्रत्याहारे श्, ष्, स् - एते त्रयः वर्णाः समाविश्यन्ते । एतेषु परेषु पदान्तङकारस्य विकल्पेन कुक्-आगमः भवति, पदान्तणकारस्य च विकल्पेन टुक्-आगमः भवति । आद्यन्तौ टकितौ 1|1|46 इत्यनेन एतौ आगमौ स्थानिनः अनन्तरम् भवतः । यथा -

1) प्राङ् + षष्ठः = प्राङ्क्षष्ठः, प्राङ्षष्ठः ।
2) सुगण् + षष्ठः = सुगण्ट्षष्ठः, सुगण्षष्ठः ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् । इत्युक्ते, "पौष्करसादि" नाम्नः आचार्यस्य मतेन चय्-वर्णात् (= वर्गप्रथमवर्णात्) अनन्तरम् यदि शर्-वर्णः आगच्छति, तर्हि तस्य (इत्युक्ते वर्गप्रथमस्य) स्थाने वर्गद्वितीयः वर्णः आदेशरूपेण आगच्छति । यथा - तत् + सह = तथ् + सह । अयम् आदेशः केवलं पौष्करसादेः मतेन भवति, अतः विकल्पेन भवति इत्यर्थः । वेदेषु बहुत्र एतादृशः वर्गद्वितीयादेशः कृतः दृश्यते । निर्देशसामर्थ्यात् अस्य अग्रे जश्त्वम् न भवति इति स्मर्तव्यम् ।
अतः अस्मिन् उदाहरणे अपि प्राङ् + षष्ठः इत्यत्र कुगागमे कृते "प्राङ् क् षष्ठः" इति स्थिते अनेन वार्तिकेन ककारस्य वैकल्पिकः खकारादेशः अपि भवितुम् अर्हति, येन "प्राङ्ख्षष्ठः" इत्यपि रूपं सिद्ध्यति । तथैव, "सुगण् + षष्ठः" इत्यस्य टुगागमे कृते अनेन वार्तिकेन तस्य ठकारादेशं कृत्वा सुगण्ठ्षष्ठः इत्यपि रूपं सिद्ध्यति ।

विशेषः -
1. अस्मिन् वार्तिके प्रयुक्तः चय्-प्रत्याहारः पाणिनिना अष्टाध्याय्यां कुत्रापि प्रयुक्तः नास्ति । केवलं अस्मिन् वार्तिके अस्य प्रयोगः दृश्यते ।
2. एतत् वार्त्तिकम् भाष्यकारेण नादिन्याक्रोशे पुत्रस्य 8|4|48 इत्यत्र पाठितम् अस्ति । कौमुदीकारेण तु एतत् वार्त्तिकम् अस्मिन्नेव सूत्रे उक्तमस्ति ।
One-line meaning in English
A ङकार and a णकार at end of a पद optionally get कुक् and टुक् आगम respectively.
काशिकावृत्तिः
ङकारणकारयोः पदान्तयोः कुक् टुकित्येतावागमौ वा भवतः शरि परतः। प्राङ्क् शेते, प्राङ् शेते। प्राङ्क् षष्ठः, प्राङ् षष्ठः। प्राङ्क् साये, प्राङ् साये। णकारस्य वण्ट् शेते, वण् शेते। पूर्वन्तकरणं प्राङ्क् छेते इत्यत्र छन्त्वर्थम्। शश्छो ऽटि 8|4|63 इति हि पदन्ताज् झयः इति तद् विज्ञायते। इह मा भूत्, पुरा क्रूरस्य विसृपो विरप्शिन्। प्राङ्क् सायः इत्यत्र अपि सात् पदाद्योः 8|3|111 इति षत्वप्रतिषेधार्थं च। वण्ट् सायः इत्यत्र च न पदान्ताट् टोरनाम् 8|4|42 ष्टुत्वप्रतिषेधार्थम्।
ङश्च णश्च तौ ङ्णौ, कश्च टश्च कटौ, तयोरुकारककाराभ्यां प्रत्येकमभिसम्बन्धः--कुक्ट्गिति। उकार उच्चारणार्थः, ककारो देशविध्यर्थः। `प्राङ्क्? छेते` इति। प्राङिति `क्विन्प्रत्ययस्य कुः` 8|2|62 इत्यत्र व्युत्पादितम्। वण्ट् छेते` इति। वणतेर्विच्। किमर्थं पुनः पूर्वान्तादेतौ क्रियेते? इत्याह--`पूर्वान्तकरणम्` इत्यादि। किं पुनः कारणं पूर्वान्तत्वे च्छत्वं भवति, न पुनः परादित्वे? इत्यत आह--`शश्छोऽटि` इत्यादि। किमर्थं पुनरेतद्धि `विज्ञायते? [वलिज्ञायेत`--कांउ।पाठः] इत्यत आह--`इह` इत्यादि। यदि पदान्ताज्झय 8|2|10 इत्येवं तत्र न क्रियेत, तदा विरप्शिन्नित्यत्र च्छत्वं विज्ञायेत, एवञ्च विज्ञायमाने न भवति, न ह्रत्र पदान्ते झय्। `विरिष्शिन्` इति। विपूर्वाद्रपेः `लृटः सद्वा` [`लटः`--प्रांउ।पाठः] 3|3|14 इति शत्रादेशाः, `व्यत्ययो बहुलम्` 3|1|85 इति स्यप्रत्ययस्य सकारस्य शकारः, यकारस्य चेकारः। `प्राङक्? सायः` इति। अत्र परादित्वे सति `इण्कोः` 8|3|57 , `आदेशप्रत्यययोः` 8|3|59 इति प्राप्तस्य षत्वस्य `सात्पदाद्योः` 8|3|114 इति प्रतिषेधो न स्यात्; अपदादित्वात्। `वण्ट्? सायः` इति। अत्रापि `ष्टुना ष्टुः` 8|4|40 इति प्राप्तस्य ष्टुत्वस्य `न पदान्ताट्टोरनाम` 8|4|41 इति प्रतिषेधो न स्यात्; अपदान्तत्वात्। तस्मात्? प्राङक्छेत इत्यादौ छत्वादिसिध्यर्थ पूर्वान्तकरणम्॥
उदाहरणेषु ठ्खयो द्वितीयाः शरि पौष्करसादेःऽ इति पक्षे ककारस्य खकारः, टकारस्य ठकारः । पूर्वान्तकरणमित्यादि । किं पुनः कारणंपदादौ च्छत्वं न सिध्यतीत्यत आह---शश्छाएऽटीति । विरप्शिन्निति । महन्नामैतत्, विपूर्वाद्रपेरौणादिकः कर्मणि शिनिप्रत्ययः । यदि वा विरपणं विरप्, सोऽस्यास्तीति विरप्शः उ शब्दितः, सङ्कीर्तत इत्यर्थः । षत्वप्रतिषेधार्थमिति । परादौ तु सकारः पदादिर्न स्यात् । ष्टुअत्वप्रतिषेधार्थमिति । परादौ तु टकारः पदान्तो न स्यात् ॥
सिद्धान्तकौमुदी
ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाज्जश्त्वं न ॥ ।चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् (वार्तिकम्) ॥ प्राङ्ख्षष्ठः । प्राङ्क्षष्ठः । प्राङ्षष्ठः । सुगण्ठ्षष्ठः । सुगण्टषष्ठः । सुगण्षष्ठः ॥
ङ्णोः कुक्टुक् शरि - ङ्णोः ।हे मपरे वे॑त्यतो वेत्यनुवर्तते । कुक् च टुक् चेति समाहारद्वन्द्वः । आगमाविति । एतच्चआद्यन्तौ टकिता॑विति लभ्यम् । यतासङ्ख्यपरिभाषया च ङकारस्य कुक्, णकारस्य टुक् । उभयत्र ककार इत्ष उकार उच्चारणार्थः ।प्राङ् षष्ठः सुगण् षष्ठः॑ इति स्थिते, यथाक्रमङ्कुकिटुकि च तयोः पूर्वावयवत्वेन पदान्तत्वाज्जश्त्वमाशङ्क्याह — कुक्टुकोरिति । चयो द्वितीया इति ।पौष्करसादिशब्दस्य चयो द्वितीया॑ इत्यर्थभ्रमं वारयति — पौश्करसादिराचार्य इति । तथाच विकल्पः फलतीति भावः । प्राङ्क् षष्ठ इति कुकि रूपम् । "चयो द्वितीया" इति पक्षे प्राङ् ख् षष्ठ इति रूपम् । नचात्र खकारस्य खरि चेति चर्त्वं खकारारम्भविधिसामथ्र्यात् । "चयो द्वितीया" इति "नादिन्याक्रोश" इति सूत्रभाष्यपठितमिदम् । "प्राङ् षष्ठ" इति कुगभावे रूपम् । एवं टुक्यपि सुगण्टषष्ठ इत्यादि ।
ङ्णोः कुक्टुक् शरि - ङ्णोः । चयो द्वितीया इति । एतच्च नादिन्याकोशे इति सूत्रे भाष्ये स्थितम् । अतएव मनोरमायांडः सी॑ति सूत्रेतु॑डित्युच्यमानेचयो द्वितीयाः-॑ इति पक्षे थकारापत्तिरुक्ता । यदि तुङ्णोः॑ इति सूत्रस्थं स्यात्तर्हितु॑डित्येव सुवचं स्यात् । तुटोऽसिद्धत्वेन चयो द्वितीयाः-इत्यस्याऽप्रवृत्तेः । पौष्करसादेरिति । पुष्करे तीर्थविशेषे सीदतीति पुष्करसत् । तस्यापत्यं पौष्करसादिराचार्यः । बाह्वादित्वादिञ् । अनुशतिकादित्वादुभयपदवृद्धिः ।
लघुसिद्धान्तकौमुदी
वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥
महाभाष्यम्
ङ्णोः कुक्टुक शरि डः सि धुट् ।। नश्च ।। शितुक।। ङमो ह्रस्वादचि ङ्मुण्नित्यम् इह धुडादिषु के चित्पूर्वान्ताः क्रियन्ते केचित्परादयः। यदि पुनः सर्व एव पूर्वान्ताः स्युः सर्व एव वा(2) परादयः कश्चात्र विशेषः?।। धुगादिषु(3) ष्टुत्वणत्वप्रतिषेधः।। धुगादिषु(3) सत्सु ष्टुत्वणत्वयोः प्रतिषेधो वक्तव्यः। ष्टुत्वस्य तावत्-श्वलिट्त्साये मधुलिट्त्साये। ष्टुना ष्टुरिति ष्टुत्वं प्राप्नोति। परादौ पुनः सतिन पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति न पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति पदान्तस्य नेति प्रतिषेधः सिद्धो भवति।। सन्तु तर्हि परादयः।। परादौ छत्वषत्वविधिप्रतिषेधः(4)।। यदि परादयश्छत्वं विधेयं, षत्वं च(1) प्रतिषेध्यम्। छत्वं विधेयं-कुर्वञ्ञ्च्छेते कृषञ्ञ्च्छेते। यद्धि तच्छश्छोटीति झयः पदान्तादित्येवं तत्।। किं पुनःकारणं-झयः पदान्तादित्येवं तत्?।। इह मा भूत् पूरा क्रूरस्य विसृपो विरप्शिन्निति। षत्वं च प्रतिषेध्यं-प्रत्यङ्क्सिञ्च उदङि्क्सञ्च। आदेशप्रत्यययोरिति षत्वं प्राप्नोति। पूर्वान्ते पुनः सति सात्पदाद्योरिति प्रतिषेधः सिद्धो भवति। तस्मात्सन्तु यथान्यासमेव केचित्पूर्वान्ताः के चित्परादयः। अयं तु खलु शितुक्छत्वार्थं नियोगतः पूर्वान्तः कर्तव्यः। तत्र कुर्वञ्ञ्च्छेते कृषञ्ञ्छेत इतिरषाभ्यां नो णः समानपद इति णत्वं प्राप्नोति।। नैषः दोषः-श्चुत्वे योगविभागः करिष्यते। इदमस्ति क्षुभ्नादिषु च। क्षुभ्नादिषु(2) न णकारो भवति। ततः-स्तोः श्चुना(1)। स्तोः श्चुना संनिपाते न णकारो भवति।। ततः श्चुः। श्चुश्च भवति स्तोः श्चुना सन्निपाते।। डः सि धुट्।