Page loading... Please wait.
8|4|7 - अह्नोऽदन्तात्‌
॥ तस्मै पाणिनये नमः ॥
8|4|7
SK 791
अह्नोऽदन्तात्‌   🔊
सूत्रच्छेदः
अह्नः (प्रथमैकवचनम्) , अदन्तात् (प्रथमैकवचनम्) , (षष्ठीस्थाने प्रथमा)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अदन्तं यत् पूर्वपदं तत्स्थान् निमित्तादुत्तरस्य अह्नो नकारस्य णकार आदेशो भवति। पूर्वाह्णः। अपराह्णः। अदन्तातिति किम्? निरह्नः। दुरह्नः। अह्नो ऽह्न एतेभ्यः 5|4|88 इत्यह्नादेशः। अह्नः इत्यकारान्तग्रहणाद् दीर्घाह्नी शरदित्यत्र न भवति।
`अह्नः` इति षष्ठ्याः स्थाने प्रथमा पूर्ववत्। समानमेव यन्नित्यं पदं तत्? समानग्रहणादाश्रयन्ति ये, तेषां विध्यर्थमेतत्। अन्येषां तु नियमार्थंम्। एवमुत्तरत्रापि नियमार्थता विध्यर्थता च यथायोगं वेदितव्या। `पूर्वाह्णाः` इत्यादि। पूर्वापरादिसूत्रेण [`पूर्वपरादि`--कांउ।पाठः, प्रांउ।पाठश्च] 2|2|1 एकदेशी समासः। `राजाहःसखिभ्यष्टच्` 5|4|91 इति टच्? समासान्तः। `अह्नोऽह्न एतेभ्यः` 5|4|88 इत्यह्नादेशः, सवर्णदीर्घः। `निरह्नः` इति। निर्गतमह्न इति प्रादिसमासः। शेषं पूर्वयत्। `दीर्घाह्नो` इति। दीर्घाव्यहानि यस्यामिति बहुव्रीहिः। टज्विचौ `तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः` 5|4|86 इत्यतस्तत्पुरुषग्रहणमनुवत्र्तते। तेन बहुव्रीहौ टज्न भवति। `अन उपधालोपिनोऽन्यतरस्याम्` 4|1|28 इति ङीप्, `अल्लोपोऽनः` 6|4|134 इत्युपधाकारलोपः। अत्राकारान्तग्रहणान्न भवति णत्वम्। यदि त्वनकारान्तस्य स्यात्, ततः `पूर्वाह्णः` इत्यत्र प्रत्ययात्प्राग्यथा व्यवस्थितस्याङ्नो नकारस्य णकारादेशो भवति, तथा `दीर्घाह्नी शरत` इत्यत्रापि स्यात्। अतोऽस्य ग्र्हणं हि व्याख्यानाद्विज्ञायते। तपरकरणात्? पराजितमहः `पराह्नः` इत्यत्र आकारान्तान्न भवति। अन्तग्रहणं विस्पष्टार्थम्। तपरेणाकारेम पूर्वपदे विशेष्यमाण तदन्तविधिर्भविष्यतीति विनाप्यन्तग्रहणतदन्तता लभ्यत इति।
पूर्वाह्ण इति । अह्नः पूर्वो भाग इति ठ्पूर्वापरऽ इत्यादिसूत्रेण समासः, ठ्राजाहः सखिभ्यष्टच्ऽ, ठह्नोऽह्न एतेभ्यःऽ इत्य अह्नादेशः । निरह्न इति । निर्गतोऽह्न इति प्रादिसमासः, शेषं पूर्ववत् । दीर्घाह्नी शरादति । बहुव्रीहिरयम्, तेन टज्न भवति; टज्विधौ तत्पुरुषाधिकारात् । ठन उपधालोपिनोऽन्यतरस्याम्ऽ इति ङीप्, ठल्लोपोऽनःऽ । अकारान्तस्य ग्रहणादत्र णत्वं न भवति । यदि तु नकारस्यायं षष्ठ।ल निर्देशः स्यात्, अत्रापि णत्वं स्यात् । अकारान्तस्य तु ग्रहणं प्रकरणाद्विज्ञायते । सर्वत्र प्रकरणे स्थानी प्रथमया निदिश्यते---वनम्, वाहनम्, यानमिति । यद्वा---युवादिषु पाठादस्य णत्वाभावः । अवश्यकर्तव्यश्च युवादिषु पाठः; प्रातिपदिकान्तेति विकल्पेन णत्वं मा भूदिति । अन्तग्रहणं ज्ञापकम्---अत्र प्रकरणे न यत्नमन्तरेण वर्णेनापि तदन्तविधिर्भवतीति । तेन ठ्रषाभ्याम्ऽ इत्यत्र तदन्तविधिने भवति ॥
सिद्धान्तकौमुदी
अदन्तपूर्वपदस्थाद्रेफात्परस्यऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः ॥ कालाट्ठज्ञ् (कौमुदी-1381) ॥ द्विगोर्लुगनपत्य (कौमुदी-1080) इति ठञो लुक् । द्व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । द्वयह्ना । द्व्यह्नप्रियः । अत्यह्नः ॥
अह्नोऽदन्तात् - अह्नोऽदन्तात् ।पूर्वपदात्संज्ञायाम् इत्यतः पूर्वपदादित्यनुवृत्तमदन्तादित्यत्रान्वेति । "रषाभ्यां नो णः" इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह — अदन्तपूर्वेति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाह्ण इत्यत्र णत्वार्थं षादित्यपि बोध्यम् । समासान्ते परे इति किम् । द्वे अहनी भृतो द्व्यहीनः । अत्र समासान्तविधेरनित्यत्वाट्टज्भावेऽह्नादेशो न । सर्वाह्ण इति । सर्वमहरिति विग्रहेपूर्वकालैके॑ति समासे "राजाहःसखिभ्यः" इति टच्, अह्नादेशः । णत्वं । "रात्राह्नाहाः" इति पुंस्त्वम् । पूर्वाह्ण इति । समासादि सर्वाह्णवत् । सङ्ख्याताह्न इति । सङ्ख्यातमहरिति विग्रहः । विशेषणसमासः, टच् अह्नादेशः । निमित्ताऽभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । सङ्ख्यापूर्वस्य उदाहरति — द्वयोरह्नोरित्यादि । द्वयह्न इति । तद्धितार्थे द्विगुः । टच् । ततो भावार्थे ठञ्, तस्य लुक्, अह्नादेशः । प्रसङ्गादाह — स्त्रियामिति । द्व्यह्नेति । द्व्योरह्नोर्भवेत्यर्थः । ठञ् । लुक् च पूर्ववत् ।अपरिमाणविस्ते॑ति न ङीप् । टञ्निमित्तस्तु ङीब्नेत्यपरिमाणविस्तेत्यत्रोक्तम् । टचष्टित्वेऽप्युपसर्वनत्वाट्टिड्ढेति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवाऽत्रनास्ति ।रात्राह्नाहाः पुंसी॑त्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । सङ्ख्यापूर्वस्योदाहरणान्तरमाह-द्व्यह्नप्रिय इति । द्वे अहनी प्रिये यस्येति विग्रहः । तद्धितार्थ इत्युत्तरपदे द्विगुः । टच्, अह्नादेश इति भावः । अव्ययपूर्वस्योदाहरति — अत्यह्न इति । अहरतिक्रान्त इति विग्रहः । "अत्यादय" इति समासः । टच् अह्नादेश इति भावः ।
अह्नोऽदन्तात् - रेफादिति । यदि तु लक्षे अहस्तु भव इत्यादिव्युत्पत्त्यालक्षाह्ण॑इत्यपि प्रयोगोऽस्ति, तर्हि षादित्यपि बोध्यम् ।रषाभ्या॑मित्यधिकारात् । ठञो लुगिति ।अणो लु॑गिति वृत्तिकाराद्युक्तमयुक्तमिति भावः । प्रसङ्गादाह — -सत्रियामिति । नन्विह स्त्रीत्वं दुर्लभं,रात्राह्नहाः पुंसी॑ति वचनादिति चेन्मैवम् । सर्वमहः सर्वाहृ इत्यादावुपक्षीणस्य वद्वचनस्य लुप्ततद्धितायामप्रवृत्ते ।लुपि युक्तव॑दिति लिङ्गतिदेशो ह्रत्र प्रमाणम् । प्राकृतलिङ्गानुसासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयथ्र्यापत्तेः । अतएव लवणः सूपः लवणा यवागूरित्यादौ न क्लीबत्वम् । किं चद्विगुप्राप्तापन्ने ॑त्यादिना परवल्लिङ्गत्वे प्रतिषिद्धे तदपवादस्यरात्राह्नाहाः॑ इत्यस्याऽप्राप्तिरेवेति व्द्यह्नशब्दोऽयं विशेष्यनिघ्न एव, न तु नियतपुंलिङ्गः । एवं चाऽत्र भवार्थकतद्धिते लुप्तेऽपियः शिष्यते स लुप्यमानार्थाभिधायी॑ति न्यायेन भवार्थवत्तन्निष्ठस्त्रीत्वाभिधानमपि न्याय्यमेवेति दिक् । टाबिति । न चेह ठञन्तत्वान्ङीप्स्यादिति शङ्क्यं, ठञो लुप्तत्वात् । न च प्रत्ययलक्षणं, वर्णाश्रयत्वात् ।ठञो योऽकारस्तदन्तान्ङी॑बिति तत्र व्याख्यात्त्वात् । अतएव वृत्तिकाराद्युक्ताऽणो लुक् पक्षेऽपि न ङीफ्,अण्योऽकारः॑इति तत्र व्याख्यातत्वात् । न चैवमपि टजन्तत्बान्ङीप्स्यादेवेति वाच्यम् । टचः समासान्ततया तदन्तस्य तद्धितार्थं प्रत्युपसर्जनत्वात् । अतएव हि आपिशलिना प्रोक्तमधीयाना ब्राआहृणी आपिशलेत्युदाह्मतं भाष्ये ।द्विगो॑रिति ङीप्तु न शङ्क्य एव,अपरिमणे॑ति निषेधात् । अतष्टाबेबात्र युक्तः । तथैवोदाहरति —
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अह्नोऽदन्तात् ।। अदन्ताददन्तस्य(3)।। अदन्ताददन्तस्येति वक्तव्यम्। इह मा भूत्-दीर्घाह्नी शरदिति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम् । नैषाऽहञ्ञ्छब्दात्षष्ठी।। का तर्हि?।। अह्नशब्दात्प्रथमा। पूर्वसूत्रनिर्देशश्च(1)।। अथ वा युवादिषु पाठः करिष्यते।। (अह्नोऽदन्तात्)।।