Page loading... Please wait.
8|4|66 - उदात्तादनुदात्तस्य स्वरितः
॥ तस्मै पाणिनये नमः ॥
8|4|66
SK 3660
उदात्तादनुदात्तस्य स्वरितः   🔊
सूत्रच्छेदः
उदात्तात् (पञ्चम्येकवचनम्) , अनुदात्तस्य (षष्ठ्येकवचनम्) , स्वरितः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उदात्तातुत्तरस्य अनुदात्तस्य स्वरितादेशो भवति। गार्ग्यः। वात्स्यः। पचति। पठति। अस्य स्वरितस्य असिद्धत्वातनुदात्तं पदम् एकवर्जम् 6|1|158 इत्येतन् न प्रवर्तते। तेन उदात्तस्वरितौ उभावपि श्रूयेते।
`गार्ग्यः, वात्स्यः` इति। गर्गवक्ष्तशब्दाभ्याम्? `गर्गादिभ्यो यञ्` 4|1|105 इति यञ्, `ञ्नित्यादि नित्यम्` [`ञ्नित्यादेनि`--प्रांउद्रितः पाठः] 6|1|191 इत्यत्त्युदात्तत्वम्, `अनुदात्तं पदमेकवर्जम्` 6|1|152 इति शेषस्यानुदात्तत्वम्, तस्य स्वरितो भवति। `पचति, पठति` इति। तिप्सपौ पित्त्वादनुदात्तौ। पकारस्याकारोऽपि धातुस्वरेणोदात्तः। तस्मात्? परस्य शवकारस्य स्वरितत्वं भवति। किं पुनः कारणं सूत्रमिदमिहोचयते, न `तित्स्वरितम्` 6|1|179 इत्यस्यानन्तरमुच्यताम्, एवं हि स्थरितग्रहणं न कत्र्तव्यं भवति; प्रकृतमेव ह्रनुवर्त्तिष्यते? इत्याह--`अस्य` इत्यादि। यदि तत्र क्रियेत, तदा `अनुदात्तं पदमेकवर्जम्` 6|1|152 इत्येतदिह प्रवत्र्तेत, तत्श्चानुदात्तस्वरितौ श्रूयेयाताम्, नोदात्तस्वरितौ। इह तु क्रियमाणे स्वरितस्यासद्धत्वात्? तदाश्रयम्? `अनुदात्तं पदमेकवर्जम्` 6|1|152 इति न प्रवत्र्तते, तेन द्वावप्यस्योदात्तस्वरितौ श्रूयेते॥
गार्ग्यः, वात्स्य इति । ठ्गर्गादिभ्यो यञ्ऽ, ञित्वादाद्यौदातत्वम्, शेषनिघातः, तस्य स्वरितः । पचति, पठतीति । शप्तिपावनुदातौ, धातुस्वरः, शबकारस्य स्वरितत्वम् । ठ्तित्स्वरितम्ऽ इत्यस्यानन्तरमिदं वक्तव्यम्, एवं हि स्वरितग्रहणं न कर्तव्यं भवति ? अत आह---अस्येति । यदि तत्र क्रियेत, ठनुदातं पदमेकवर्जम्ऽ इत्येतत्प्रवर्तेत । इह तु करणे न प्रवर्ततेः स्वरितस्यासिद्धत्वात् । तेन द्वयोरप्युदातस्वरितयोः श्रवणं भवति ॥
सिद्धान्तकौमुदी
उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् । अग्निमीळे (अ॒ग्निमी॑ळे) । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः (तमी॑शा॒नासः॑) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.