Page loading... Please wait.
8|4|53 - झलां जश् झशि
॥ तस्मै पाणिनये नमः ॥
8|4|53
SK 52
झलां जश् झशि   🔊
सूत्रच्छेदः
झलाम् (षष्ठीबहुवचनम्) , जश् (प्रथमैकवचनम्) , झशि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
झलां झशि जश्
सूत्रार्थः
झल्-वर्णस्य झश्-वर्णे परे जश्-वर्णादेशः भवति ।
अस्मिन् सूत्रे प्रयुक्ताः त्रयः प्रत्याहाराः एतादृशाः -
1. झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः ।
2. जश् = वर्गतृतीयाः ।
3. झश् = वर्गतृतीयाः + वर्गचतुर्थाः ।

अनेन सूत्रेण झल्-वर्णस्य झश्-वर्णे परे अन्तरतमः जश्-वर्णादेशः भवति । अस्य सूत्रस्य प्रसक्तिः अपदान्ते एव अस्ति, यतः पदान्त-झल्-वर्णस्य तु झलां जशोऽन्ते 8|2|39 इत्यनेन नित्यम् जश्त्वम् भवति ।

झल्-वर्णस्य जश्-वर्णादेशः एव "जश्त्वम्" नाम्ना ज्ञायते । अष्टाध्याय्यां जश्त्वविधायके द्वे सूत्रे स्तः - झलां जशोऽन्ते 8|2|39 तथा झलां जश् झशि 8|4|53 । एतयोः प्रथमम् सूत्रम् पदान्ते जश्त्वं विधीयते, द्वितीयं सूत्रम् च अपदान्तस्य झल्-वर्णस्य झशि परे जश्त्वम् कारयति ।

झल्-प्रत्याहारे उपस्थितानां सर्वेषाम् वर्णानाम् झश्-वर्णे परे अनेन सूत्रेण कीदृशं जश्त्वं भवति तत् अधः सोदाहरणम् निर्दिष्टम् अस्ति -

1) क्, ख्, ग्, घ् - एतेषां स्थाने आन्तरतम्येन गकारः विधीयते । यथा, दुह्-धातोः तुमुन्-प्रत्ययान्तरूपस्य प्रक्रिया इयम् -
दुह् + तुमुन् [तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ 3|3|10 इति तुमुन्]
→ दोह् + तुम् [पुगन्तलघूपधस्य च 7|3|86 इति उपधायाः गुणः]
→ दोघ् + तुम् [हो ढः 8|2|31 इति हकारस्य ढकारे प्राप्ते अपवादत्वेन दादेर्धातोर्घः 8|2|32 इति घत्वम्]
→ दोघ् + धुम् [झषस्तथोर्धोऽधः 8|2|40 इति तकारस्य धकारः]
→ दोग् + धुम् [झलां जश् झशि 8|4|53 इति घकारस्य गकारः]
→ दोग्धुम्

2) च्, छ्, ज्, झ् - एतेषां स्थाने आन्तरतम्येन जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः चोः कुः 8|2|30 इत्यनेन अपदान्त-चवर्गस्य झलि परे कुत्वम् भवति ।

3) ट्, ठ्, ड्, ढ् - एतेषां स्थाने आन्तरतम्येन डकारः विधीयते ।

4) त्, थ्, द्, ध् - एतेषां स्थाने आन्तरतम्येन दकारः विधीयते । यथा, बुध्-धातोः तृच्-प्रत्ययान्तस्य प्रथमैकवचनम् एतादृशम् सिद्ध्यति -
→ बुध् + तृच् + सुँ [ण्वुल्तृचौ 3|1|133 इति तृच्-प्रत्ययः । स्वौजस्.. 4|1|2 इति प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ बोध् तृ स् [पुगन्तलघूपधस्य च 7|3|86 इति गुणः]
→ बोध् त् अन् स् [ ऋदुशनस्पुरुदंसोऽनेहसां च 7|1|94 इत्यनेन अङ्गस्य "अनङ्" आदेशः ]
→ बोध् तान् स् [अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 6|4|11 इति अङ्गस्य उपधादीर्घः]
→ बोध् तान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ बोध् ता [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारस्य लोपः]
→ बोध् + धा [झषस्तथोर्धोऽधः 8|2|40 इति तकारस्य धकारः]
→ बोद्धा [झलां जश् झशि 8|4|53 इति धकारस्य दकारः]

5) प्, फ्, ब्, भ् - एतेषांस्थाने आन्तरतम्येन बकारः विधीयते । यथा - लभ्-धातोः क्त-प्रत्ययान्तरूपम् एतादृशम् सिद्ध्यति -
लभ् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ लभ् + ध [झषस्तथोर्धोऽधः 8|2|40 इति तकारस्य धकारः]
→ लब्ध [झलां जश् झशि 8|4|53 इति भकारस्य बकारः]

6) शकारस्य स्थाने आन्तरतम्येन जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः व्रश्चभ्रस्ज... 8|2|36 इत्यनेन अपदान्त-शकारस्य झलि परे षकारादेशः भवति ।

7) षकारस्य स्थाने आन्तरतम्येन डकारः विधीयते । यथा, द्विष्-धातोः आत्मनेपदस्य लोट्लकारस्य मध्यमपुरुष-बहुवचनस्य प्रक्रिया इयम् -
द्विष् + लोट् [लोट् च 3|3|162 इति लोट्]
→ द्विष् + ध्वम् [तिप्तस्.. 3|4|78 इति आत्मनेपदस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् थ-प्रत्ययः]
→ द्विष् + शप् + ध्वम् [कर्तरि शप् 3|1|68 इति विकरणप्रत्ययः "शप्"]
→ द्विष् + ध्वम् [अदिप्रभृतिभ्यः शपः 2|4|72 इति शप्-प्रत्ययस्य लुक्]
→ द्विड् + ध्वम् [झलां जश् झशि 8|4|53 इति षकारस्य डकारः]
→ द्विड् ढ् वम् [ष्टुना ष्टुः 8|4|41 इति धकारस्य ष्टुत्वं ढकारः]
→ द्विड्ढ्वम्

8) सकारस्य स्थाने आन्तरतम्येन दकारः विधीयते ।

9) हकारस्य स्थाने आन्तरतम्येन गकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः हो ढः 8|2|31 इत्यनेन अपदान्त-हकारस्य झलि परे ढकारादेशः भवति ।
One-line meaning in English
A झल्-letter is converted to a corresponding जश्-letter when followed by a झश् letter.
काशिकावृत्तिः
झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। वोद्धुम्। बोद्धव्यम्। झशि इति किम्? दत्तः। दत्थः। दध्मः।
`लब्धा` इत्यादि। लभेस्तृच्तुमुन्तव्याः। `झषस्तथोर्धोऽधः` 8|2|40 इति धकारे झशि भकारस्य जश्त्वम्--बकारः। `देग्धा` [`दोग्घा`--काशिका] इति। `दिह उपचये` (धातुपाठः-1015), `दादेर्धातोर्धः` 8|2|32 इति हकारस्य धकारः। `बोद्धा` इति। जश्तेवन धकारस्य दकारः॥
उदाहरणेषु भ-घ-धानां ब-ग-दाः ॥
सिद्धान्तकौमुदी
स्पष्टम् । इति धकारस्य दकारः ॥
झलां जश् झशि - झलाञ्जश् झशि । स्पष्टमिति । झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम् । तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः । इति धकारस्येति । प्रथमधकारस्येत्यर्थः । दकार इति । स्थानत आन्तर्यादिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
स्पष्टम्। इति पूर्वधकारस्य दकारः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.