Page loading... Please wait.
8|4|46 - अचो रहाभ्यां द्वे
॥ तस्मै पाणिनये नमः ॥
8|4|46
SK 59
अचो रहाभ्यां द्वे   🔊
सूत्रच्छेदः
अचः (पञ्चम्येकवचनम्) , रहाभ्याम् (पञ्चमीद्विवचनम्) , द्वे (प्रथमाद्विवचनम्)
अनुवृत्तिः
वा  8|4|45 (अव्ययम्) , यरः  8|4|45 (षष्ठ्येकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
अचः रहाभ्याम् यरः द्वे वा
सूत्रार्थः
अचः परस्य यौ रेफहकारौ, ताभ्याम् परस्य यरः द्वे वा स्तः ।
अच्-वर्णात् परस्य यदि रेफः हकारः वा आगच्छति, तर्हि तस्मात् रेफात् / हकारात् परस्य यर्-वर्णस्य विकल्पेन द्वित्वं भवति ।

यथा - "कार्यम्" अस्मिन् शब्दे आकारात् परः रेफः अस्ति, तस्मात् परः च यकारः अस्ति यः यर्-प्रत्याहारेण निर्दिश्यते । अतः अत्र वर्तमानसूत्रेण यकारस्य विकल्पेन द्वित्वं कृत्वा "कार्य्यम्" इत्यपि रूपं सिद्ध्यति ।

अन्यानि उदाहरणानि
1. ब्रह्मा, ब्रह्म्मा । अकारात् परः हकारः, तस्मात् परः यः मकारः तस्य द्वित्वम् ।
2. दर्श्यते, दर्श्श्यते । अकारात् परः रेफः, तस्मात् परः यः शकारः तस्य द्वित्वम् ।
3. ईर्ष्या, ईर्ष्ष्या । ईकारात् परः रेफः, तस्मात् परः यः षकारः तस्य द्वित्वम् ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे निर्दिष्टः स्थानी "यर्" वर्णः अस्ति । यर्-प्रत्याहारे हकारम् विहाय अन्यानि सर्वाणि व्यञ्जनानि समावेश्यन्ते । अतः हकारात् परस्य हकारस्य अनेन सूत्रेण द्वित्वं न विधीयते । यथा - "बर्हणम्" इत्यत्र अनेन सूत्रेण रेफात् परस्य हकारस्य द्वित्वं न भवति ।

2. यर्-प्रत्याहारे वस्तुतः रेफः समाविष्टः अस्ति, परन्तु "रहाभ्याम्" इत्यनेन रेफः निमित्तरूपेण प्रोच्यते । अतः रेफः निमित्तरूपेण एव गृह्यते, न हि स्थानीरूपेण । इत्युक्ते, रेफहकारात् परस्य रेफस्य अपि अनेन सूत्रेण द्वित्वं न विधीयते ।

3. द्वित्वे कृते नूतनरूपेण प्रवर्तितः वर्णः सर्वदा पूर्वविद्यमानवर्णात् अनन्तरम् आगच्छति । इत्युक्ते, "ब्रह्म्मा" अस्मिन् शब्दे प्रथमः मकारः ब्रह्मा-शब्दस्य मकारः अस्ति, द्वितीयः मकारः तु द्वित्वप्रक्रियया नूतननिर्मितः मकारः अस्ति ।

4. "ब्रह्म्मा" इत्यत्र पुनः अचो रहाभ्यां द्वे 8|4|46 इत्यनेन प्रथम-मकारस्य द्वित्वं कर्तुम् शक्यते वा? एवं कुर्मश्चेत् अनन्तकालयावत् द्वित्त्वमेव भवेत् इति दोषः उद्भवति । अस्य परिहारार्थम् लक्ष्ये लक्षणम् सकृदेव प्रवर्तते अस्याः परिभाषायाः प्रयोगः क्रियते । "लक्ष्य" इत्युक्ते स्थानी । "लक्षण" इत्युक्ते सूत्रम् । "सकृतम्" इत्युक्ते एकवारम् । अतः अनया परिभाषया एतत् ज्ञायते, यत् एकस्मिन् स्थले (इत्युक्ते एकस्य स्थानिनः विषये) कस्यचन सूत्रस्य एकवारमेव प्रयोगः भवितुम् अर्हति । अतःअचो रहाभ्यां द्वे 8|4|46 इत्यनेन एकवारं द्वित्वं भवति चेत् पुनः तस्मिन् एव स्थानिनि अनेन सूत्रेण द्वित्वं न भवति ।
(अपरस्मिन् स्थाने तु भवितुं शक्यते एव । यथा - "ब्रह्मर्षि" अस्मिन् शब्दे वर्तमानसूत्रेण हकारात् परस्य मकारस्य द्वित्वं भवति, ततः रेेफात् परस्य षकारस्यापि द्वित्वं भवितुं शक्यते । अत्र उभयोः प्रयोगयोः स्थानिनौ समानौ न स्तः , अतः अत्र अस्याः परिभाषायाः प्रयोजनम् नास्ति ।)
One-line meaning in English
if a यर् letter is present after a र् or a ह् , which in turn is present after an अच् letter , then that यर् letter gets द्वित्व optionally.
काशिकावृत्तिः
यरः इति वर्तते। अच उत्तरौ यौ रेफहकारौ ताभ्याम् उत्तरस्य यरो द्वे भवतः। अर्क्कः मर्क्कः। ब्रह्म्मा। अपह्न्नुते। अचः इति किम्? किन् ह्नुते। किम् ह्मलयति।
`अच उत्तरौ यौ रेफहकारौ` इति। एतेनाच इति रहोर्विशेषणमिति दर्शयति। `आन्यामुत्तरस्य यरः` इति। अनेनापि रहौ यर्विशेषणमिति। `बर्क्कः` इति। `अर्च पूजायाम्` (धा।प।204),धञ्, `चजोः कुधिण्णयतोः` 7|3|52 इति कुत्वम्। `मर्क्कः` इति। मर्चिः सौत्रो दातुः, तस्मात्? इण्भीकापाशस्यर्तिमर्चिभ्यः कन्` (द।उ।3।21) इति कन्, `चोः कुः` 8|2|30 इति कुत्वम्। अत्राकारादुत्तरो रेफः, तस्मादपि परः ककारो यरिति। `ब्राहृआ` इति। अत्राप्यकारादेवाच्च उत्तरो हकारः, तस्मादपि परो मकारो यरिति। `अपह्तुते` इति। अत्राप्यकारादुत्तरो हकारः, पूर्ववच्छपो लुक्, तस्मात्? परस्य नकारस्य द्विर्वचनम्। `किन्ह्नुते` इति। अत्राच उत्तरो हकारो न भवतति नकारो न द्विरुच्यते। `किम्ह्रलयति` इति। `ह्वल ह्रल सञ्चलने` (धातुपाठः-805,806), हेतुमण्णिच। `ज्वलह्वलह्रलनमामनुपसर्गाद्वा` [`ज्वलह्नलह्वल`--प्रांउ।पाठः] (धातुपाठः-817 अनन्तरम्) इति मित्त्वम्, `मितां ह्यस्वः` 6|4|92 इति ह्यस्वत्वम्॥
अर्चयतेर्घञ्, कुत्वम्, अर्क्कः । मर्चिः सौत्रो धातुः, तस्मात् ठिण्भीकापाशल्यतिमर्चिभ्यः कन्ऽ, ठ्चोः कुःऽ इति कुत्वम्---मर्क्कः । अत्राकारादनन्तरो रेफः, तस्मादपि ककारः । एवमुतरेष्वपि द्रष्टव्यम् ॥
सिद्धान्तकौमुदी
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्य्यनुभवः । नह्य्यस्ति ॥
अचो रहाभ्यां द्वे - अचो रहाभ्यां द्वे । यरोऽनुनासिक इत्यतो यर इति षष्ठन्तं वेति चानुवर्तते । अच इति दिग्योगे पञ्चमी ।पराभ्या॑मिति शेषः । रहाभ्यामित्यपि पञ्चमी ।परस्ये॑ति शेषः । तदाह — अचः पराभ्यामित्यादिना । हय्र्यनुभव इति । हरेरनुभव इति विग्रहः । हरि-अनुभव इति स्थिते रेफादिकारस्य यण् । तस्य द्वित्वम् । अथ हकारात्परस्योदाहरति — न ह्य्यस्तीति । नहि — अस्तीति स्थिते हकारादिकारस्य यण् । तस्य द्वित्वम् । इहोभयत्र यकारस्य अचः परत्वाऽभावादच्परकत्वाच्च द्वित्वमप्राप्तं विधीयते । अत्राऽनचि चेति रेफहकारयोर्द्वित्वं न भवति । द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छतेन निमित्तभावेन तयोर्यर्शब्दबोधितकार्यभाक्त्वबाधात्,श्रुतानुमितयोः श्रुतं बलीय॑ इति न्यायात् । हर् य् य् अनुभवः, नह् य् य् अस्ति इति स्थिते ।
अचो रहाभ्यां द्वे - अचो रहाभ्याम् । अचः किम् ह्लुते॑ इत्यादौ नकारस्य माभूत् ।
लघुसिद्धान्तकौमुदी
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। चतुर्ण्णाम्, चतुर्णाम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.