Page loading... Please wait.
8|3|65 - उपसर्गात्‌ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्
॥ तस्मै पाणिनये नमः ॥
8|3|65
SK 2270
उपसर्गात्‌ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्   🔊
सूत्रच्छेदः
उपसर्गात् (पञ्चम्येकवचनम्) , सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मूर्धन्य इति वर्तते, सः इति च। उपसर्गस्थान् निमित्तातुत्तरस्य सुनोति सुवति स्यति स्तौति स्तोभति स्था सेनय सेध सिच सञ्ज स्वञ्ज इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुनोति अभिषुणोति। परिषुणोति। अभ्यषुणोत्। पर्यषुणोत्। सुवति अभिषुवति। परिषुवति। अभ्यषुवत्। पर्यषुवत्। स्यति अभिष्यति। परिष्यति। अभ्यष्यत्। पर्यष्यत्। स्तौति तभिष्टौति। परिष्टौति। अभ्यष्तौत्। पर्यष्टौत्। स्तोभति अभिष्टोभते। परिष्तोभते। अभ्यष्टोभत। पर्यष्टोभत। स्था अभिष्ठास्यति। परिष्ठास्यति। अभ्यष्टात्। पर्यष्ठात्। अभितष्टौ। परितष्ठौ। सेनय अभिषेणयति। परिषेणयति। अभ्यषेणयत्। पर्यषेणयत्। अभिषिषेणयिषति। परिषिषेणयिषति। सेध अभिषेधति। प्रिषेधति। अभ्यषेधत्। पर्यषेधत्। सिच अभिषिञ्चति। परिषिञ्चति। अभ्यषिञ्चत्। पर्यषिञ्चत्। अभिषिषिक्षति। परिषिषिक्षति। सञ्ज अभिषजति। परिषजति। अभ्यषजत्। पर्यषजत्। अभिषिषङ्क्षति। प्रिरङ्क्षति। स्वञ्ज अभिष्वजते। परिष्वजते। अभ्यष्वजत। पर्यष्वजत। अभिषिष्वङ्क्षते। परिषिष्वङ्क्षते। सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः। उपसर्गातिति किम्? दधि सिञ्चति। मधु सिञ्चति। निर्गताः सेचका उस्मसद् देशात् निःसेचको देशः इति नायं सिचेः उप्सर्गः। अभिसावकोयति इत्यत्र अपि न सुनोतिं प्रति किर्यायोगः, किं तर्हि? सावकीयं प्रति। अभिषावयति इत्यत्र तु सुनोतिमेव प्रति क्रियायोगः, न सावर्यतिं प्रति इति षत्वं भवति।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥
उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय- सेधसिचसञ्जस्वञ्जाम् - उपसर्गात्सुनोति । उपसर्गस्तादिति । उपसर्गशब्द उपसर्गस्थे लाक्षणिक इतिभावः । निमित्तादिति । इण्रूपादित्यर्थ- ।इण्को॑रित्यधिकारेऽपि कोरिति नात्र संबध्यते, असंभवात् । सस्येति । "सहेः साडः स" इत्यतः स इति षष्ठन्तमनुवर्तत इति भावः । षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । अत्र सुनोतीत्यादिः श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थ इति प्राञ्चः । स्पष्टार्थ इति प्रौढमनोरमायाम् । सेनयेति णिजन्तो नामधातुः । सेधतीति शपा निर्देशात्सिध्यतेर्न ग्रहणम् । अभिषुणोतीत्याद्युदाहरणम् । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यास ।
उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय- सेधसिचसञ्जस्वञ्जाम् - उपसर्गात् ।सुनोति सुवती॑ इत्यादिश्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थस्तेन अभिसोषवीति अभिसोषोतीत्यादौ षत्वं नेति प्राञ्चः ।स्थादिष्वेवाभ्यासस्य षत्वं न सुनोत्यादिष्वि॑ति नियमान्नेह षत्वप्राप्तिरिति व्यर्थः प्रतिषेध॑ इति मनोरमादौ स्थितम् । सेनयेति णिजन्तो नामदातुः । सेनयाऽभियाति — अभिषेणयति । सेधेति शपा निर्देशाद्भौवादिकस्य ग्रहणं, न तु सिध्यतेः । परिसिध्यति ।गृहा दारा॑ इत्यत्रेव ता४त्स्थ्यात्ताच्छब्द्यमित्याह — उपसर्गस्थादिति । निमित्तादिति । इण्रूपात् । कवर्गस्तुनेह संबध्यते, असंभवात् । न च निःषुणोति निःषेधति निःषिञ्चतीत्यादौ व्यवदानेन इणः परत्वाऽभावात्सस्य षत्वं न स्यादिति शङ्क्यं, षत्वविधौनुम्विसर्जनीयशव्र्यवायेऽपी॑त्यधिकारात् ।इणन्तादुपर्गा॑दिति व्याख्याने तु स्यादेवात्राऽव्याप्तिः ।दुरः षत्वणत्वयो॑रित्युपसर्गत्वप्रतिषेधाद्दुः सुनोति दुःसेधतीत्यादौ तु षत्वेन न भवितव्यमिति दिक् । मूर्धन्यादेशे फलितमाह — सस्य षः स्यादिति । स्थादिषुप्राक् सिता॑दित्यत्र क्रमज्ञानस्यापेक्षितत्वात्तेनैव क्रमेण षत्वसूत्राणि व्याचष्टे-
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्ञ्जाम् ।। उपसर्गात्षत्वे निस उपसङ्ख्यानमनिणन्तत्वात्।। उपसर्गात्षत्वे निस उपसङ्ख्यानं कर्तव्यम्। निष्षुणोति। निष्षिञ्चति।। किं पुनः कारणं न सिध्यति?।। अनिणन्तत्वात्। इणन्तादुपसर्गात्षत्वमुच्यते न च निसिणन्तः।। न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषक उपसर्गो धातुश्च।। न वा वक्तव्यम्। किं कारणम्?। वर्णाश्रयत्वात् षत्वस्य। वर्णाश्रयं षत्वम्। तद्विशेषक उपसर्गो धातुश्च। नैवं विज्ञायते-इणन्तादुपसर्गादिति।। कथं तर्हि?।। इण उत्तरस्य सकारस्य, स चेदिणुपसर्गस्य, स चेत्सकारस्सुनोत्यादीनामिति। तत्र र्शव्यवायेःथ्द्य;त्येव(1) सिद्धम्।। यद्येवं धातूपसर्गयोरभिसम्बन्धोऽकृतो भवति।। तत्र को दोषः?।। इहापि प्राप्नोति-विगताः सेचका(1) अस्माद्वामात्-विसेचको ग्रामः।। धातूपसर्गयोश्चाऽभिसम्बन्धः कृतः।। कथम्?।। सुनोत्यादिभिरत्रोपसर्गं विशेषयिष्यामः सुनोत्यादीनां य उपसर्गस्तस्य (उपसर्गस्य(2)) य इणिति।। सुनोत्यादीनां(1) षत्वे ण्यन्तस्योपसङ्ख्यानमधिकत्वात्।। सुनोत्यादीनां षत्वे ण्यन्तस्योपसङ्ख्यानं कर्तव्यम्। अभिषावयति।। किं कारणं(3)(न सिध्यति?(2))। अधिकत्वात्। व्यतिरिक्तः सुनोत्यादिरिति कृत्वोपसर्गात्सुनोत्यादीनामिति षत्वं न प्राप्नोति।। न वाऽवयवस्याऽनन्यत्वात्।। न वा वक्तव्यम्।। किं कारणम्?।। अवयवस्यानन्यत्वात्। अवयवोत्राऽनन्यः (इति(2))।। नामधातोस्तु प्रतिषेधः।। नामधातोस्तु प्रतिषेधो वक्तव्यः। सावकमिच्छत्यभिसावकीयति। परिसावकीयति(4)।। न वाऽनुपसर्गत्वात्।। न वा वक्तव्यः।। किं कारणम्?।। अनुपसर्गत्वात्। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चाऽत्र सुनोतिं प्रति क्रियायोगः।। किं तर्हि?।। सावकीयतिं प्रति।। इहापि तर्हि न प्राप्नोति-अभिषावयति। अत्रापि न(2) सुनोतिं प्रति क्रियायोगः।। किं तर्हि?।। सावयतिं प्रति।। सुनोतिं प्रत्यत्र क्रियायोगः।। कथम्?।। नासावेवं प्रेष्यतेसुन्वभीति।। किं तर्हि?।। उपसर्गविशिष्टामसौक्रियां प्रेष्यते-अभिषुण्विति।।