Page loading... Please wait.
8|3|43 - द्विस्त्रिश्चतुरिति कृत्वोऽर्थे
॥ तस्मै पाणिनये नमः ॥
8|3|43
SK 157
द्विस्त्रिश्चतुरिति कृत्वोऽर्थे   🔊
सूत्रच्छेदः
द्विस्-त्रिस्-चतुः (अविभक्त्यन्तनिर्देशः) इति (अव्ययम्) , कृत्वः-अर्थे (सप्तम्येकवचनम्)
अनुवृत्तिः
विसर्जनीयस्य  8|3|34 (षष्ठ्येकवचनम्) , कुप्वोः  8|3|37 (सप्तमीद्विवचनम्) , षः  8|3|39 (प्रथमैकवचनम्) , इणः /  8|3|39 (पञ्चम्येकवचनम्) , अन्यतरस्याम्  8|3|42 (सप्तम्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
कृत्वः-अर्थे द्विस्-त्रिस्-चतुः इणः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् सः
सूत्रार्थः
"कृत्व" इत्यस्मिन् अर्थे प्रयुज्यमानानाम् द्विस्/त्रिस्/चतुर्-शब्दानाम् इण्-वर्णात् परस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन षकारादेशः भवति ।
अस्य सूत्रस्य अर्थम् ज्ञातुम् सर्वप्रथमम् "कृत्व" इत्युक्ते किम् तत् पश्यामः । "कतिवारम्" अस्य प्रश्नस्य उत्तरार्थम् येषाम् शब्दानाम् प्रयोगः भवति, ते कृत्वर्थाः । यथा, सामान्यभाषायाम् यत् "द्विवारम्" / "त्रिवारम्" / "पञ्चवारम्" एतादृशाः शब्दाः प्रयुज्यन्ते, ते सर्वे कृत्वर्थे सन्ति । तद्धितप्रकरणे "कृत्वसुँच्" , "सकृत्" तथा "सुँच्" एते त्रयः प्रत्ययाः अस्मिन्नेव अर्थे उक्ताः सन्ति । एतेभ्यः "सुँच्" प्रत्ययस्य विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति, अतः अत्र "सुँच्" प्रत्ययं एव पश्यामः ।

"सुँच्" अयं प्रत्ययः द्वित्रिचतुर्भ्यः सुच् 5|4|18 अनेन सूत्रेण द्वि, त्रि, तथा चतुर् - एतेभ्यः प्रातिपदिकेभ्यः कृत्वर्थे विधयते । अस्मिन् प्रत्यये उकार-चकारयोः इत्संज्ञा लोपश्च भवति, अतः केवलं "स्" इत्यवशिष्यते । अग्रे -
- द्वि + सुच् → द्विस् → [सकारस्य रुत्वे, रेफस्य अवसाने खरि परे वा विसर्गे] → द्विः ।
- त्रि + सुच् → त्रिस् → [सकारस्य रुत्वे, रेफस्य अवसाने खरि परे वा विसर्गे] → त्रिः ।
- चतुर् + सुच् → चतुर् स् → [रात्सस्य 8|2|24 इत्यनेन सकारस्य लोपे कृते] चतुर् -→ [रेफस्य अवसाने खरि परे वा विसर्गे] → चतुः ।
एतादृशम् "द्विस् ", "त्रिस् " तथा चतुर् एतानि प्रातिपदिकानि सिद्ध्यन्ति ।

इदानीम् अस्य सूत्रस्य अर्थज्ञानम् सरलरूपेण भवेत् । एतत् सूत्रम् द्विस्, त्रिस्, चतुर् - एतेषाम् शब्दानाम् विषये उक्तम् अस्ति । एतेषाम् अन्तिमवर्णस्य यः विसर्गः भवति, तस्य कवर्गे पवर्गे परे कुप्वोः Xक Xपौ च 8|3|37 इत्यनेन विकल्पेन जिह्वामूलीये/उपध्मानीये प्राप्ते वर्तमानसूत्रेण विकल्पेन षकारादेशः अपि भवति । यथा -

द्विः + करोति → द्विष्करोति, द्विःकरोति, द्विXकरोति ।
त्रिः + करोति → त्रिष्करोति, त्रिःकरोति, त्रिXकरोति ।
चतुः + करोति → चतुष्करोति, चतुःकरोति, चतुXकरोति ।

चतुर्-शब्दस्य विषये किञ्चित् अधिकम् ज्ञेयम् - अत्र प्रयुक्तः "चतुर्" शब्दः कृत्वर्थे अस्ति - सङ्ख्यार्थे न इति स्मर्तव्यम् । सङ्ख्यार्थे प्रयुज्यमानः चतुर्-शब्दः (यथा - चत्वारि फलानि - आदयः) भिन्नः, अत्र कृत्वर्थे प्रयुक्तः चतुर्-शब्दः (यथा - सः चतुः पठति) भिन्नः । सङ्ख्यार्थे यः चतुर्-शब्दः प्रयुज्यते, तस्य विसर्गस्य इदुदुपधस्य चाप्रत्ययस्य8|3|41 इत्यनेन नित्यमेव षत्वं विधीयते । परन्तु कृत्वर्थे प्रयुज्यमानस्य चतुर्-शब्दस्य वर्तमानसूत्रेण विकल्पेन षत्वं विधीयते ।
One-line meaning in English
For the words द्विस् (= twice), त्रिस् (= thrice), and चतुर् = (four times) which are used to indicate frequency, their विसर्ग when followed by a letter from कवर्ग or पवर्ग is optionally converted to ष्.
काशिकावृत्तिः
षः इति सम्बध्यते। द्विस् त्रिस् चतुरित्येतेषां कृत्वो ऽर्थे वर्तमनानां विसर्जनीयस्य षकार आदेशो भवति अन्यतरस्यां कुप्वोः परतः। द्विष्करोति, द्विः करोति। त्रिष्करोति, त्रिः करोति। चतुष्करोति, चतुः करोति। द्विष्पचति, द्विः पचति। त्रिष्पचति, त्रिः पचति। चतुस्पचति, चतुः पचति। कृत्वो ऽर्थे इति किम्? चतुस्कपालम्। चतुस्कण्टकम्। पूर्वेण नित्यं षत्वं भवति। इदुदुपधस्य इत्येतस्य अनुवृत्तौ सत्यां क्र्त्वो ऽर्थविषयेण च पदेन विसर्जनीये विशेष्यमाणे द्विस्त्रिश्चतुरिति शक्यमकर्तुम्। क्र्त्वसुजर्थे षत्वं ब्रवीति कस्माच्चतुस्कपाले मा। षत्वं विभाषया भून्ननु सिद्धं तत्र पूर्वेण। सिद्धे ह्ययं विधत्ते चतुरः सत्वं यदापि कृत्वो ऽर्थे। पुल्ते कृत्वो ऽर्थीये रेफस्य विसर्जनीयो हि। एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम्। अन्यो हि नेदुदुपधः कृत्वो ऽर्थः कश्चिदप्यस्ति। अक्रियमाणे ग्रहणे विसर्जनीयस् तदा विशेष्येत। चतुरो न सिध्यति तदा रेफस्य विसर्जनीयो हि। तस्मिंस् तु क्रियमाणे युक्तं चतुरो विशेषणं भवति। प्रकृतं पदं तदन्तं तस्य अपि विशेषणं न्याय्यम्। एवं तु क्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे चतुःशब्दस्य कृत्वो ऽर्थे ऽपि वर्तमनस्य पूर्वेण एव नित्यं षत्वं स्यात्। पूर्वत्र सिद्धे न अस्ति विप्रतिषेधो ऽभावादुत्तरस्य।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यदि । कृत्वोऽर्थे किम् । चतुष्कपालः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
द्विस्त्रिश्चतुरिति कृत्वोर्थे द्विस्त्रिश्चतुर्ग्रहणं किमर्थम्?।। इह मा भूत्-पञ्चकृत्वः करोति।। अथ कृत्वोर्थग्रहणं किमर्थम्?।। इह मा भूत्-चतुष्कपालः चतुष्कण्टक इति।। नैतदस्ति। अस्त्वनेन(2) विभाषा, पूर्वेण नित्यो विधिर्भविष्यति।। नाप्राप्ते पूर्वेणेयं विभाषाऽऽरभ्यते, सा यथैवेह बाधिका भवति चतुःकरोति चतुष्करोतीत्येवं चतुष्कपालेऽपि बाधिका स्यात्।। नाऽत्र पूर्वेण षत्वं प्राप्नोति।। किं कारणम्?।। अप्रत्ययविसर्जनीयस्येत्युच्यते प्रत्ययविसर्जनीयश्चाऽयम्।। लुप्यतेऽत्र(2) प्रत्ययविसर्जनीयो रात्सस्येति।। तस्मात्कृत्वोर्थग्रहणं(3) कर्त्तव्यम्।। द्विस्त्रिश्चतुर्ग्रहणं शक्यमवक्तुम्।। कस्मान्न भवति पञ्चकृत्वः करोतीति?। इदुदुपधस्येति वर्त्तते। नैवं शक्यम्, अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोर्थग्रहणेन विसर्जनीयो विशेष्येत(1)।। तत्र को दोषः?।। इहैव स्यादि्द्वष्करोति द्विःकरोति,(2) त्रिष्करोति(3) त्रिः करोति(3) इति। इह न स्याच्चतुः(2) करोति चतुष्करोतीति(2)। द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोर्थग्रहणेन द्विस्त्रिश्चतुरो विशेष्यन्ते, द्विस्त्रिश्चतुर्णां(4) कृत्वोर्थे वर्त्तमानानां यो विसर्जनीय इति।। एतदपि नास्ति प्रयोजनं, पदस्येति वर्तते। तत्कृत्वोर्थग्रहणेन विशेषयिष्यामः-पदस्य कृत्वोऽर्थे वर्तमानस्य यो विसर्जनीय इति।। ।। कृत्वसुजर्थे(5) षत्वं ब्रवीति कस्माच्चतुष्कपाले मा(6)। षत्वं विभाषयाऽभून्ननु सिद्धं तत्र पूर्वेण।।1।। सिद्धे ह्ययं विधत्ते चतुरः षत्वं यदापि कृत्वोर्थे। लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयो हि।।2।। एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम्?। अन्यो हि नेदुदुपधः कृत्वोर्थे कश्चिदप्यस्ति।।3।। अक्रियमाणे ग्रहणे विसर्जनीयस्तदा(1) विशेष्येत। चतुरो न सिध्यति तदा(3) रेफस्य विसर्जनीयो हि।।4।। तस्मिंस्तु गृह्यमाणे युक्तं चतुरो विशेषणं भवति। प्रकृतं पदं तदन्तं तस्यापि विशेषणं न्याय्यम्।।5।।