Page loading... Please wait.
8|3|26 - हे मपरे वा
॥ तस्मै पाणिनये नमः ॥
8|3|26
SK 127
हे मपरे वा   🔊
सूत्रच्छेदः
हे (सप्तम्येकवचनम्) , मपरे (सप्तम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
मः  8|3|23 (षष्ठ्येकवचनम्) , मः  8|3|25 (प्रथमैकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदस्य मः मपरे हे मः वा
सूत्रार्थः
पदान्तमकारस्य मपरे हकारे परे विकल्पेन मकारादेशः भवति ।
"पदान्त म् + ह्म्" अस्याम् स्थितौ पदान्तमकारस्य विकल्पेन मकारादेशः भवति इत्यर्थः । विकल्पाभावे मोऽनुस्वारः 8|3|23 इत्यनेन मकारस्य अनुस्वारादेशः भवति ।

यथा - किम् ह्मलयति → किम्ह्मलयति, किं ह्मलयति ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - यवलपरे यवला वेति वक्तव्यम् । इत्युक्ते, हकारात् परः यदि यकारः / वकारः / लकारः अस्ति, तर्हि पदान्तमकारस्य स्थाने (यथाक्रमम्) य्ँ, व्ँ, ल्ँ एते आदेशाः विकल्पेन भवन्ति ।

यथा -
1) किम् ह्यः → किय्ँ ह्यः, किं ह्यः ।
2) किम् ह्लादयति → किल्ँ ह्लादयति, किं ह्लादयति ।
3) किम् ह्वलयति → किव्ँ ह्वलयति, किं ह्वलयति ।

ज्ञातव्यम् - अस्मिन् सूत्रे "मपरः" एतत् हकारस्य विशेषणम् अस्ति । मकारः यस्मात् परः, सः मपरः - इत्यर्थः । अतः अनेन सूत्रेण सः एव हकारः गृह्यते, यस्मात् परः मकारः अस्ति । इत्युक्ते, "ह्म्" इत्यस्य हकारस्यैव ग्रहणम् अनेन भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति। किं ह्मलयति, किम् ह्मलयति। कथं ह्मलयति, कथम् ह्मलयति। यवलपरे यवला वा। यवलपरे हकारे मकारस्य यवला यथासङ्ख्यं वा भवन्ति इति वक्तव्यम्। किय्म्̐ ह्रः, किं ह्रः। किव्म्̐ ह्वलयति, किं ह्वलयति। किल्म्̐ ह्लादयति, किं ह्लाहयति।
मः परो यस्मादिति बहुव्रीहिः। `किम्? ह्रलयति` इति। `ह्वल ह्रल चलने` (धातुपाठः-805,806), `ज्वलह्वलह्रलनमामनुपसर्गाद्वा` (ग।सू।धातुपाठः-817 इत्यस्यानन्तरम्) इति वा मित्संज्ञा, `मितां ह्यस्वः` 6|4|92 इति ह्यस्वः। `यवलपरे` इत्यादि। यवलाः परे यतः स यवलपरस्तस्मिन्? हे मकारस्य वा यवला भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वं विहितमेव। यवलाश्चैते भवन्त आन्तरतम्यात्? सानुनासिका एव भवन्ति। वावचनात्? पक्षेऽनुस्वारो भवत्येव। अथ `हे भः` इत्येव कस्मान्नोक्तम्; एवं हि परग्रहणं न कत्र्तव्यं भवति, सप्तम्यैव हि तदर्थं प्रतिपादयिष्यते--मकारे परतो योऽकार इति? नैतदस्ति; `हे मः` इत्युच्यमाने विपर्ययोऽपि विज्ञायेत--हकारपरे मकार इति, ततश्च किमह्न इत्यादावेव स्यात्। अकारेण व्यवधानान्न भविष्यतीति चेत्? न; `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति। आद्यपक्षे किम्? ह्रलयतीत्यादिषु कृतार्थं वचनम्, अतो न शक्यं व्यवधानमाश्रयितुमिति चेत्? न; येन हकारपदे मकार इत्येष सूत्रार्थो गृहीतः, तं प्रति पक्षान्तरस्यासम्भवात्। तस्मात्? परग्रहणमेव कर्त्व्यं विपर्ययप्रतीतिर्मा भूदित्येवमर्थम्॥
ह्मलयतीति । ठ्ह्मल चलनेऽ, णिच्, ठ्ज्वलह्वलह्मलनमामनुपसर्गाद्वाऽ इति पक्षे मित्संज्ञा, ठ्मितां ह्रस्वःऽ इति ह्रस्वत्वम् । यवलपर इति । यवलाः परे यस्माद्वकारत्स तथोक्तः, यवलाश्चैते भवन्त आन्तरतम्यादनुनासिका भवन्ति, वावचनात्पक्षेऽनुस्वारोऽपि भवति । परग्रहणं शक्यमकर्तुम्; सप्तम्यैव तदर्थलाभात्---मकारे परतो यो हकारस्तत्रेति । विपर्ययस्तु न भवति; असम्भवात् । न हि मकारात्परो हकारः क्वचित् सम्भवति ॥
सिद्धान्तकौमुदी
मपरे हकारे परे मस्य म एव स्याद्वा । ह्नल ह्वल चलने । किम् ह्मलयति । किं ह्नलयति ॥ ।यवलपरे यवला वेति वक्तव्यम् (वार्तिकम्) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
हे मपरे वा - हे मपरे वा । मपर इति बहुव्रीहिः । यवलेति । यवलाः परा यस्माद्यवसपरस्तस्मिन्हकारे परे मस्य यवला (वा) भवन्तीत्यर्थः॥
लघुसिद्धान्तकौमुदी
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा)। किंय्ह्रः, किं ह्रः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥
महाभाष्यम्
हे मपरे वा ।। यवलपरे यवला वा।। यवलपरे हकारे यवला वेति वक्तव्यम्। किं ह्यः किय्ह्यः(1)। किं ह्वलयति। किव्ह्वँलयति(1)। किं ह्लादयति। किल्ह्लाँदयति(1)(हेमे)