Page loading... Please wait.
8|3|23 - मोऽनुस्वारः
॥ तस्मै पाणिनये नमः ॥
8|3|23
SK 122
मोऽनुस्वारः   🔊
सूत्रच्छेदः
मः (षष्ठ्येकवचनम्) , अनुस्वारः (प्रथमैकवचनम्)
अनुवृत्तिः
हलि  8|3|22 (सप्तम्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदस्य मः हलि अनुस्वारः संहितायाम्
सूत्रार्थः
व्यञ्जने परे संहितायाः विवक्षायाम् पदान्तमकारस्य अनुस्वारः भवति ।
पदस्य अन्ते विद्यमानः यः मकारः, तस्य हल्-वर्णे परे संहितायाः विवक्षायाम् अनुस्वारः भवति ।

यथा - "रामम् पश्यामि" - इत्यत्र संहितां स्वीकुर्मश्चेत् मकारस्य अनुस्वारे कृते "रामंपश्यामि" इति सिद्ध्यति । अत्र संहिता विवक्षया एव आगच्छति, अतः संहितायाः अनुपस्थितौ "रामम् पश्यामि" इति अपि साधु ।

परन्तु केषुचन स्थलेषु संहिता नित्या अस्ति - एकपदे, धातु-उपसर्गयोः योगे, तथा समासे । अतः एतेषां विषये पदान्तमकारस्य नित्यम् अनुस्वारः करणीयः । यथा - सम् + गच्छति = संगच्छति ।

ज्ञातव्यम् -
1. यदि हल् वर्णः अग्रे नास्ति, तर्हि अनेन सूत्रेण अनुस्वारः न विधीयते । यथा - फलम् अस्ति । अग्रे कोऽपि वर्णः नास्ति चेदपि अनुस्वारः न करणीयः । यथा - इत्यलम् ।
2. वर्तमानसूत्रेण मकारस्य अनुस्वारादेशः विकल्पेन न भवति, नित्यं भवति । इत्युक्ते, संहिता अस्ति चेत् मकारः तादृशः एव न तिष्ठति, तस्य अनुस्वारः सदा भवत्येव ।
One-line meaning in English
When a संहिता is desired, then मकार at the end of a पद gets converted to अनुस्वार.
काशिकावृत्तिः
मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः। कुण्डं हसति। वनं हसति। कुण्ड याति। वनं याति। हलि इत्येव, त्वम् अत्र। किम् अत्र। पदन्तस्य इत्येव, गम्यते। रम्यते।
पदस्येति स्थानषष्ठी, तच्च पदं मकारेण विशेष्यते, विशेषणेन त तदन्तविधिर्भवतीति मकारान्तपदस्यानुस्वारो विधीयमानोऽलोऽत्यपरिभाषया 1|1|51 मकारस्यैव विज्ञायते, इत्याह--`मकारान्तस्य पदस्य`[`मकारस्य पदान्तस्य`--काशिका, पदमञ्जरी च] पदस्य` इति॥
अत्र पदस्येति स्थानषष्ठी, मकारेण पदस्य विशेषणान्नकारान्तस्य पदस्यालोन्त्यस्यानुस्वारो विज्ञायते । तदाह---मकारस्य पदान्तस्यति ॥
सिद्धान्तकौमुदी
मान्तस्य पदस्यानुस्वारः स्याद्धलि ॥ अलोऽन्त्यस्य (कौमुदी-42) हरिं वन्दे । पदस्येति किम् । गम्यते ॥
मोऽनुस्वारः - मोऽनुस्वारः । पदस्येत्यधिकृतम् । म इति षष्ठन्तं पदस्य विशेषणं । तदन्तविधिः । हलि सर्वेषामित्यतो हलीत्यनुवर्तते । तदाह-मान्तस्येत्यादिना । अलोन्त्यस्येति । उपतिष्ठत इति शेषः । ततस्च मान्तस्य पदस्य योऽन्त्योऽल् तस्येत्यर्थः । पदान्तस्य मस्येति फलितम् । हरिं वन्द इति । हरिम्-वन्द इति स्थिते मस्यानुस्वारः । गम्यत इति । गम्लृ गतौ । कर्मणि लट् । "भावकर्मणोः" इत्यात्मनेपदे यक् । अत्र मस्य पदान्तत्वाभावान्नानुस्वारः ।
मोऽनुस्वारः - मोऽनुस्वारः ।हलि सर्वेषा॑मित्यतोहली॑त्यनुवर्ततेपदास्ये॑ति च, तदाह-मान्तस्येत्यादि । हलि किम् । त्वमत्र । किमत्र ।
लघुसिद्धान्तकौमुदी
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.