Page loading... Please wait.
8|2|24 - रात्‌ सस्य
॥ तस्मै पाणिनये नमः ॥
8|2|24
SK 280
रात्‌ सस्य   🔊
सूत्रच्छेदः
रात् (पञ्चम्येकवचनम्) , सस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
संयोगान्तस्य पदस्य रात् सस्य लोपः
सूत्रार्थः
संयोगान्तस्य पदस्य रेफात् परस्य केवलं सकारस्यैव लोपः भवति, न अन्यस्य ।
संयोगान्तस्य लोपः 8|2|23 इत्यनेन संयोगान्तपदस्य अन्तिमवर्णस्य लोपः विधीयते । अनेन सूत्रेण सः लोपः नियम्यते - पदान्ते विद्यमाने संयोगे रेफः प्रथमवर्णः अस्ति चेत् तस्मात् परस्य केवलं सकारस्यैव लोपः भवति, अन्यवर्णस्य न ।

यथा -

1. पितृ-शब्दस्य पञ्चम्यैकवचनस्य रूपम् -

पितृ + ङस् [पञ्चम्यैकवचनस्य प्रत्ययः]
→ पितुर् + स् [ऋत उत् 6|1|111 इत्यनेन पितृ-इत्यस्य ऋकारस्य तथा ङस्-इत्यस्य अकारस्य पूर्वपरयोः एकः उकारादेशः भवति । सः च उरण् रपरः 1|1|51 इति रपरः प्रवर्तते]
→ पितुर् [रात्सस्य [8।2।24]] इत्यनेन रेफात् परस्य सकारस्य लोपः]
→ पितुः खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

2. "ऊर्ज्" धातोः क्विप्-प्रत्यये कृते "ऊर्ज्" इति प्रातिपदिकं सिद्ध्यति । अस्य प्रथमैकवचनस्य रूपसिद्धौ -
ऊर्ज् + सुँ
→ ऊर्ज् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँ-प्रत्ययस्य लोपः ]
→ ऊर्ग् [चोः कुः 8|2|30 इत्यनेन जकारस्य गकारः]
→ ऊर्क् / ऊर्ग् [वाऽवसाने 8|4|56 इति विकल्पेन चर्त्वम्]

अत्र सुँ-प्रत्ययस्य लोपे कृते पदान्ते विद्यमानस्य जकारस्य संयोगान्तस्य लोपः 8|2|23 इत्यनेन लोपः न भवति, यतः रात्सस्य 8|2|24 इत्यनेन रेफात् परस्य केवलं सकारस्यैव लोपः भवतुमर्हति, नान्यस्य ।
One-line meaning in English
For a संयोग occurring at end of a पद which contains रेफ as the first letter, the last letter is deleted only if it is a सकार and not otherwise.
काशिकावृत्तिः
संयोगान्तपदस्य यो रेफः तस्मादुत्तरस्य अन्तस्य सकारस्य लोपो भवति। गोभिरक्षाः। प्रत्यञ्चमत्साः। क्षरतेः त्सरतेश्च लुङि सिचः छान्दसत्वादीडभावः बहुलं छन्दसि 7|3|97 इति वचनात्। दीर्घे सति रूपम् एतत्। मातुः, पितुः इति ऋत उत् 6|1|111 इति उत्त्वे कृते रपरत्वे च सति रात् सस्य इति सलोपः। सिद्धे सत्यारम्भो नियमार्थः, रात् सस्य एव लोपो भवति, न अन्यस्य इति। ऊर्जेः क्विप् ऊर्क्। मृजेः लङि अमार्ट्।
`संयोगान्तस्य पदस्य` इत्यादि। अत्र संयोगान्तं पदं रेफस्य विशेषणम्, रेफोऽपि सकारस्य। संयोगान्तस्य पदस्य योऽवयवो रेफस्तस्मादुत्तरो यः सकारस्तस्यालोऽन्त्यस्य लोपो भवति। `अक्षाः, अत्साः` इति। `क्षर सञ्चलने` (धातुपाठः-851), `त्सर च्छद्मगतौ` (धातुपाठः-554), लङ्, `अतो ल्रान्तस्य` 7|2|2 इति वृद्धिः, तिपो हल्ङ्यादिलोपः 6|1|66 , सिचः सकारस्याप्यनेन, अडागमः, रेफस्य विसर्जनीयः 8|3|15 । ननु चैतत्? पूर्वेणैव सिद्धम्, तत्किमर्थमिदमारभ्यते? इत्याह--`सिद्धे` इत्यादि। `रात्? सस्यैव` इति नियमस्य स्वरूपं दर्शयति। रादेव सस्य--इत्येष तु विपरीतनियमोऽत्र नाशङ्कनीयः, उरः प्रभृतिषु 5|4|151 पुमानिति कृतसंयोगान्तलोपस्य [`कृतसंयोगान्तस्य लोपस्य`--इति प्रांउ।पाठः] पुम्स्शब्दस्य पाठात्। न हि विपरीतनियमे तस्य संयोगान्तलोप उपपद्यते। `ऊर्क्` इति। `ऊर्ज बलप्राणनयोः` [उर्ज--प्रांउपाठः] (दा।पा।1549), `भ्राजभ्रास` 3|2|177 इत्यादिना क्विप्। अत्र नियमाज्जकारस्य लोपो न भवति, तस्मिन्नसति `चोः कुः` 8|2|30 इति कुत्वम्--जकारस्य गकारः, `वावसाने` 8|4|55 इति चत्र्वम्--ककारः। `न्यमार्ट्`माटै--काशिका, पदमञ्जरी च] इति। `मृजू शुद्धौ` (धातुपाठः-1066), अदादित्वाच्छपो लुक्, तिपो हल्ङ्यादिलोपः 6|1|66 `मृजेर्वृद्धिः` 7|2|114 , `व्रश्च` 8|2|36 इत्यादिना षत्वम्, तस्य जश्त्वम्--डकारः, तस्यापि चत्र्वम्-टकारः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रेफस्य विसर्गः । क्रोष्टुः । आमि परत्वात्तृज्वद्भावे प्राप्ते ॥ ।नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन (वार्तिकम्) ॥ क्रोष्टूनाम् । क्रोष्टरि । क्रोष्ट्रोः । पक्षे हलादौ च शम्भुवत् ॥ इत्युदन्ताः ॥ हूहूः । हूह्वौ । हूह्वः । हूहूम् । हूह्वौ । हूहूनित्यादि । अतिचमूशब्दे तु नदीकार्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचम्वाः । अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥
रात् सस्य - क्रोष्टुर् स् इति स्थिते-रात्सस्य । "संयोगान्तस्य लोप" इत्येव सिद्धे नियमार्थमिदमित्याह — सस्यैवेति । तेन ऊर्गित्यादौ न संयोगान्तलोपः । रेफस्य विसर्ग इति ।खरवसानयो॑रिति विसर्ग इत्यर्थः । परत्वादिति । परत्वान्नुटं बाधित्वा तृज्वत्त्वे कृते ततो नुटिनामी॑ति दीर्घे णत्वे कृते क्रोष्टृणामिति स्यादित्यर्थः । नच नुट् नित्य इति वाच्यं, तृज्वत्त्वे कृते संनिपातपरिभाषया नुटो दुर्लभत्वात् ।नुमचिरेति ।अचिरे॑त्यनुकरणम् । "अचि र" इति विहितो रेफो विवक्षितः । प्रकृतिवदनुकरणं भवतीति त्वनित्यम् । ततश्चअचि-रे॑त्यस्य समासप्रवेशेऽपि न लुक् । क्रोष्टनामिति । तृज्वत्त्वं बाधित्वा नुटि कृतेनामी॑ति दीर्घे रूपम् । क्रोष्टरीति । तृज्वत्त्वे क्रोष्टु-इ इति स्थितेऋतो ङी॑ति गुणे रपरत्वे रूपम् । क्रोष्ट्रोरिति । तृज्वत्त्वे ऋकारस्य यण् रेफः । पक्षे इति । तृतीयादिष्वजादिषु तृज्वत्त्वाऽभावपक्षे इत्यर्थः । ननुतृज्वत्क्रोष्टुः,॒॑स्त्रियां च॑,विभाषा तृतीयादिष्वची॑ति त्रिसूत्री व्यर्था । सृगालवाचिनोःक्रोष्टृक्रोष्टु शब्दयोः स्वतन्त्रयोः सत्त्वादिति चेत्, श्रृणु-॒सर्वनामस्थाने स्त्रियां च ऋदन्तस्यैव क्रोष्टृशब्दस्य प्रयोगः । तृतीयादिष्वजादिषु तूभयस्य, शसि हलादिषु च उदन्तस्यैवे॑ति नियमार्था त्रिसूत्रीति । इति उदन्ताः । अथ ऊदन्ताः । हूहूरिति । गन्धर्वविशेषवाच्यव्युत्पन्नं प्रातिपदिकमेतत् । हूह्वा हूह्व इत्यादि । दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधः ।इको यणची॑ति यणि रूपम् । हे हूहूः । हूहूम् हूह्वौ हूहून् हूह्वा । हूह्वे । हूह्वः । हूह्वोः । हूह्वाम् । हूह्वि । अतिचमूशब्दे त्विति । चमूमतिक्रान्तोऽतिचमूः ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । स्त्रीप्रत्ययान्तत्वाऽभावाद्गोस्त्रियो॑रिति ह्यस्वो न भवति । नदीकार्यमिति ।प्रथमलिङ्गग्रहणं चे॑ति वचनादिति भावः । खलपूरिति । खलं पुनातीति क्विप् । खलपू-औ, खलपू-अस् इति स्थितेअचि श्नुधात्वि॑त्युवङि प्राप्ते ।
रात् सस्य - रात्सस्य ।संयोगान्तस्य लोपः॑इत्यनेनैव सिद्धे नियमार्थमिदमित्याह — सस्यैवेति । नान्यस्येति ।उर्क् परिमार्ट्इत्यादौ रेफात्संयोगान्तस्य लोपो नेत्यर्थः ।रादेव सस्ये॑ति विपरीतनियमोऽत्र न भवति, उरप्रभृतिषु कृतसंयोगान्तलोपस्यपुमा॑नित्यस्य दर्शनात् । परत्वादिति । न च नुट् नित्यैति वाच्यम्, तृज्वद्भावे कृते संनिपातपरिभाषया नुटो दुर्लभत्वादिति भावः । नुमन्विरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन । नुमचिरेति.॒वारीणा तिसृणां॑क्रोष्टुना॑मिति क्रमेणोदाहरणानि । ननु रेण स्वविषये प्राप्तं सर्वं बाध्यं, बाध्यसामान्यचिन्ताश्रयणात्त एवगुणदीर्घोत्वानामपवाद॑इति वक्ष्यति । तथा चाऽविशेषान्नुडप्यनेन बाध्यत इति कथमिह विप्रतिषेधः, उत्सर्गापवादयोस्तदयोगादिति चेत्; अत्राहुः — अतएव तदंशे विप्रतिषेधं दूषयित्वान तिसृचतसृ॑इतिज्ञापकान्नुडिति भाष्यकृतोक्तम् । एवंचनुम्तृज्वद्भावाभ्या॑मित्येव सुवचमिति । इत्युदन्ताः । हु हु रिति । गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम् । हूह्वविति ।दीर्घज्जसि चे॑ ति पूर्वसवर्णदीर्घनिषेधे सतिइक॑इति यण् । अतिचमूशब्दे त्विति ।पर्थमलिङ्गग्रहणं चे॑त्युक्तेः । तथा चएवमतिचम्वादय॑इति प्राचोक्तं नादर्तव्यमिति भावः । खलूपूरिति । खलं पुनातीति । पूञः क्विप् ।
लघुसिद्धान्तकौमुदी
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः 2। क्रोष्ट्रोः 2। (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन)। क्रोष्टूनाम्। क्रोष्टरि। पक्षे हलादौ च शम्भुवत्॥ हूहूः। हूह्वौ। हूह्वः। हूहूम् इत्यादि॥ अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः। अतिचमूनाम्॥ खलपूः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.