Page loading... Please wait.
8|1|55 - आम एकान्तरमामन्त्रितमनन्तिके
॥ तस्मै पाणिनये नमः ॥
8|1|55
SK 3962
आम एकान्तरमामन्त्रितमनन्तिके   🔊
सूत्रच्छेदः
आम (पञ्चम्येकवचनम्) , एकान्तरम् (प्रथमैकवचनम्) , आमन्त्रितम् (प्रथमैकवचनम्) , अनन्तिके (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पदात्  8|1|17 अनुदात्तं सर्वमापादादौ  8|1|18
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आमः उत्तरम् एकपदान्तरम् आमन्त्रितान्तम् अनन्तिके नानुदात्तं भवति। आम् पचसि देवदत्त 3। आम् भो देवदत्त 3। भो इत्यामन्त्रितान्तम् अपि, नामन्त्रिते समानाधिकरणे सामान्यवचनम् इति नाविद्यमानवद् भवति। आमः इति किम्? शाकं पचसि देवदत्त 3। एकान्तरम् इति किम्? आम् प्रपचसि देवदत्त 3। आमन्त्रितम् इति किम्? आम् पचति देवदत्तः। अनन्तिके इति किम्? आम् देवदत्त। आम एकान्तरम् आमन्त्रितं यत् तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते। तदुभयम् अनेन क्रियते इति केचिदाहुः। प्लुतोदात्तः पुनरसिद्धत्वान् न प्रतिषिद्यते। अपरेषां दर्शनम्, अनन्तिके इत्यनेन यन् न दूरं न सन्निकृष्टं तत् परिगृह्यते, तेन अस्मिन्नेकद्श्रुतेः प्राप्तिरेव न अस्ति, प्लुतोदात्तो ऽपि नोदाहर्तव्यः इति।
`एकान्तरम्` इति। अन्तरयतीत्यन्तरम्। व्यवधायकमित्यर्थः। एकं पदमन्तरं यस्य तत्तथोक्तम्। एकेन निपातेन व्यवहितमित्यर्थः। `आम्? पचसि देवदत्तात्रि इति। निघाते प्रतिषिद्धे `आमन्त्रितस्य` 6|1|192 इति धाष्ठिकमामन्त्रिताद्युदात्तत्वं भवति। `दूराद्धूते च` 8|2|84 इति प्लुतः। `आम भो देवदत्तात्रि` इति। भवद्भगवदघवतामोच्चावस्य` (8.3.1।वा।2) इति भवच्छब्दावयवस्यावशब्दस्यौत्त्वम्; दकारस्य रुत्वम्, तस्य `भोभगोअधोअपूर्वस्य` 8|3|17 इत्यादिना यकारः, तस्य `हलि सर्वेषाम्` 8|3|22 इति लोपः।ननु चात्र भोःशब्दस्य `आमन्त्रितं पूर्वमविद्यमानवत्` 8|1|72 इत्यविद्यमानत्वादेकान्तरता नोपपद्यते? इत्यत आह--`भो इत्यामन्त्रितान्तमपि` इत्यादि। `भोः` इति सामान्यवचनम्। अत्र `भोः` इति यद्यप्यामन्त्रितम्, तथापि नाविद्यमानवत्, `नामन्त्रिते` 8|1|73 इत्यादिनाऽविद्यमानवद्भावस्य प्रतिषेधात्। `तदुभयमप्यनेन क्रियते` [तदुभयमनेन--काशिका] इति। कथं पुनरुभयमप्यनेन कर्तुं शक्यम्, यावतानुदात्ताधिकारादनुदात्तस्यैवानेन युज्यते प्रतिषेधः? न शक्यते कर्तुमप्रकृताया असंशब्दिताया एकश्रुतेः? नैष दोषः; `अनन्तिके` 8|1|55 इति नञत्र विरोधे वर्तते, अधर्मानृतादिवत्। अन्तिकविरुद्धमनन्तिकम्। दूरमित्यर्थः। दूरात्? सम्बुद्धौ चकश्रुतिरुच्यते;`एकश्रुति दूरात्? सम्बुद्धौ` 1|2|33 इति वचनात्। एवं हि प्रपचसि देवदत्तेत्येवमादिष्वामन्त्रितनिघातं कृतार्थं बाधित्वा यत्राम एकान्तरमामन्त्रितमनन्तिकम्, तचैकश्रुतिरेव भवति; यदिदं नारभ्येत। अतो नाप्राप्तायामेकश्रुतौ इवमारभ्यत इति तां तावद्बाधते, ततस्तस्याञ्च बाधितायां बाधकाभावात्? प्राप्नुवत्? तं निघातमपि बाधत एव। कुतः? निघातप्रतिषेधाधिकारे वचनात्। एकश्रुतिप्रतिषेधे हि विधित्सिते सत्येकश्रुतिप्रकरण एव (1.2.33-40) प्रतिषेधं कुर्यात्, नाम एकान्तरमिति; तत्राप्ययमर्थः--`आमन्त्रितमनन्तिके` 8|1|55 इति वक्तव्यं न भवति। तस्मान्निघातप्रतिषेधाधिकारे वचनान्निघातमपि बाधत इति युक्तम्--तदुभयमनेन क्रियत इति। नैष दोषो यदि तह्र्रप्रकरणापन्नाशब्दिताप्येकश्रुतिरनेन प्रतिषिध्यते। इह `दूराद्धूते च` तदुभयमनेन क्रियत इति। नैष दोषो यदि तह्र्रप्रकरणापन्नाशब्दिताप्येकश्रुतिरनेन प्रतिषिध्यते। इह `दूराद्धूते च` 8|2|84 इति यः प्लुतोदात्तः प्राप्नोति; सोऽपि प्रतिषिध्यते? इत्यत आह--`प्लृतोदात्तः पुनः` इत्यादि। तस्मिन्? कत्र्तव्येऽसिद्धत्वात्? प्लुतोदात्तो नास्त्येव, स कथं प्रतिषिध्येत![`प्रतिषिध्यते`--प्रांउ।पाठः] असिद्धत्वं तु `पूर्वत्रासिद्धम्` 8|2|4 इति वचनात्।
अन्तरयतीत्यन्तरम् उ व्यवधायकम् । एकमन्तरं यस्य तदेकान्तरम्, उदाहरणे निघाते प्रतिषिद्धे षाष्ठिकमाद्यौदातत्वम्, ठ्दूराद्धूते चऽ इति प्लुतः; भवच्छब्दस्य ठ्विभाषा भवद्भगवदघवताम्ऽ इति रुत्वम्, अवशब्दस्य च ओकारः, ठ्भोभगोऽ इत्यादिना यत्वम्, तस्य ठ्हलि सर्वेषाम्ऽ इति लोपः । ननु च ठामन्त्रितं पूर्वमविद्यमानवत्ऽ इति भोः शब्दस्याविद्यमानत्वादेकान्तरता नोपपद्यते ? अत आह---भो इत्येतदिति । तदुभयमप्यनेन क्रियत इति । कथं पुनरप्रकृताया असंशब्दितायाश्चैकश्रुतेः प्रतिषेधः शक्यो विज्ञातुम् ? उच्यते; नञत्र विपक्षवचनः, अधर्मानृतादिवत्, अन्तिकविरुद्धमनन्तिकम्, दूरमित्यर्थः, तत्र चैकश्रुतिरुच्यते, ततश्च पचसि देवदतेत्यादावन्तिके सावकाशमामन्त्रितनिघातं बाधित्वा एकश्रुतिः प्राप्नोति, सा तावत्प्रतिषिद्ध्यते, ततोऽपवादे प्रतिषिद्ध उत्सर्गभूतो निघातः प्राप्नोति, सोऽपि प्रतिषिध्यते, एकश्रुतिमात्रप्रतिषेधे हि तत्रैवायं ब्रूयात्---नाम एकान्तरमिति । एवं हि ठामन्त्रितमनन्तिकेऽ इति च न वक्तव्यं भवति, सोऽयमेवं सिद्धे यन्निघातप्रकरणे इदं ब्रवीति तेन विजानीमः---निघातोऽपि प्रतिषिध्यत इति । केवलस्य निघातस्येकश्रुत्या बाधितस्य प्रतिषेधोऽनर्थक इति सामर्थ्यादुभयोः प्रतिषेधः । ननु चैकश्रुतिरपि देवदता3 आगच्छेत्यादौ सावकाशा कथमां भो देवदत इत्यादौ निघातस्य बाधिका, प्रत्युत परत्वादेकश्रुतेर्निघात एव बाधक इति तस्यैवात्र प्रसङ्ग इति प्रतिषेधोऽपि तस्यैव न्याय्यः, तस्य च प्रतिषेधे एकश्रुतिः स्यादेव ? अत्राहुः---पदद्वयमात्रनिबन्धनत्वादन्तरङ्गो निघातः पूर्वं प्रवर्तते, ततो दूरात्सम्बोधनमधिकं निमितमपेक्षमाणैकश्रुतिरिति सैवानन्तरं प्राप्नोति, तां तावद्वाधते पूर्वोक्तेन न्यायेन निघातमपीति सुष्ठूअक्तम्---तदुभयमनेन क्रियत इति । यथैव तर्हि एकश्रुतिर्बाध्यते, तथैव प्लुतोदातोऽपि बाध्येत ? अत आह---प्लुतोदातः पुनरिति । अपरेषामिति । ते मन्यन्ते---सादृश्येऽत्र नञ्, न विपेक्षे; अन्यथा दूर इत्येव ब्रूयादिति प्राप्तिरेव नास्ति, अदूरत्वात् । कथं तर्हि प्लुत उदाह्रियते ? अत आह---प्लुतोऽपीति ॥
सिद्धान्तकौमुदी
आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त3 । एकान्तरं किम् । आम् प्रपचसि देवदत्त3 । आमन्त्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आम एकान्तरमामन्त्रितमनन्तिके कस्यायं प्रतिषेधः?।। आम एकान्तर ऐकश्रुत्यप्रतिषेधः ।। आम एकान्तर ऐकश्रुत्यस्याऽयं प्रतिषेधः।। कथं पुनरप्रकृतस्याऽसंशब्दितस्यैकश्रुत्यस्य प्रतिषेधः शक्यो विज्ञातुम्?।। अनन्तिक इत्युच्यते। अनन्तिक च किम्?।। दूरम् ।। दूरात्संबुद्धौ चैकश्रुतिरुच्यते(1)।। अस्ति प्रयोजनमेतत्?।। किं तर्हीति।। निघातप्रसङ्गस्तु।। निघातस्तु प्राप्नोति ‐ आम् भो देवदत्ता3। आमन्त्रितस्या(2)ऽनुदात्तत्वं प्राप्नोति सिद्धं तु प्रतिषेधाधाधिकारे प्रतिषेधवचनात्। ।। सिद्धमेतत्।। कथम्?।। प्रतिषेधाधिकारे(प्रतिषेधवचनात्(2))। ।। प्रतिषेधाधिकारेट प्रतिषेधवचनसार्मथ्यान्निघातो न भविष्यति ।। नैव वा पुनरत्रैकश्रुत्यं प्राप्नोति।। किं कारणम्?।। अनन्तिक इत्युच्यते, अन्यच्च दूरमन्यदनन्तिकम्।। यद्येवं प्लुतोऽपि तर्हि न प्राप्नोति, प्लुतोऽपि हि दूरादित्युमच्यते?।। इष्टमेवैतत्संगृहीतम्, आम् भो देवदत्ता इत्येव भवितव्यम्।।