Page loading... Please wait.
8|1|23 - त्वामौ द्वितीयायाः
॥ तस्मै पाणिनये नमः ॥
8|1|23
SK 407
त्वामौ द्वितीयायाः   🔊
सूत्रच्छेदः
त्वामौ (प्रथमाद्विवचनम्) , द्वितीयायाः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पदात्  8|1|17 अनुदात्तं सर्वमापादादौ  8|1|18
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
एकवचनस्य इति वर्तते। द्वितीयाया यदेकवचनं तदन्तयोः युष्मदस्मदोः यथासङ्ख्यम् त्वा मा इत्येतौ आदेशौ भवतः। ग्रामस्त्वा पश्यति। ग्रामो मा पश्यति।
त्वामौ द्वितीयायाः। त्वाश्च माश्चेति विग्रहः। एकवचनस्येत्यनुवर्तते। तदाह-द्वितीयेत्यादिना।अथ विभक्तिक्रमक्लृप्तद्वितीयाचतुर्थीषष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरति-श्रीश इत्यादि। `तत्र `श्रीशस्त्वावतु मापीहे`ति प्रथमः पादः। श्रिया ईशः==पतिः--विष्णुः, त्वा मा अपि पातु इत्यन्वयः। अत्र त्वां, मामिति द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ। दत्तात्ते मेऽपि शर्म स इति। स श्रीशः ते मेऽपि शर्म सुखं दत्तादित्यन्वयः। `डु दाञ् दाने` आशिषि लोटि दत्तादिति रूपम्। `दद्या`दिति क्वचित्पाठः। अत्र तुभ्यं मह्रमिति चतुर्थ्येकवचनान्तयोस्ते मे इत्यादेशौ। स्वामी ते मेऽपि स हरिरिति। अत्र तव मम इति षष्ठएकवचनान्तयोस्ते मे आदेशौ। पातु वामपि नौ विभुरिति। विभुः=सर्वव्यापको वां नौ अपि पातु इत्यन्वयः। अत्र युवाम् आवाम् इति द्वितीयाद्विवचनयोर्वां नौ इत्यादेशौ। सुखं वां नौ ददात्वीश इति। `नौ` इत्यनन्तरमपिशब्दोऽध्याहार्यः। अत् युवाभ्याम् आवाभ्याम् इति चतुर्थीद्विवचनान्तयोर्वांनावौ। पतिर्वामपि नौ हरिरिति। अत्र युवयोरावयोरिति षष्ठीद्विवचनान्तयोर्वांनावौ। सोऽव्याद्वो न इति। सः=हरि वः नः अपि अव्यात्=रक्षतादित्यर्थः। अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोर्वस्नसौ। शिवं वो नो दद्यादिति। शिवमिति शुभमुच्यते। `न` इत्यनन्तरम् `अपी`त्यध्याहार्यम्। अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोर्वस्नसौ। सेव्योऽत्र वः स न इति। स हरिः वः नः-अपि सेव्यः=भजनीयः इत्यर्थः। `कृत्यानां कर्तरि वा` इति षष्ठी। अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोर्वस्नसौ। त्वां पातु मां पात्विति। अत्र युष्मदस्मोः पदात्परत्वाऽभावात् `त्वामौ द्वितीयायाः` इति न भवतीत्यर्थः। अद्यप्यत्र अस्मच्छब्दस्य पात्विति पदात्परत्वमस्ति, तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः। संवेद्योऽस्मानिति। अत्राऽस्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः। यद्यप्यनुष्टुप्छन्दस्कोऽयं श्लोकः, तत्र एकैकः पाटोऽष्टाक्षर इति स्थितिः। तत्र सन्ध्यभावे `अस्मान्कृष्णः सर्वदाऽवतु #इत्यस्य नवाक्षरत्वान्न पादत्वम्। कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्व व्याघातः। `संवेद्य` इत्यस्य पदत्वाऽभावादस्मदः पदात्परत्वाऽभावश्च। पूर्वान्तत्वे तु `स्मा`नित्यस्य पादादिस्थितस्य नास्मच्छब्दरूपता, तथापि `संवेद्यो` इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्पदत्वम्। `स्मानित्यस्य तु एकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम्। वस्स्तुतस्तु ओकारस्य पूर्वान्तत्वात्संवेद्यो इत्यस्य पदत्वम्, स्मानित्यादेरष्टाक्षरत्वं च। परादित्वाच्चास्मच्छब्दरूपता। `उभयत आश्रयणे नान्तादिव`दिति तु नास्तीतीण्धातौ निरूपयिष्यामः। केचित्तु `अपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदावतु` इति प्रत्युदाहरन्ति। तन्नि, युष्मानित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः। अस्मानित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात्। ननु `युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयान्तयोः` इत्येव सूत्र्यतां, कि स्थग्रहणेन। स्थग्रहणे।ञपि कथञ्चित्तस्यैवार्थस्य लामादित्यत आह--हासीरिति गम्यते। ततश्च षष्ठीचतुर्थीद्वितीयास्तिष्ठतः=न परित्यजत इति व्युत्पत्तिर्विवक्षिता। षष्ठआदिविभक्तीरपरित्यजतोरित्यर्थः। अलुप्तषष्ठआदिविभक्तिविशिष्ठयोरिति फलतीति भावः। इति युष्मत्पुत्र इति। पदात्परत्वं सम्पादयितुम् `इति` शब्दः। युवयोर्युष्माकं वा पुत्रः, आवयोरस्माकं वा पुत्र इति विग्रहः। अत्र विभक्तेर्लुका लुप्तत्वात्श्रूयमाणविभक्तिकत्वाऽभावान्नादेशप्रवृत्तिः। तव पुत्रो मम पुत्र इति विग्रहस्तु न, `प्रत्ययोत्तरपदयोश्चे`ति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात्। समानवाक्ये #इति। निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः। निघातशब्दोऽनुदात्तवाची। एकतिङिति। तिङित्यनेन तिङन्तं विवक्षितम्। एकस्तिङ् यस्येति विग्रहः। इदं च वाक्यलक्षणमेतच्चास्त्रोपयोग्येव। तेन `पश्य मृगो धावती`त्यादौ नाऽव्याप्तिरिति समर्थसूत्रे भाष्पे स्पष्टम्। ओदनमिति।`ओदनं पचे`त्येकं वाक्यम्। `तव भविष्यती`त्यपरं वाक्यम्। ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात्पदात्परत्वाऽभावान्नादेश इति भावः। शालीनामिति। व्रीहीणामित्यर्थः। प्रकृतिविकारभावे षष्ठी।एते वांनावादय इति। इदंच `सपूर्वायाः` इति सूत्रे भाष्ये स्थितम्। धातेति। महादेवं प्रति वचनमेतत् `अन्वादेशे तु नित्य`मित्यस्योदाहरणमाह--तस्यमै ते नम इत्येवेति। अत्र `योऽग्निर्हव्यवाट् य इन्द्रो वज्रबाहुः` इत्यादिपूर्ववाक्यं द्रष्टव्यम्। एवंच किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं बोधयितुं पुनरूपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः।
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मा पीह दत्तात्ते मेपि शर्म सः । स्वामी ते मेपि स हरिः पातुवामपि नौ विभुः ॥ 1 ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ 2 ॥ पदात्परयोः किम् । वाक्यादौ माभूत् । त्वां पातु । मां पातु । अपादादौ किम् ॥ वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदाऽवतु ॥ स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति ॥समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः (वार्तिकम्) ॥ ।एकतिङ्वाक्यम् (वार्तिकम्) ॥ तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति ॥ ।एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः (वार्तिकम्) ॥ अन्वादेसे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥
त्वामौ द्वितीयायाः - त्वामौ द्वितीयायाः । त्वाश्च माश्चेति विग्रहः । एकवचनस्येत्यनुवर्तते । तदाह-द्वितीयेत्यादिना ।अथ विभक्तिक्रमक्लृप्तद्वितीयाचतुर्थीषष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरति-श्रीश इत्यादि ।तत्रश्रीशस्त्वावतु मापीहे॑ति प्रथमः पादः । श्रिया ईशः==पतिः — विष्णुः, त्वा मा अपि पातु इत्यन्वयः । अत्र त्वां, मामिति द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ । दत्तात्ते मेऽपि शर्म स इति । स श्रीशः ते मेऽपि शर्म सुखं दत्तादित्यन्वयः । "डु दाञ् दाने" आशिषि लोटि दत्तादिति रूपम् ।दद्या॑दिति क्वचित्पाठः । अत्र तुभ्यं मह्रमिति चतुर्थ्येकवचनान्तयोस्ते मे इत्यादेशौ । स्वामी ते मेऽपि स हरिरिति । अत्र तव मम इति षष्ठएकवचनान्तयोस्ते मे आदेशौ । पातु वामपि नौ विभुरिति । विभुः=सर्वव्यापको वां नौ अपि पातु इत्यन्वयः । अत्र युवाम् आवाम् इति द्वितीयाद्विवचनयोर्वां नौ इत्यादेशौ । सुखं वां नौ ददात्वीश इति । "नौ" इत्यनन्तरमपिशब्दोऽध्याहार्यः । अत् युवाभ्याम् आवाभ्याम् इति चतुर्थीद्विवचनान्तयोर्वांनावौ । पतिर्वामपि नौ हरिरिति । अत्र युवयोरावयोरिति षष्ठीद्विवचनान्तयोर्वांनावौ । सोऽव्याद्वो न इति । सः=हरि वः नः अपि अव्यात्=रक्षतादित्यर्थः । अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोर्वस्नसौ । शिवं वो नो दद्यादिति । शिवमिति शुभमुच्यते । "न" इत्यनन्तरम्अपी॑त्यध्याहार्यम् । अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोर्वस्नसौ । सेव्योऽत्र वः स न इति । स हरिः वः नः-अपि सेव्यः=भजनीयः इत्यर्थः ।कृत्यानां कर्तरि वा॑ इति षष्ठी । अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोर्वस्नसौ । त्वां पातु मां पात्विति । अत्र युष्मदस्मोः पदात्परत्वाऽभावात्त्वामौ द्वितीयायाः॑ इति न भवतीत्यर्थः । अद्यप्यत्र अस्मच्छब्दस्य पात्विति पदात्परत्वमस्ति, तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः । संवेद्योऽस्मानिति । अत्राऽस्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः । यद्यप्यनुष्टुप्छन्दस्कोऽयं श्लोकः, तत्र एकैकः पाटोऽष्टाक्षर इति स्थितिः । तत्र सन्ध्यभावेअस्मान्कृष्णः सर्वदाऽवतु #इत्यस्य नवाक्षरत्वान्न पादत्वम् । कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्व व्याघातः । "संवेद्य" इत्यस्य पदत्वाऽभावादस्मदः पदात्परत्वाऽभावश्च । पूर्वान्तत्वे तुस्मा॑नित्यस्य पादादिस्थितस्य नास्मच्छब्दरूपता, तथापि "संवेद्यो" इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्पदत्वम् ।स्मानित्यस्य तु एकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम् । वस्स्तुतस्तु ओकारस्य पूर्वान्तत्वात्संवेद्यो इत्यस्य पदत्वम्, स्मानित्यादेरष्टाक्षरत्वं च । परादित्वाच्चास्मच्छब्दरूपता ।उभयत आश्रयणे नान्तादिव॑दिति तु नास्तीतीण्धातौ निरूपयिष्यामः । केचित्तुअपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदावतु॑ इति प्रत्युदाहरन्ति । तन्नि, युष्मानित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः । अस्मानित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात् । ननुयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयान्तयोः॑ इत्येव सूत्र्यतां, कि स्थग्रहणेन । स्थग्रहणे ।ञपि कथञ्चित्तस्यैवार्थस्य लामादित्यत आह — हासीरिति गम्यते । ततश्च षष्ठीचतुर्थीद्वितीयास्तिष्ठतः=न परित्यजत इति व्युत्पत्तिर्विवक्षिता । षष्ठआदिविभक्तीरपरित्यजतोरित्यर्थः । अलुप्तषष्ठआदिविभक्तिविशिष्ठयोरिति फलतीति भावः । इति युष्मत्पुत्र इति । पदात्परत्वं सम्पादयितुम् "इति" शब्दः । युवयोर्युष्माकं वा पुत्रः, आवयोरस्माकं वा पुत्र इति विग्रहः । अत्र विभक्तेर्लुका लुप्तत्वात्श्रूयमाणविभक्तिकत्वाऽभावान्नादेशप्रवृत्तिः । तव पुत्रो मम पुत्र इति विग्रहस्तु न,प्रत्ययोत्तरपदयोश्चे॑ति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात् । समानवाक्ये #इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः । निघातशब्दोऽनुदात्तवाची । एकतिङिति । तिङित्यनेन तिङन्तं विवक्षितम् । एकस्तिङ् यस्येति विग्रहः । इदं च वाक्यलक्षणमेतच्चास्त्रोपयोग्येव । तेनपश्य मृगो धावती॑त्यादौ नाऽव्याप्तिरिति समर्थसूत्रे भाष्पे स्पष्टम् । ओदनमिति.॒ओदनं पचे॑त्येकं वाक्यम् ।तव भविष्यती॑त्यपरं वाक्यम् । ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात्पदात्परत्वाऽभावान्नादेश इति भावः । शालीनामिति । व्रीहीणामित्यर्थः । प्रकृतिविकारभावे षष्ठी ।एते वांनावादय इति । इदंच "सपूर्वायाः" इति सूत्रे भाष्ये स्थितम् । धातेति । महादेवं प्रति वचनमेतत्अन्वादेशे तु नित्य॑मित्यस्योदाहरणमाह — तस्यमै ते नम इत्येवेति । अत्रयोऽग्निर्हव्यवाट् य इन्द्रो वज्रबाहुः॑ इत्यादिपूर्ववाक्यं द्रष्टव्यम् । एवंच किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं बोधयितुं पुनरूपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः ।
त्वामौ द्वितीयायाः - उक्तानादेशान्वचनक्रमेणोदाहरति — श्रीश इत्यादिना । स्मी ते मेऽपीति ।स्वामीआराधिपती॑ति षष्ठीसप्तम्योर्विधानादिह षष्ठी । द्विवचनान्तयोरुदाहरणमाह — पातु वामित्यादिना । बहुवचनान्तयोस्तु — सोऽव्याव्दोन इत्यदि । सेव्योऽत्र वः स न इति ।अर्हे कृत्यतृचश्चे॑ति ण्यत् ।कृत्यानाम कर्तरि वे॑ति षष्ठी । वेदैरशेषैरिति.॒युष्मान् रक्षतु गोविन्दः॑इति प्राचः पाठस्तूपेक्षितः,युष्मा॑नित्यस्य पदात्परत्वाऽभावादेवाऽप्राप्तेः ।अस्मा॑नित्यस्य तु पदात्परत्वेऽपि समानवाक्यस्थपदात्परत्वाऽभावात् । ननुयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयाना॑मिति सूत्र्यतां, विशेषणेन तदन्तविधौ षष्ठआद्यन्तयोर्युष्मदस्मदोः पर्यवस्यति । न च॒स्थ॑ग्रहणाऽभावे युष्मदस्मदोः सम्बन्धिनीनां षष्ठीचतुर्थीद्वितियानां वानावावित्यर्थः स्यादिति वाच्यं,सर्वस्य पदस्ये॑त्यनुवर्तनादतो व्याचष्टेस्थग्रहणादिति । तिष्ठतिरिहाऽहानौ वर्तते । यथासमये तिष्ठ सुग्रीवे॑ति । समयं मा हासीरिति गम्यते । तेन षष्ठयादीनविजहतोरेव युष्मदस्मदोरादेशा इत्यर्थः । इतियुष्मत्पुत्र इति । युवयोः पुत्रो युष्माकं पुत्र इति वा विग्रहः, न तु तव पुत्रं इति । तथा हि सतित्वत्पुत्र॑इत्येव स्यात् । एवमस्मत्पुत्र इत्यत्राप्यूह्रम् । पदात्परत्वं संपादयितुम् — इतिशब्दः । ननु राज्ञोः पुरुषो राज्ञां पुरुष इति विग्रहेराजपुरुष॑इति नेष्यत इति सुद्धान्तविरोधाद्युष्मत्पुत्रोऽस्मत्पुत्र इत्यत्र युवयोर्युष्माकमित्यादिविग्रहो नसंभवतीति चेदत्राहुः — यत्र वृत्तौ सङ्ख्यविशेषबोधकं प्रमाणं नास्ति तत्रैवैकत्वसङ्ख्याऽ‌ऽश्रूयते, यथाराजपुरुष॑इति । न हिराजपुरुष॑इत्यत्र विभक्तौ निवृत्तायां राजपदार्थे द्वित्वादिप्रत्यायकं किंचिदस्ति । यत्र पुनः सङ्ख्याभेदगमकमर्थप्रकरणाद्यस्ति, भवति तत्र द्विवचनबहुवचनयोरपि वृत्तिः । प्रकृते त्वेकवचनान्तेव विग्रहे प्रत्ययोत्तरपदयोश्चे॒ति त्वमागेशप्रसङ्गादर्थाद्द्विवचनबहुवचनान्तेनेति विग्रहे वृत्तिर्भविष्यतीति । अर्थः — -अर्थाद्यथा, — मुद्गैः क्रीतो मौद्गिकः । न ह्रेकेन मुद्गेन द्वाभ्यां वा मुद्गाभ्यां क्रयणं संभवति । प्रकरणाद्यथा॒भवाद्गिरामवसरप्रदानाय वचांसि नः॑ । भवतोरिगिरामिति तत्र ह्रर्थः । समानवाक्य इति ।देवदत्त अस्त्ययं दण्डो, देवदत्त हराऽनेने॑त्यत्रदण्ड॑इत्येतत्पूर्ववाक्यस्थमिति समानवाक्यस्थत्वाऽभावादामन्त्रितनिघातो न भवति । एकातिङिति । एकं तिङन्तं यत्रेत#इ बहुव्रीहिः । ननु ओदनस्त्वया पक्तव्यस्तव भविष्यतीत्यत्रातिप्रसङ्गः, पक्तव्योऽस्तीत्यध्याहारेण भिन्नवाक्यतासमर्थनेऽपि पश्य मृगो धावतीत्यादावेकवाक्यत्वव्यवहारो न स्यात् ।सत्यम् । प्रकृतोपयोगित्वेनेदमुक्तं ।पश्य मृग॑इत्यादौ तुअर्थैकत्वादेकं वाक्यं साकाङ्क्षञ्चेद्विभागे स्या॑दिति शास्त्रान्तरप्रसिद्धमेवेत्येक । अन्ये तु — — ॒अख्यातं सविशेषणं वाक्य॑मिति वार्तिककारवचनपर्यालोचनयाएकति॑ङित्यत्र तिङन्तं विशेष्यसमर्तकं विवक्षितं, ततश्चपश्य मृगो धावती॑त्यत्र तिङन्तद्वये सत्यपि पश्येत्यस्यैव विशेष्यसमर्पकत्वान्नोक्तदोष इत्याहुः । एकशब्दः समानवचनो न तु सङ्ख्यावाची । बहुव्रीहिश्चायम् । तेनब्राऊहि ब्राऊहि देवदत्ते॑त्यत्रवाक्यत्वादामश्चितनिघातः सिध्यतीति समर्थसूत्रे कैयटः ।युष्मदस्मदोर्विभाषा अनन्वादेशे॑इति वार्तिकमर्थतः पठति एते वांनावादय इत । यद्यपिसपूर्वायाः प्रथमाया विभाषे॑त्यत्रैतत्पठते तथाप्यविशेषेण विकल्पोऽयं विधीयते इत्याशयेन सपूर्वत्वाऽभावेऽपि विकल्पमुदाहरति — धाता ते भक्त इति । अन्वादेशे तु नित्यमुदाहरति — तस्मै ते नम इत्येवेति ।तुल्यार्थै॑रित्यादिवन्न चवाहाहैवैरिति तृतीयानिर्देशेनाऽपि युक्तार्थलाभेयुक्त॑ग्रहणमनर्थकमित्यत आह —
लघुसिद्धान्तकौमुदी
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः॥श्रीशस्तवावतु मापीह दत्तात्ते मेऽपि शर्म सः। स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः॥सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः। सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र वः स नः॥(एकवाक्ये युष्मदस्मदादेशा वक्तव्याः)। एकतिङ् वाक्यम्। ओदनं पच तव भविष्यति। (एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः)। अन्वादेशे तु नित्यं स्युः। धाता ते भक्तोऽस्ति, धाता तव भक्तोऽस्ति वा। तस्मै ते नम इत्येव॥ सुपात्, सुपाद्॥ सुपदौ॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.