Page loading... Please wait.
7|4|93 - सन्वल्लघुनि चङ्परेऽनग्लोपे
॥ तस्मै पाणिनये नमः ॥
7|4|93
SK 2316
सन्वल्लघुनि चङ्परेऽनग्लोपे   🔊
सूत्रच्छेदः
सन्वत् (अव्ययम्) , लघुनि (सप्तम्येकवचनम्) , चङ्‍परे (सप्तम्येकवचनम्) , अनग्लोपे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 अभ्यासस्य  7|4|58
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
लघुनि धात्वक्षरे परतो यो ऽभ्यासः तस्य चङ्परे णौ परतः सनीव कार्यं भवति अनग्लोपे। सन्यतः 7|4|79 इत्युक्तम्, चङ्परे ऽपि तथा। अचीकरत्। अपीपचत्। ओः पुयण्ज्यपरे 7|4|80 इत्युक्तम्, चङ्परे ऽपि तथा। अपीपवत्। अलीलवत्। अजीजवत्। स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा 7|4|81 इत्युक्तम्, चङ्परे ऽपि तथा। असिस्रवत्, असुस्रवत्। अशिश्रवत्, अशुश्रवत्। अदिद्रवत्, अदुद्रवत्। अपिप्रवत्, अपुप्रवत्। अपिप्लवत्, अपुप्लवत्। अचिच्यवत्, अचुच्यवत्। लुघुनि इति किम्? अततक्षत्। अररक्षत्। जागरयतेः अजजागरत्। अत्र केचिद् गशब्दम् लभुमाश्रित्य सन्बद्भावम् इच्छन्ति, सर्वत्रैव लघोरानन्तर्यम् अभ्यासेन न अस्ति इति व्यवधाने ऽपि वचनप्रामाण्याद् भवितव्यम्, तदसत्। येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातित्येकेन व्यवधानम् आश्रीयते, न पुनरनेकेन। यद्येवम्, कथम् अचिक्षणतिति? आचार्यप्रवृत्तिर् ज्ञापयति भवत्येवं जातीयकानाम् इत्त्वम् इति। यदयं तद् बाधनार्थं सम्रत्यादीनाम् अत्वम् विदधाति। चङ्परे इति किम्? अहं पपच। परग्रहणं किम्? चङि एव केवले मा भूत्, अचकमत। अनग्लोपे इति किम्? अचकथत्। दृषदमाख्यातवानददृषत्। वादितवन्तं प्रयोजितवानवीवदतित्यत्र यो ऽसौ णौ णेर्लोपो नासावग्लोप इत्याश्रीयते। किं कारणम्? चङ्परे इति णिजातेर् निमित्तत्वेन आक्षेपात्, ततो ऽन्यस्य अको लोपः परिगृह्यते। मीमादीनाम् अत्र ग्रहणात् सन्वद्भावेन अभ्यासलोपो न भवति इत्युक्तम्। किं च सन्वतिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनम् एव अपेक्षते, किं तर्हि, इस्भावाद्यपि। तदभावातमीमपतित्यादौ अभ्यासलोपो न भविष्यति।
`सन्यतः` 7|4|79 इत्यादिना सूत्रत्रयेण यदभ्यासस्य सनि कार्यं भवति तल्लघुनि चङ्पर इत्यतिदिश्यते। `लघुनि` `चङ्परे` इति। व्यधिकरणे सप्तम्यौ--चङपरे णौ परतो यत्? पूर्वं लघु तस्मिन्? परतो योऽभ्यासस्तस्य सन्वद्भवतीति। `चङपरे` इति बहुव्रीहिः--चङ्? परो यस्मादिति तच्चङ्परम्; न तु चङ्? चासौ परश्चेति तत्पुरुष। तेन सामथ्र्याण्ण्यन्तस्यैवायमतिदेशो विज्ञायते; अन्यथा हि यदि प्रकृत्यन्तस्यायमतिदेशः स्यात्, तदा `सन्वच्चङि` इत्येवं ब्राऊयात्। `अनन्लोपे` इति। `चङ्परे` इत्यस्यैतद्विशेषणम्। अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स यस्य नास्ति तदनग्लोपम्। `अपीपचत्` इति। पचेर्णित्, लुङ्, च्लेश्चङ्, उपधाह्यस्वत्वम्, द्विर्वचनमभ्यासकार्यम्, हलादिशेषे च कृतेऽनेन सन्वद्भावः, `सन्यतः` 7|4|79 इतीत्त्वम्, उत्तरसूत्रेण 7|4|94 दीर्घत्वम्। `अततक्षत्, अररक्षत्` इति। अत रेफतकारयोः संयोगपरत्वाद्? गुरुसंज्ञायां सत्यां न भवति सन्वद्भावः। `अजजागरत्` इति। अत्र जकाराकारस्य दीर्घत्वाद्गुरुत्वम्। `अत्र केचित्` इत्यादि। तेषां `अजीजागरत्` इति भवितव्यम्। किं पुनः कारं त एवमिच्छन्ति, यावता लघुनि चङ्पर इत्यच्यते, व्यवहितश्चात्र लघुनि चङ्परे? इत्यत आह--`सर्वत्रैव` इत्यादि। `अचीकरत्` इत्यादावपि ककारादिना वर्णेन व्यवधानाल्लघोरानन्तर्यमभ्यासे नास्ति; उच्यते चेदं वचनम्, अतो वचनप्रामाण्या द्वय्वधान एव सन्वद्भावेन भवितव्यम्। ततश्च यथा `अचीकरत्` इत्यादौ व्यवधानेऽपि भवति, तथेहापि व्यवधाने सन्वत्कार्येण भवितव्यम्। अथ चेद्व्यवधानान्न भवति, अत्रापि न स्यादिति भावः। `तदसत्` इति। `अजजागरत्` इत्यत्र गृशब्दं लघुमाश्रित्य यत्? सनवद्भावमिच्छन्ति, सर्वत्रैवेत्यादिना च यत्? कारणमुक्तम्, तदुभयमत्राशोभनम्; अयुक्तत्वात्। कथम्? इतयाह--`येन` इत्यादि। एकेन वर्णेन व्यवधानमस्ति सर्वत्र। वर्णसङ्घातेन व्यवधानमस्ति नास्ति च। तत्र `येन नाव्यधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्` (व्या।प।46) इति यन्नियतभाव्येकेन वर्णेन व्यवधानमशक्यं परिहर्त्तुम्, तदेवाश्रीयते, न तु वर्णसङ्गातेन। `अजजागरत्` इत्यत्र वर्णसङ्घातेन व्यवधानम्। यदि तर्हि वर्णसङ्घातेन व्यवधानं नाश्रीयते, व्यञ्जनसङ्घातेन व्यवधाने न सिद्धयति? इत्यभिप्रायेणाह--`कथमचिक्षणत्` इत्यादि। `क्षणु हिंसायाम्` (धातुपाठः-1465) इत्येतस्यैतद्रूपम्। अत्रापि ज्ञापकेन सिद्ध्यतीत्यत आह--`आचार्यप्रवृत्तिः` इत्यादि। क्षणोतिना ये सदृशाः संयोगादयस्त एवञ्जातीयाः। क्षणोतिप्रकारः इत्यर्थः। तेषां यदीत्त्वं न स्यात्, तदा तद्बाधनार्थं `अत्स्मृदृत्वरप्रथभ्रद` 7|4|95 इत्यादिनात्त्वं न विदध्यात्, विदधाति च। तस्मादेतदेवात्त्वविधानलक्षणमाचार्यप्रवृत्तिज्र्ञापयति--`भवत्येवञ्जातीयकानामित्त्वम्` इति। `अहं पपच` इति। उत्तमे णलि यदा `णलुत्तमो वा` 7|1|91 इति णित्त्वं नास्ति तदेदं प्रत्युदाहरणं भवति। अत्र लघुपरतोऽक्षरम्, न तु चङ्परम्। `अचकमत` इत्यादि। कमेश्चोपसंख्यानम्` (वा।208) इति `कमु कान्तौ` (धातुपाठः-443) इत्येतस्मात्? प्रकृत्यन्तादेव लुङ्, चङ्। `अचकथत्` इति। `कथ वाक्यप्रबन्धे` (धातुपाठः-1851) चुरादावदन्तः। अत्र `अतो लोपः` 6|4|48 इत्यकारलोपः। अत्र त्वग्लोपस्य स्थानिवद्भावे सति व्यवधानेऽपि न स्यात्। अतः प्रत्युदाहरणान्तरमाह--`दृषदमाख्यदददृषत्` इति। `तत्करोति तदाचष्टे` (वा।200) इति णिच्। `णाविष्ठवत्? कार्यं प्रातिपदिकस्य` (वा।811) इतीष्ठवद्भावाट्टिलोपः। अत्राज्झलोर्लोपः, नाक एव केवलस्येति नास्त्यत्र स्थानिवद्भावः। अन्यार्थं त्वग्लोप इति क्रियमाणमचकथदित्यत्रापि सन्वद्भावं निवत्र्तयतीत्यस्योपन्यासः। `अवीवदत्` इति। वदतेण्र्यन्ताद्? वादितवन्तं प्रयोजितवानिति `हेतुमति च` 3|1|26 इति णिच्, पुनर्णिच्युत्पन्ने `णेरनिटि` 6|4|51 इति णिलोपे कृते सत्यप्यग्लोप्यङ्गं भवति, अतो न भवितव्यं सन्वद्भावेनेति यो मन्यते, तं प्रत्याह--`वादितवन्तं प्रयोजितवान्` इत्यादि। `चङ्परे` इत्यादिना णिलोपस्याग्लोपित्वेनानाश्रयणे कारणमाह। `चङपरे` इत्यनेन हि सन्वद्भावनिमित्तेन णिजातिराक्षिप्ता। तस्माद्गोबलीवर्दन्यायेन णिजातिर्निमित्तत्वेनाश्रीयते। अतो णिजातेरन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन परिगृह्रते, न तु तस्या एव णिजातेः। तस्माण्णिलोपस्याग्लोपित्वेनानाश्रयणात्? तल्लोपेऽग्लोप्यङ्गं न भवति। अतो भवत्येवात्र सन्वद्भावः। सन्वदित्यतिदेशेन यथाचीकरदित्यादावभ्यासस्येत्त्वं भवति तथामीमपदित्यादावप्यभ्यासलोपेन मीमादीनां भवितव्यमिति यश्चोदयेत्, तं प्रत्याह--`मीमादीनाम्` इत्यादि। आदिशब्देन ध्वादीनां ग्रहणम्। `किञ्च` इत्यादिना परीहारान्तरम्। सन्वदित्यतिदेशेन हि सनाश्रयणेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्? यत्? सनमपेक्षते, नापरं किञ्चित्। न च `अत्र लोपेऽभ्यासस्य` 7|4|58 इत्यनेन विधीयमानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन ध्वादीनां ग्रहणम्। `किञ्च` इत्यादिना परोहारान्तरम्। सन्वदित्यतिदेशेन हि सनाश्रयमेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्? यत्? सनमपेक्षते, नापरं किञ्चित्। न च `अत्र लोपेऽभ्यासस्य` 7|4|58 इत्यनेन विधीयभानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन--`अब्ज्ञप्यृधामीत्` 7|4|55 इतीत्त्वम्, `मुचोऽकर्मकस्य` 7|4|57 इति गुणश्च परिगृह्रते। तेन `अभीमपत्` इत्यादाविसादेशो न भवति। अभ्यासलोपेऽपि न भवतीत्यभिप्रायः॥
ठ्लघुनि चङ्परेऽ इति व्यधिकरणे सप्तम्यौ, न सामानाधिकरणे; चङ्परस्य लघुनोऽसम्भवात् । चङ्परे णौ परत इति । कृथं पुनर्णाविति लभ्यते ? चङ्परस्यान्यस्यासम्भवात् । ननु चाचकमतेत्यत्र मकारः । सम्भवति, अदुद्रुवद्, असुस्रवदित्यत्र वकारः ? एवं तर्हि ठ्चङ्परेऽ इत्यङ्गस्य विशेषणम्---चङ्परे यदङ्गं तस्य योऽभ्यासस्तस्य सन्वत्कार्यं भवति । लघुनि धात्वक्षर इति । चङ्परे णौ यदङ्गं तस्य सम्बन्धि यल्लघ्वित्यर्थः । सामर्थ्याण्ण्यन्तस्य ग्रहणमिते । णेः समीपभूतस्याङ्गस्य ग्रहणमित्यर्थः । ण्यन्तस्यावयवभूतं यदङ्गं तस्य ग्रहणमिति वा । अनग्लोप इति । नास्मिन्नग्लोपो विद्यत इति अनग्लोपः । एतच्च ठ्चङ्परेऽ इत्यनेन समानाधिकरणम् । तेनायमर्थः---चङ्परे णावको लोपेऽसतीति । अततक्षदित्यत्र संयोगपरत्वाद् गुरुसंज्ञया लघुसंज्ञाया बाधः, अजजागरदित्यत्र आकारः । परः । अत्र केचिदित्यादि । ननु च गकारो जाशब्देन व्यवहितः ? अत आह---सर्वत्रैवेति । अचीकरदित्यादावपि ककारादिना व्यवधानाल्लघोरानन्तर्यं नास्ति, ततश्च वचनप्रामाण्याद्व्यवधान एव सन्वद्भावेन भवितव्यमिति तेषामभिप्राय इत्यर्थः । दूषयति---तदसदिति ॥ यदि तहि वर्णसङ्घातेन व्यवधानं नाश्रीयते व्यञ्जनसङ्घातेनापि व्यवधाने न सिध्यतीति मन्यमानः पृच्छति---कथमिति । एवञ्जातीयकानामिति । संयोगव्यवहितानामित्यर्थः । अचकमतेति । ठ्कमेरुपसंख्यानम्ऽ इति च्लेश्चङदेशः । अचकथदिति । ठ्कथ वाक्यप्रबन्धेऽ चुरादावदन्तः, ठतो लोपःऽ । अत्राल्लोपस्य स्थानिवद्भावे सति व्यवधानान्न भविष्यति, अतः प्रत्युदाहरणान्तरोपन्यासः । अददृषदिति । ठ्तदाचष्टेऽ इति णिच इष्ठवद्भावेन टिलोपः । अत्राज्झलोर्लोपः, नाच एव केवलस्येति नास्ति स्थानिवद्भावः । एतदर्थं च ठनग्लोपेऽ इत्येतत्क्रियमाणमचकथदित्यत्र सन्वद्भ्वावं निवर्तयतीति तस्योपन्यासः । यदि चङ्परे णौ यदङ्गं तस्य यल्लघु तत्र परतोऽभ्यासस्य सन्वद्भावो विधीयते, वादितवन्तं प्रयोजितवानवीवददित्यत्रापि तर्हि न प्राप्नोति, किं कारणम् ? यश्चङ्परो णिर्न तत्र लघुः; पूर्वेण णिचा व्यवहितत्वात् । लोपे कृते नास्ति व्यवधानम् । अजादेशः पूर्वविधौ स्थानिवद् भवतीति स्थानिवद्भावाद्व्यवधानमेव । यद्यपि दीर्घविधिं प्रति स्थानिवद्भावो निपिद्धः, सन्वद्भावे तु प्राप्नोति । यस्मिंश्च णौ लघुर्नासौ चङ्परः; द्वितीयेन णिचा व्यवहितत्वात् । भवतु वा स्थानिवत्वनिषेधः, अग्लोपित्वान्न प्राप्नोति । वृद्धौ कृतायां णेलेपिः, तन्नाग्लोप्यङ्गं भवति । अग्लोपि वास्तु, प्रागेव वृद्धेर्णिलोपे कृते ? तत्रापि परिहारमाह---योऽसौ णौ णेर्लोप इत्यादि । ततोऽन्योऽग्लोप इति अन्याकारोऽन्य उक्तः । जात्याश्रयणे हि गोबलीवर्दन्यायेन णिजातेनिंमितत्वेन परिगृहीताया अन्यस्याको लोपः प्रतिषेधविषयः परिगृह्यते, न तु तस्या णिजातेः; ततश्चास्य लोपस्याग्लोपत्वेनानाश्रयणाअतेनाग्लोप्यङ्गं न भवतीति भवत्येवात्र सन्वद्भावः । मीमादीनामत्र ग्रहणादिति । तत्र ह्यच इति ठभ्यासलोपश्चऽ इत्येव सिद्धेऽत्रग्रहणं विषयावधारणार्थम् । अत्र मुख्ये सन्येव भवति, न सन्वद्भावविषय इति । किञ्चेत्यादि । अनेनेदमाह---न केवलं मुख्यसन्परिग्रहमात्रमत्र कारणम्, किं तर्हि ? हस्भावद्यपि विषयत्वेन निर्दिश्यते । इह च धातोः सन्वद्भावादिस्भावादि न भवति, ततश्चाभ्यासलोपोऽपि न भवतीति । यद्वा---सकारादौ सन्यभ्यासलोपो विहितः, न सन्मात्रे, ततश्च सामान्यातिदेशे विशेषानतिदेशात् लोपाभावः ॥
सिद्धान्तकौमुदी
चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्त्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सन्वल्लघुनि चङ्परेऽनग्लोपे - चङ्पर इत्येतावतैव णिरिति न लभ्यते, श्रिद्रुरुआउवामपि चङ्परत्वात् । अत आह — अह्गसंज्ञानिमित्तमिति । अङ्गस्याभ्यास इति । अङ्गस्य ये द्वे विहिते तयोः पूर्वोऽभ्यास इत्यर्थः । अङ्गस्येति नावर्तत इति । अस्मस्तु व्याख्यानेचङ्परे॑ इत्येतावतैव णिरिति लभ्यते, श्रिद्रुरुआउषु परेषु अङ्गत्वाऽसंभवादतो व्याचष्टे — चङ्परे णौ यदङ्गमिति । चङपरे इत्यस्यैव व्याख्यानंणा॑विति ज्ञेयम् । अनग्लोपे किम् । अचकथत् ।
लघुसिद्धान्तकौमुदी
चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति॥
महाभाष्यम्
सन्वल्लघुनि चङ्परेऽनग्लोपे इह कस्मान्न भवति ‐ अजजागरत् ? ।। लघुनि चङ्पर इत्युच्यते व्यवहितं चाऽत्र लघु चङ्परम् ।। इहापि तर्हि न प्राप्नोति ‐ अचीकरत् अजीहरत् ।। वचनाद्भविष्यति ।। इहापि वचनात्प्राप्नोति ‐ अजजागरत् ।। येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् ।। केन च नाऽव्यवधानम् ? ।। वर्णेन । एतेन पुनः सङ्घातेन व्यवधानं भवति न भवति च ।। एवमपि अचिक्षणत् ‐ अत्र न प्राप्नोति ।। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति भवत्येवंजातीयकानामित्त्वमिति यदयमत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशामितीत्त्वबाधनार्थमत्त्वंशास्ति । ।। सन्वद्भावदीर्घत्वे णेर्णिच्युपसङ्ख्यानम् (णिचा व्यवहितत्वात्(2)) ।। सन्वद्भावदीर्घत्वे णेर्णित्युपसङ्ख्यानं कर्तव्यम् । वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन ।। किं पुनः कारणं न सिध्द्यति ? ।। णिचा व्यवहितत्वात् ।। लोपे कृते नाऽस्ति व्यवधानम् ।। स्थानिवद्भावव्द्यवधानमेव ।। प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधिं प्रति न स्थानिवदिति ।। एवमप्यनग्लोप इति प्रतिषेधः प्राप्नोति ।। वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ।। एवं तर्हीदमिह संप्रधार्यं ‐ वृद्धिः क्रियतां लोप इति, किमत्र कर्तव्यम् ? ।। परत्वाद्वृद्धिः ।। नित्यो लोपः । कृतायामपि वृद्धौ प्राप्नोत्यन्यस्याऽकृतायाम् । शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति । उभयोरनित्ययोः परत्वाद्वृद्धिर्वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ।। मीमादीनां तु लोपप्रसङ्गः ।। मीमादीनां तु लोपाः प्राप्नोति । अमीमपत् ।। सिद्धं तु रूपातिदेशात् ।। सिद्धमेतत् ।। कथम् ? ।। (ठरूपातिदेशात्(2)) ।। रूपातिदेशोऽयं ‐ सनि यादृशमभ्यासरूपं तत्सन्वद्भावेनाऽतिदिश्यते, न च मीमादीनां सन्यभ्यासरूपमस्ति ।। अङ्गान्यत्वाद्वा सिद्धम् ।। अथ वा ण्यन्तमेतदङ्गमन्यत् ।। लोपे कृते नाऽङ्गन्यत्वम् ।। स्थानिवद्भावादङ्गमन्यत् ।। कथमजिज्ञपत् ? ।। अत्र सन्यपि ण्यन्तस्यैवोपादानमाप्ज्ञप्यृधामीदिति । अत्राऽङ्गन्यत्वाऽभावादभ्यासलोपः स्यात् । तस्मात्पूर्व एव परिहारः -सिद्धं तु रूपातिदेशादिति ।। ।। इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये सप्तमाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ।। चतुर्थः पादश्च समाप्तः ।।