Page loading... Please wait.
7|4|68 - व्यथो लिटि
॥ तस्मै पाणिनये नमः ॥
7|4|68
SK 2353
व्यथो लिटि   🔊
सूत्रच्छेदः
व्यथः (षष्ठ्येकवचनम्) , लिटि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 अभ्यासस्य  7|4|58
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
व्यर्थेर् लिटि परतो ऽभ्यासस्य सम्प्रसारणं भवति। विव्यथे, विव्यथाते, विव्यथिरे। हलादिः शेषेण यकारस्य निवृत्तौ प्राप्तायां सम्प्रसारणं क्रियते, वकारस्य न संप्रसारने संप्रसारणम् 6|1|37 इति प्रतिषिद्यते। लिटि इति किम्? वाव्यथ्यते।
`विव्यथे` इति। `व्यथ भयचलनयोः` (धातुपाठः-764), अनुदात्तेत्त्वादात्मनेपदम्। अथ यकारस्य हलादिशेषेण निवृत्त्या भवितव्यम्, वकारस्य सम्प्रसारणेन? इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`यकारस्य` इत्यादि। `वाव्यथ्यते` इति। यङ्॥
विव्यथे इति । ठ्व्यथ भयचलनयोःऽ, अनुदातेत् । अत्र यकारे हलादिशेषेण निवृते वकारस्य प्रसारणप्रसङ्ग इत्याशङ्क्याह---यकारस्येति । इह ठ्लिट।ल्भ्यासस्योभयेषाम्ऽ इत्यस्यनन्तरम् ठ्व्यथःऽ इति वक्तव्यम्, ततः ठ्द्यौतिस्वाप्योः ? तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
व्यथोऽभ्यासस्य संप्रसारणं स्याल्लिटि । हलादिः शेषापवादः । थस्य हलादिः- शेषेण निवृत्तिः । विव्यथे । 765 प्रथ प्रख्याने । पप्रथे । 766 प्रस विस्तारे । पप्रसे । 767 म्रद मर्दने 768 स्खद स्खदने । स्खदनं विद्रावणम् । 769 क्षजि गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोः (कौमुदी-2762) इति दीर्घविकल्पः । अक्षञ्जि । अक्षाञ्जि । क्षञ्जं-क्षञ्जम् । क्षाञ्जंक्षाञ्जम् । 770 दक्ष गतिहिंसनयोः । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः । 771 क्रप कृपायां गतौ 772 कदि 773 क्रदि 774 क्लदि वैक्लव्ये । वैकल्य इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रद क्लदेति चानिदिताविति मैत्रेयः । कदिक्रदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषूक्तानां पुनरिह पाठो मित्तवार्थ आत्मनेपदार्थश्च । 775 ञित्वरा संभ्रमे । (गणसूत्रम् -) घटादयः षितः । षित्वादङ् कृत्सुवक्ष्यते ॥ अथ फणन्ताः परस्मैपदिनः । 776 ज्वर रोगे । ज्वरति । जज्वार । 777 गड सेचने । गडति । जगाड । 778 हेड वेष्टने । हेडृ अनादर इत्यात्मनेपदिषु गतः स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि । अहीडि । अनादरे तु हेडयति । 779 वट 780 भट परिभाषणे । वट वेष्टने भट भृताविति पठितयोः परिभाषणे मित्त्वार्थोऽनुवादः । 781 णट नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्वं पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्यं नृत्तंचार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये । णोपदेशापर्युदासवाक्ये भाष्यकृता नाटीति दीर्घपाठाद् घटादिर्णोपदेश एव । 782 ष्टक प्रतीघाते । स्तकति । 783 चक तृप्तौ । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् । 784 कखे हसने । एदित्त्वान्न वृद्धिः । अकखीत् । 785 रगे शङ्कायाम् 786 लगे सङ्गे 787 ह्रगे 788 ह्लगे 789 षगे 790 ष्ठगे संवरणे 791 कगे नोच्यते । अस्यायमर्थ इति विशिष्य नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये । 792 अक 793 अग कुटिलायां गतौ 794 कण 795 रण गतौ । चकाण । रराण । 796 चण 797 शण 798 श्रण दाने च । शण गतावित्यन्ये । 799 श्रथ 800 श्लथ 801 क्रथ 802 क्लथ हिंसार्थाः । जासिनिप्रहण--(कौमुदी-617) इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते । क्राथयति । मित्त्वं तु निपातनात्परत्वात् चिण्णमुलोः--(कौमुदी-2762) इति दीर्घे चरितार्थम् । अक्रथि । अक्राथि । क्रथंक्रथम् । क्राथंक्राथम् । 803 वन हिंसायाम् । वनु च नोच्यते । वनु इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते । 804 ज्वल दीप्तौ । णप्रत्ययार्थं पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति । 805 ह्वल 806 ह्मल चलने । प्रह्वलयति । प्रह्मलयति । 807 स्मृ आध्याने । चिन्तायां पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवादः । आध्यानमुकण्ठापूर्वकं स्मरणम् । 808 दॄ भये । दॄ विदारणे इति क्रादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्घटादौ अत्स्मृदॄत्वर--(कौमुदी-2566) इति सूत्रे च दॄ इति दीर्घस्थाने ह्रस्वं पठन्ति । तन्नेति माधवः । 809 नॄ नये । क्र्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति । 810 श्रा पाके । श्रै इति क-कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । [(परिभाषा - ) लुग्विकरणयोरलुग्विकरणस्य] । [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्] इति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः ॥ 811 ज्ञा मारणतोषणनिशामनेषु । निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये । निशानेष्विति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच्चेति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं विज्ञापना भर्तृषु सिद्धिमेतीति । तज्ज्ञापयत्याचार्य इति च । शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोग इति चौरादिकस्य । धातूनामनेकार्थत्वात् । निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः । 812 चलिः कम्पने । चल कम्पने इत ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः । 813 छदिर्‌ ऊर्जने । छद अपवारण इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति, प्राणीभवति, अपवारयति वेत्यर्थः । 814 लडिः जिह्वोन्मथने । लड विलास इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् । 815 मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । दैवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयीत्यर्थः । 816 ध्वन शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोजः । दलि-वलि-स्खलि-रणि-ध्वनि-त्रपि-क्षपयश्चेति पपाठ । तत्र ध्वनिरणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने । त्रपूष् लज्जायामिति गताः । तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षै क्षये इति वक्ष्यमाणस्यकृतात्वस्य पुका निर्देशः । क्षपयति । 817 स्वन अवतेसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । (गणसूत्रम् -) घटादयो मितः । मित्संज्ञा इत्यर्थः । (गणसूत्रम् -) जनीजॄष्न्कसुरञ्जोऽमन्ताश्च । मित इत्यनुवर्तते । जॄषिति षित्त्वनिर्देशाज्जीर्यतेर्ग्रहणम् । जृणातेस्तु जारयति । केचित्तु जनी जॄ ष्णसु इति पठित्वाष्णसु निरसने इति रदैवादिकमुदाहरन्ति । (गणसूत्रम् -) ज्वलह्वलह्मलममामनुपसर्गाद्वा । एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति । ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्राज्वालयति । उन्नामयतीति । घयन्तात्तत्करोतीति णौ । कथं संक्रामयतीति । मितां ह्रस्वः (कौमुदी-2568) इति सूत्रे वा चित्तविरागे (कौमुदी-2605) इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वत्तिकृत् । एतेन राजो विश्रामयन् राज्ञाम्, धुर्यान्विश्रामयेति स इत्यादि व्याख्यातम् । (गणसूत्रम् -) ग्लास्नावनुवमां च । अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । (गणसूत्रम् -) न कम्यमिचमाम् । अमन्तात्वात्प्राप्तं मित्तवमेषां न स्यात् । कामयते । आमयति । चामयति । 818 शमो दर्शने (गणसूत्रम् -) । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु प्रणयिनो निशमय्य वधूः कथाः । कथं तर्हि निशामय तदुत्पत्तिं विस्तराद्गदतो ममेति । शम आलोचन इति चौरादिकस्य । धानूनामनेकार्थत्वाच्छ्रवणे वृत्तिः शाम्यतिवत् । 819 यमो ऽपरिवेषणे (गणसूत्रम् -) । यच्छतिर्तभोजनातोऽन्यत्र भिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । प्रयवसितं नियमयन्नित्यादि तु नियमवच्चब्दात्तत्करोतीति णौ बोध्यम् । (गणसूत्रम् -) 820 स्खदिरवपरिभ्यां। मिन्नेत्येव । अवस्खादयति । परिस्खादयति । अपावपरिभ्य इति न्यासकारः । स्वामी तु न कमी ति नञमुत्तरत्रिसूत्र्यामननुवर्त्य शम अदर्शने इति चिच्छेद । यमस्त्वपरिवेषणे मित्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव । उपसृष्टस्य स्खदेश्चेदवादिपूर्वस्येति नियमात्प्रस्खादयतीत्याह । तस्मात् सूत्रद्वये उदाररणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् । 821 फण गतौ । नेति निवृत्तमसंभवात् । निषेधात्पूर्वमसौ । न पठितः । फणादिकार्यानुरोधात् ॥
व्यथो लिटि - व्यथधातुर्द्वितीयान्तः । व्यथो लिटि । "अत्र लोपःर" इत्यतोऽभ्यासस्येति,द्युतिस्वाप्यो॑रत्यतः संप्रसारणमिति चानुवर्तते । तदाह — व्यथोऽभ्यासस्येत्यादिना । हलादिशेषापवाद इति । व्यथ् व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपं बाधित्वा संप्रसारणमित्यर्थः । तथा च यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् । वकारस्य तु न संप्रसारणं,न संप्रसारणे संप्रसारण॑मिति निषेधात् । ननु संप्रसारणेन हलादिशेषबाधे थकारस्यापि निवृत्तिर्न स्यादित्यत आह — थस्येति । यकारलोपस्य बाधं विना संप्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाऽभावादिति भावः । मृद मर्दने इति । ऋदुपधोऽयम् । मर्दते । ममृदे । क्षिजधातुरिदित् । क्षञ्जते । चक्षञ्जे । नु घटादिगणेऽस्य पाठो व्यर्थः, क्षञ्जयतीत्यत्र णौ नुमि कृते अकारस्यानुपधात्वेन उपधादीर्घस्याऽप्रसक्त्या "मितां ह्यस्वः" इत्यस्याऽप्रवृत्तावपि विशेषाऽभावादनुपधात्वेन "मितां ह्यस्व" इत्यस्य प्रसक्त्यभावाच्च । अत एव अक्षञ्जि क्षञ्जं क्षञ्जिमित्यत्रापिचिण्णमुलो॑रिति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह — मित्त्वसामथ्र्यादिति । दक्ष गतीति । ननुदक्ष वृद्धौ शीघ्रार्थे चे॑त्यनुदात्तेत्सु पाठादेव सिद्धे किमर्थमिह पाठः , अर्थनिर्देशस्योपलक्षणत्वादेव गतिहिंसार्थकत्वस्यापि संभवादित्यत आह — वृद्धिशैघ्र्ययोरिति । मित्त्वसामथ्र्यादनुपधात्वेऽपि चिण्णमुलोर्दीर्घविकल्पः । अदक्षिः अदाक्षि । दक्षंदक्षम्, दाक्षंदाक्षम् । क्रप कृपायां गताविति । अदुपधोऽयम् । कृपायां गतौ चेत्यर्थः । कदि क्रदि क्लदि इति नन्दिमते । क्षीरस्वामिमते च त्रय एव धातवः । मैत्रेयमते चत्वार इति बोध्यम् । तत्र इदितां त्रयाणां पौनरुक्त्यं परिहरति — कदिक्रदिक्लदिनामित्यादिना । ञित्वरेति । ञिरित् । "ञीतः क्तः" इति क्तः प्रयोजन् । आदित्त्वं तुआदितश्चे॑ति निष्ठायामिण्निषेधार्थम् । वस्तुतस्तु आदित्त्वं व्यर्थं, ह्यस्वेऽप्यात्नेपदसिद्धेःरुष्यमत्वरसङ्घषास्वना॑मिति निष्ठायामिड्विकल्पसिद्धेश्च । घटादयः षित इति । "त्वरत्यन्ता" इति शेषः । घटादिषु त्रयोदशानुदात्तेतो गताः । "द्युत दीप्तौ" इत्यतः प्राग्घटादिसमाप्तिरिति वक्ष्यते । अथ फणान्ता इति । "फण गता" वित्येतत्पर्यन्ता इत्यर्थः । ज्वर रोगे इति । णौ ज्वरयति । चिणि तु अज्वरि — अज्वारि । णमुलि तु — ज्वरंज्वरं ज्वारंज्वारम् । एवमग्रेऽपि ज्ञेयम् । हेड वेष्टन इति । डकारादकार उच्चारणार्थः । ततश्चनाग्लोपिशास्वृदिता॑मिति निषेधो न भवति । स एवेति । हेडृधातुरेव ऋकारानुबन्धमुत्सृज्य वेष्टनरूपेऽर्थविशेषे मित्त्वार्थमनूद्यते इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । नन्वात्मनेपदिन एवाऽत्रानुवादे परस्मैपदं न स्यादित्यत आह — -परस्मैपदिभ्य इति । यदि त्वात्नेपदमिष्टं तर्हि घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठएतेति भावः । हेडतीति । वेष्टते इत्यर्थः । हिडयतीति । वेष्टयतीत्यर्थः ।हेतुमती॑ति णिचि "मितां ह्यस्वः" इति ह्यस्व इति भावः । अडिहि अहीडीति ।चिण्णमुलो॑रिति दीर्घविकल्पः । हेडयतीति । वेष्टनरूपाऽर्थ एव मित्त्वान्न ह्यस्व इति भावः । "वट परिभाषणे" इति नाऽपूर्वो धातुरित्याह — वट वेष्टने इत्यादि । अनुवाद इति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । "णट नृत्तौ" इत्यस्य पौनरुत्तयमाक्षिपति — इत्थमेवेति ।टवर्गान्तेष्विटति शेषः । तथा च उभयोरप्यर्थैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परिहारस्याऽसंभवात्पौनरुक्त्यमेवेति भावः । परिहर्तुमुपक्षिपति — तत्रायं विवेक इति । तत्र = तयोर्धात्वोः, अयं = वक्ष्यमाणः, विवेकः = अर्थभेदः, प्रत्येतव्य इत्यर्थः । पूर्वं पठतस्येति । टवर्गान्तेषु पठितस्येत्यर्थः । यत्कारिष्विति । यस्य कर्तृषु नटव्यवहारस्तन्नाटं पूर्वं पठितस्यनटधातोरर्थ इत्यर्थः । किं तन्नाटमित्यत्राह — वाक्यर्थेति । घटादौ त्विति । यस्य कर्तृषु नर्तकव्यपदेशस्तन्नृत्यं, नृत्तं च घटादौ पठितस्य नटेरर्थः इत्यर्थः । नृत्यनृत्तयोः को भेद इत्यत आह — पदार्थेति । एवंच टवर्गान्तेषु पठितस्य घटादगतस्य चाऽर्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यते । धात्वन्तरत्वे तु भित्त्वतदभावयोर्विकल्पः स्यादिति भावः । अथ नटधातोरस्य णोपदेशपर्युदासभ्रमं वारयति — णोपदेशेति ।अनर्द्नाटी॑त्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन "नट अवस्पन्दने" इति चौरादिकस्यैव ग्रहणादयं णोपदेश एवेत्यर्थः । ष्टकधातुः षोपदेशः । कृतष्टुत्वस्य निर्देशः । स्तकतीति । "धात्वादे" रिति षस्य सत्वे ष्टुत्वनिवृत्तिः । चक तृप्तौ । तृप्तीति ।चक तृप्तौ प्रतीघाते चे॑त्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्राऽनुवाद इत्यर्थः । एवं च धात्वन्तरत्वाऽभावान्न मित्त्वततदभावविकल्पः । ननु आत्मनेपदिषु पठितस्यात्रानुवादादात्मनेपदं स्यादित्यत आह — आत्नेपदिष्विति । षगे ष्टगे इति । षोपदेशौ । ष्टगे इति कृतष्टुत्वनिर्देशः । कगे नोच्यत इति । ननु यदि न कोऽपि क्रियाविशेषोऽस्यार्थस्तर्हि कथमयं धातुरित्यत आह — क्रियासामान्यार्थवाचित्वादिति । धातुपाठपठितस्य क्रियाविशेषार्थकत्वाऽभावे सति क्रियासामान्यवाचित्वं परिशेषलभ्यमिति भावः । अनेकेति ।कलिः कामधेनु॑रिति न्यायेन कलधातुवदपरमितार्थकत्वमिति भावः । श्रथ क्नथ क्रथ क्लथ इति । चत्वारोऽपि द्वितीयान्ताः । आद्यतृतीयौ रेफमध्यौ । द्वितीयो नकारमध्यः । चतुर्थस्तु लकारमध्यः । आद्यस्तु शकारादिः । इतरे ककारादयः । ननु क्रथधातोर्घटादित्वेन मित्त्वाण्णौ उपधावृद्धिसंपन्नस्य अकारस्य "मितां ह्यस्व" ति ह्यस्वत्वे क्रथयतीति स्यान्नतु क्राथयतीति । तत्राह — जासिनीति ।जासिनिप्रहणनाटकाथपिषां हिंसाया॑मिति षष्ठीविधौ णौ मित्वेऽपि क्राथेति वृद्धिर्निपात्यत इत्यर्थः । नन्वेवं सति घटादौ क्रथधातोः पाठो व्यर्थ इत्यत आह — मित्त्वं त्विति । चिण्णमुलोर्दीर्घपक्षे चरितार्थमित्यन्वयः । ननु तत्रापि क्राथेति निपातनाद्वृद्धिरित्यत आह — निपातनात्परत्वादिति ।क्राथे॑ति निपातनापेक्षयाचिण्णमुलो॑रित्यस्य परत्वादित्यर्थः । यद्यपि "मितां ह्यस्वः" इत्यपि परन्तथापि पुरस्तादपवादन्यायेन क्राथेतिवृद्धिनिपातनं "मितां ह्यस्वः" इत्यस्यैवाऽव्यवहितस्य बाधकं, नतुचिण्णमुलो॑रित्यस्यापि, तस्य व्यवहितत्वादिति बोध्यम् । अक्रथि — अक्राथीति । क्रथेण्र्यन्ताच्चिणि दीर्घविकल्पः । क्रथंक्रथं क्राथंक्राथमिति । णमुलि दीर्गविकल्पः । वन चेति । चकारो हिंसानुकर्षकः । तदाह — -हिंसायामितीति । वन शब्दे, वन संभक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवादः । वनति । णौ तु — वनयति । णमुलि तु वनंवनं वानंवानम् । वनु च नोच्यते इति । "कगे नोच्यते" इति वद्व्याख्येयम् । नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोनुवाद इति सिद्धान्तात्तनादौ "वनु याचने" इति पठितस्य अनुदात्तेतोऽनुवादात्क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम्, उप्रत्ययश्च स्यादित्यत आह — अपूर्व एवायमिति । उदित्करणेति । यदि तानादिकस्यैव अत्रानुवादः स्यात्तर्हि तनादिगणे "वनु" ति कृतेन उदित्करणेनैवउदितो वे॑त्याद्युदित्कार्यस्य सिद्धेरिह गणे पुनरुदित्करणमनर्थकं स्यात् । अतस्तानादिकस्य नात्रानुवादः, किं त्वपूर्व एवायं वनुधातुः । तथाचवनती॑ति परस्मैपदं, शब्विकरणं चेत्याह — तेन क्रियासामान्ये वनतीत्यादीति । आदिना वनतः वन्नतीत्यादिसङ्ग्रहः । प्रवनयतीति । घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्ध्रस्वः । वक्ष्यत इति ।ग्लास्नावनुवमां चे॑त्यनेने॑ति शेषः । तानादिकात्तु वनु याचने इत्यस्माण्णिचि उपधादीर्घेवानयती॑त्येव भवति । ज्वल दीप्तौ । मप्रत्ययार्थमिति ।ज्वलितिकसन्तेभ्यो णः॑ इति णप्रत्ययार्थं ज्वलादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः । ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ ह्यस्वं प्रयोजनमाह — प्रज्वलयतीति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति बोध्यम् । स्मृ आध्याने । चिन्तायामिति ।स्मृ चिन्ताया॑मिति पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवाद इत्यर्थः । चिन्ताया आद्यानमन्यदिति दर्शयितुमाह — आध्यानमुत्कण्ठेति । दृ भये इति । अस्य दृणातीति रूपं,न तु शप् । तदाह — मित्वार्थोऽनुवाद इति ।भयेऽर्थे मित्त्वार्थ॑मिति शेषः । अर्थनिर्देशस्य उपलक्षणत्वाद्भये वृत्तिः । तथाच ऋयादित्वात् श्नविकरण एवायमिति भावः । मित्त्वप्रयोजनं दर्शयति — दरयतीति । भीषयतीत्यर्थः । दारयतीति । भेदयतीत्यर्थः । धात्वन्तरमेवेति । नतु क्रयादेरनुवाद इत्यर्थः । अस्मिन्मते भौवादिकत्वाच्छबेवेत्याह — दरतीत्यादीति । सूत्रे चेति ।अत्स्मृद्दृत्वरप्रथम्दस्तृस्पशा॑मित अत्वविधावित्यर्थः । ह्यस्वं पठन्तीति । तन्मते क्र्यादेरनुवादप्रसिक्तिरेव नास्तीति भावः । तन्नेतीति । यदि ह्रयं घटादौ ह्यस्वान्तः, क्र्यादौ तु दीर्घान्तो भवेत्तर्हिशृदृप्रां ह्यस्वो वे॑त्यत्र दृग्रहणमनर्थकं स्यात् । ह्यस्वदीर्घान्तधातुभ्यामेव तत्फलसिद्धेरिति भावः । नृ नये इति । नयः — नयनम् । क्र्यादिष्विति । "नृ नये" इत्येव क्र्यादिषु पठते । तत्रार्थनिर्देशो न विवक्षितः । क्र्यादिषु पठिष्यमाणस्य नृधातोर्नयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । तथा च श्नविकरण एवायम् । नृणातेर्धातत्वन्तरत्वाऽभावान्न मित्त्वतदभावौ । अपि तु नित्यमेव मित्त्वम् । श्रा पाके इति । नन्वत्र भ्वादौ पठमानाच्छ्रायतेः, उत्तरत्र अदादौ पठिष्यमाणाच्च श्रान्तेरन्य एव यदि कश्चन स्वतन्त्रो धातुर्घटादौ निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूपसंपत्त्या लुग्विकरणस्थेन "श्रा पाके" इत्यनेन पौनरुक्त्यमित्यत आह — श्रै इतीति । अग्रे भ्वादिगणे "श्रै पाके" इति पठिष्यते, तस्य कृतात्वस्यानुकरणमित्यन्वयः । तथाच तस्यैव श्रैधातोरनेकार्थकतया पाके वृत्तस्य मित्त्वार्थमत्रानिवादाच्छपि श्रायतीत्यादि रूपम् । एतच्च "शृतं पाके" इति सूत्रे भाष्येकैयटयोः स्थितम् । एवं चसति संभवेऽन्यत्र पठितनामिह मित्त्वार्थोऽनुवाद॑ इति सिद्धान्तादग्रे भ्वादौ "श्रै पाके" इत्यस्य पौनरक्त्यं न शङ्क्यम् । नन्वेवं सति "श्रै पाके" इत्येवात्र कुतो न पठितमित्यत आह — श्रा इत्यादादकस्य चेति । ननु लाक्षणिकत्वात् " श्रै पाके" इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यत इत्यत आह — लुग्विकरणेत्यादि, परिभाषाब्यामित्यन्तम् । परिभाषाभ्यामुभयोरनुकरणमित्यन्वयः ।स्वरतिसूयती॑ति सूत्रे "सू" इति पठितेऽपि द्वयोग्र्रहणे सिद्धे सूतिसूयत्योः पृथग्ग्रहणंलुग्विकरणे॑ति परिभाषां ज्ञापयतीत्याहुः । प्रतिपदोक्तपरिभाषा तु न्यायसिद्धेत्युक्तमेव । श्रपयतीति । श्रैधातोर्णिचि "आदेच उपदेशे" इत्यात्वेअर्तिह्यी॑ति पुकिमितां ह्यस्वः॑ । श्राधातोस्तु स्वत एवाऽ‌ऽदन्तत्वाण्णिचि पुकि ह्यस्वः । पाकादन्यत्रेति । अर्थनिर्देशस्योपलक्षणत्वादिति भावः । मारणति । मारणे तोषणे निशामने च ज्ञाधातुर्वर्तत इत्यर्थः । अक्षतस्य मारमे संपूर्वकस्यैव ज्ञाधातोः प्रयोगः । चाक्षुषज्ञानमिति । निपूर्वकाच्छम आलोचने इत्यस्माच्चौरादिकण्यन्ताल्ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः । ज्ञापनमात्रमिति । उपसर्गवशादिह ज्ञापने वृत्तिः, चाक्षुषत्वं च ज्ञानस्य यन विवक्षतमिति भावः । निशानेष्विति ।मराणतोषणनिशामनेषु ज्ञे॑ति पाठान्तरमित्यर्थः । ननु ज्ञाधातोरस्माल्लडादौ शपिज्ञाजनोर्जे॑ति जादेशे जाति जात इत्यादि स्यादित्यत आह — एष्वेवेति । "ज्ञा अवबोधने" इति श्नविकरणस्यैव मारणादिष्वर्थेषु णौ मित्त्वार्थमिहानुवादात् श्नविकरण एवायमिति भावः । जानातेर्मित्त्वफलं तु णौ ह्यस्वः — पशुं संज्ञपयति॑ । अक्षतं मारयतीत्यर्थः ।हरिं ज्ञपयति॑ । संतोषयीत्यर्थः ।रूपं ज्ञपयति॑ । माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः ।शरं ज्ञपयति॑ । तीक्ष्णीकरोतीत्यर्थः । ननु माधवमते बोधयतीत्यर्थे ज्ञपयतीति कथं मित्त्वम्, तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह — -ज्ञप मिच्चेति चुरादाविति । एवं च चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति ह्यस्वः सङ्गच्छते इति भावः । शृण्विति ।उत्तर॑मिति शेषः । मित्त्वाऽभावादिति ।ह्यस्वो ने॑ति शेषः ।विज्ञापने॑त्यत्रतज्ज्ञापयती॑त्यत्र च अचाक्षुषमेवाऽ‌ऽत्मज्ञानं विवक्षितमिति भावः । ननुज्ञापनमात्रे मित्त्व॑मिति मतेविज्ञापने॑त्यत्रतज्ज्ञापयती॑त्यत्र च मित्त्वं दुर्वारमित्यत आह — -ज्ञापनमात्रे इति । चौरादिकस्येति ।विज्ञापनेति ज्ञापयतीति च रूप॑मिति शेषः । "नान्ये मितोऽहेतौ" इति निषेधान्न तस्य मित्त्वमिति भावः । ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह — धातूनामिति । न कापीति ।विज्ञापने॑त्यत्र,ज्ञापयती॑त्यत्र च ज्ञापनार्थवृत्तित्वाज्ज्ञापनस्य च मारणतोषणतीक्ष्णीकरणान्यत्वान्न तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः । एवं च माधवमते बोधने ज्ञाधातोज्र्ञापयतीत्युपधादीर्घः । ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्यस्व इति रूपद्वयमपि साध्विति स्थितम् । कम्पने चलिरिति । इका निर्देशोऽयम् । चलधातुः कम्पने मिदित्यर्थः । ज्वलादिरिति । तस्य चलेः कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः । शीलं चालयीति । अत्र कम्पनार्थकत्वाऽभावान्न मित्त्वमिति भावः । तदाह — अन्यथा करोतीत्यर्थ इति । धातूनामनेकर्थत्वादिति भावः । छदिरूर्जने इति । इका निर्देशोऽयम् । छदधातुरूर्चजने मिदित्यर्थः । ऊर्जनं — बलवत्करणं, प्राणनं वा,ऊर्ज बलप्राणनयो॑रित्युक्तेः । अन्यत्र पठितस्यात्रार्थविशेषे णौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः । छदधातुस्त्वयं चुराद्यन्तर्गणे युजादौ पठितः । तस्याऽत्रानुवादो व्यर्थः,नान्ये मितोऽहेता॑वित ज्ञापादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्त्वनिषेधादित्यत आह — छद अपवारणे इति । चुराद्यन्तर्गणयुजादिपठितस्य "आ धृषाद्धे" ति स्वार्थिकणिजभावपक्षे ऊर्जनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । [हेतुमण्णिचीतियावत्] । स्वार्थिकणिचि सत्येव "नान्ये मित" इति निषेधप्रवृत्तिरिति भावः । नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिरित्यत आह — अनेकार्थत्वादिति । नु स्वार्थणिजभावे सति मित्त्वं किमर्थमित्यत आह — छदयतीति । अत्र हेतुमण्णिचि ह्यस्वः । "नान्ये मित" इति निषेधस्तु हेतुमण्णिचि नेति भावः । अन्यत्रेति । ऊर्जनादन्यत्र अपवारणे इत्यर्थ- । स्वार्थे णिचि त्विति । "नान्ये मितः" इति निषेधस्य तत्र प्रवृत्तेरिति भावः । जिह्वोन्मथने लडिरिति । इका निर्देशोऽयम् । लडधातुर्जिह्वोन्मथने मिदित्यर्थः । लडेति । "लड विलासे" इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । एवं च धातुभेदाऽभावात्सर्वथैव मित्त्वकार्यं भवति । गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । लडयति जिह्वामिति । रसनां रसान् ज्ञापयतीत्यर्थः ।गतिबुद्धी॑ति द्विकर्मकोऽयम् । लडयति जिह्वयेति । देवदत्तो रसान् जानाति, तज्जिह्वया ज्ञापयतीत्यर्थः । तद्व्यापार इति । शब्दप्रयोगादिजह्वाव्यापार इत्यर्थः । समाहारेति । जिह्वा च उन्मथनं चेति समाहारद्वन्द्वः । जिह्वाव्यापारे उदाहरति — लडयति शत्रुमिति । "गेहेशूर" इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः ।उन्मथनं लोडन॑मित्यभिप्रेत्योदाहरति — लडयति दधीति । विलोडयतीत्यर्थः । अन्यत्रेति । जिह्वोन्मथनादन्यत्रेत्यर्थः । लाडयति पुत्रमिति । क्रीरडयतीत्यर्थः । ग्लेपनं दैन्यमिति । दीनीभवनमित्यर्थः । ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह — दैवादिकस्येति । तथा च श्यन्विकरण एवाऽयमिति भावः । ध्वन शब्दे इति । पूर्वमनुनासिकान्तेषुअण रणे॑त्यत्र ध्वणधातुर्मूर्धन्यान्तः पठितः, अयं तु दन्त्यान्त इति भेदः । भावीति । ज्वलादौ "ध्वन शब्दे" इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः । धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः । ध्वनयति घण्टामिति । शब्दायमानां करोतीत्यर्थः । अन्यत्रेति अस्पष्टोच्चारणात्मके शब्दने इत्यर्थः । अत्रेति ।घटादा॑वित्यर्थः । तत्रेति । दलिवल्यादिष्वित्यर्थः । उदाह्मताविति ।घटादा॑विति शेषः । तत्र ध्वनिरनुपदमेवोदाह#ऋतः ।रणिस्तुकण रण गता॑वित्यत्रेति बोध्यम् । भोजमते प्रागनयोःपाठो नेति न पौनरुक्त्यम् । गता इति । भ्वादौ पठिता इत्यर्थः ।इह मित्त्वार्थमनूद्यन्ते॑ इति शेषः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । ननु क्षपेरत्र पाठान्मित्त्वे णौ ह्यस्वेक्षपयती॑ति वक्ष्यति । अस्त्वेवम्, तथापि "क्षै क्षये" इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात्, क्षैधातोः क्षपीत्यनुवादाऽसंभवात् । तत्राह — - क्षै इत्यादि । णौ आत्वे पुकि मित्त्वाद्ध्रस्वे सति क्षपीति क्षै इत्यस्यानुवादसंभव इति भावः । स्वन अवतंसने इति । अवतंसनम् — -अलङ्कृतिः । पठिष्यमाणस्येति । घटादिगणादूध्र्वं "स्वन शब्दे" इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णौ मित्त्वार्थोषऽत्रानुवाद इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । घटादयो मित इति । गणसूत्रम् । ननु घटादिषु मकारानुबन्दाऽदर्शनात्कथं मितस्ते स्युरित्यत आह — मित्संज्ञका इति । मित्कार्यभाज इत्यर्थः । जनीजृषिति । गणसूत्रम् । जनी जृष् क्नसु रञ्ज् एषां द्वन्द्वात्प्रथमाबहुवचनम् । अम् अन्ते येषां ते अमन्ताः — क्रिमिगम्यादयः । एते अघटादित्वेऽपि मित इत्यर्थः । जीर्यतेरिति । "जृष् वयौहानौ" इति श्यन्विकरणस्येत्यर्थः । जृणातेस्त्वति । "जृ वयोहानौ" इति श्नविकरणस्य षित्त्वाऽभावेनात्र ग्रहणाऽभावान्न मित्त्वमिति भावः । उदाहरन्ति । तन्मते जृणातेरप मित्त्वमिति भावः । ज्वलह्वलेत्यपि गणसूत्रम् । प्राप्तविभाषेयमिति । ज्वहह्वलहृलां घटादित्वान्नमेर्मान्तत्वाच्च मित्त्वस्य प्राप्तेरिति भावः । उपसृष्टे त्विति । सोपसर्गे त्वित्यर्थः । कथं तर्हीति । रानुपसर्गादिति विशेषणे सति ज्वलेर्नमेश्च णौ मित्त्वविकल्पाऽभावाज्जनीजृषिति मित्त्वाद्ध्रस्वो नित्यः स्यादित्याक्षेपः । समाधत्ते — घञन्तादिति । तत्करोतीति णावित्यनन्तरंसमाधेय॑मिति शेषः । प्रज्वलनं प्रज्वालः । उन्नमनम् उन्नामः । भावे घञ् । उपधावृद्धिः । प्रज्वालं करोतीति, उन्नामं करोतीति चार्थे "तत्करोति तदाचष्टे" इति णिचिणाविष्ठव॑दितीष्ठवत्त्वाट्टिलोपे सति तस्य स्थानिवत्त्वान्मित्त्वप्रयुक्तह्यस्वाऽभावे प्रज्वालि उन्नामीत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूपं इति भावः । ननु संपूर्वात्क्रमेर्णौ संक्रामयतीति रूपमिष्यते, तत्र अमन्तत्वेन मित्त्वाद्ध्रस्वप्रसङ्गः । नच क्रमणं क्राम इति घञन्तात्ततत्करोतीति णावुक्तरीत्या ह्यस्वाऽभाव इति कृत्वा समाधानं संभवति, क्रमेर्घञि हिनोदात्तोपदेशस्ये॑ति वृद्धिप्रतिषेधे सति "क्रम" इत्येव भवति, नतु "क्राम" इति कृत्वा उक्तसमाधानाऽसंभवादित्यप्रेत्याक्षिपति — - कथमिति । समाधत्ते — मितामिति । "मितां ह्यस्वः" इति सूत्रे वेत्यनुवर्त्त्य मित्त्वाऽभावे संक्रामयतीति रूपमित्यन्वयः । ननु कदाचिद्ध्रस्वो दुर्वार इत्यत आह — व्यवस्थितेति । तथा चात्र ह्यस्वाऽभाव एवाश्रीयत इति भावः । वृत्तिकृदिति । भाष्ये तु नैतत् दृश्यते इति भावः । एतेनेति । व्यवस्थितविभाषाश्रयणेनेत्यर्थः ।ग्लास्नावनुवमां चे॑ त्यपि गणसूत्रम् । प्रथमार्थे षष्ठी । अनुपसर्गादिति, मित इति, वेति चानुवर्तते । फलितमाह — अनुपसर्गादिति । आद्ययोरिति । ग्ला स्ना इत्यनयोरघटादित्वादप्राप्ते मित्त्वे, इतरयोर्वनुवमोः प्राप्ते मित्त्वे विभाषेत्यर्थः । तत्र वनेः "वनु च नोच्यते" इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् ।न कम्यमिचमा॑मिति "शमो दर्शने" इति च गणसूत्रम् । दर्शनं — चाक्षुषज्ञानम् । "शम उपशमे" इति दैवादिकः श्यन्विकरणः एवात्र गृह्रते नतु "शम आलोचने" इति चौरादिकः, "नान्ये मितोऽहेतौ" इति तस्य मित्त्वनिषेधात् । तद#आह — शाम्यतिरिति । निशामयति रूपमिति । पश्यतीत्यर्थः । उपशमार्थकस्यापि अनेकार्थत्वाद्दर्शने वृत्तिः । अन्यत्रेति । दर्शनादन्यत्रेत्यर्थः । निशमय्येति । श्रावयित्वेत्यर्थः । शमेण्र्यन्तात् क्त्वो ल्यपि कृतेल्यपि लघुपूर्वा॑दिति णेरयादेशः । कथमिति । तर्हि — तर्हि — दर्शनार्थकस्यैव शमेर्मित्त्वनिषेधे सति, "शृणु" इत्यर्थे मित्त्वाद्ध्रस्वप्रसङ्गन्निशामयेति कथमित्याक्षेपः । समाधत्ते — - चौरादिकस्येति ।निशामयेति रूप॑मिति शेषः ।नान्ये मितोऽहेता॑विति तस्य मित्त्वनिषेधान्न ह्यस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात्कथं श्रवणे वृत्तिरित्यत आह — धातूनामिति । साम्यतिवदिति । श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शन वृत्तिस्तद्वदित्यर्थः । "यमऽपरिवेषणे" इत्यपि गणसूत्रम् । भोजनपात्रे ओदनाऽपूपादिभोज्यद्रव्याणां स्थापवनं परिवेषणम् । तदाह — भोजनातोऽन्यत्रेति । भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः । आयामयतीति । अत्राऽपरिवेषणे वृत्तेर्न मित्त्वमिति भावः । तदाह — द्राघयतीति । दीर्घीकरोतीत्यर्थः । व्यापारयतीति । प्रवर्तयतीत्यर्थः । यमयति ब्राआहृणानिति । परिवेषमार्थकत्वान्मत्त्वमिति भावः । तदाह — भोजयतीति । भुञ्जते ब्राआह्मणाः, तान्परिवेषणेन प्रवर्तयतीत्यर्थः । ननुपर्यवसितं नियमय॑न्नित्यत्र अपरिवेषणार्थकतया मित्त्वाऽभावात्कथं ह्यस्व इत्यत आह — पर्यवसितमित्यादि । नियमनं नियमः ।यमः समुपनिविषुचे॑ति भावेऽप्प्रत्ययः । तस्मान्मतुप् । नियमवच्छब्दात्तकरोतीति णिचिवन्मतोर्लु॑गिति मतुपो लुकि ण्यन्ताल्लटश्शतरिगुणाऽयमादेशयोर्नियमयच्छब्द इति भावः । वस्तुतस्तु मतुपो लुकि टिलोपस्याऽप्राप्त्याअचो ञ्णिती॑ति वृद्धौ पुगागमापत्तिः । ततश्च नियमवदित्यर्थकादर्शाअद्यजन्तान्नियमशब्दात्तत्करोती॑ति णिचि इष्ठवत्त्वाट्टिलोपे तस्य स्थानिवत्त्वादुपधावृद्ध्यभावेनियमय॑न्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् । स्खदिरवपरिभ्यां चेत्यपि गणसूत्रम् । स्खदिरिति इका निर्देशः । अव परि-आभ्यां परः स्खदधातुर्मिन्नेत्यर्थः । स्खद स्खदने इति घटादौ पाठान्मित्त्वप्राप्तिः । परिस्खादयतीति । अषोपदेशत्वेन आदेशसकारत्रापि मित्त्वाऽभावान्न ह्यस्वः । स्वामी त्विति । "न कम्मिचमा" मित्यत्र श्रुतो नञ् "शमो दर्शने" "यमोऽपरिवेषणे"स्खदिरवपरिभ्यां चे॑ति त्रिषु सूत्रेषु नानुवर्तते । शमः — अदर्सने इति च्छेदः । शमधातुर्दर्शने मित्स्यादित्यर्थः । अमन्तत्वादेव सिद्ध#ए नियमार्थमिदम् ।अदर्शन एव शमधातुर्मित्स्यान्नतु दर्शने॑ इति स्वाभिमतम् । इदं च पर्यवसानगत्या पूर्वमतान्नाऽतिरिच्यते । यमस्त्विति । यमदातोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः । अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्भिन्न तु परिवेषण इति फलति । एवं च द्राघयति व्यापारयति वेत्यर्थे मित्तवाद्ध्रस्वेआयमयती॑त्येव रूपम् । परिवेषणे तु मित्त्वाऽभावाद्ध्रस्वाऽभावेयामयति ब्राआहृणा॑निति भवतीति पूर्वमताद्विपरीतं फलति । एवं चपर्यवसितं नियमय॑न्नित्यत्र यमेरपरवेषणार्थत्वान्मित्त्वे ह्यस्वो निर्बाधः । तदाह — तन्मते इति । स्खदेर्घटादित्वादेव मित्त्वसिद्धेःस्खदिरवपरिभ्यां चे॑ति सूत्रमपि नियमार्थम् ।सोपसर्गस्य चेत्स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूपसर्गान्तरा॑दिति । एवं च प्रस्खादयतीत्यत्र मित्त्वाऽभावान्न ह्यस्वः । अवस्खदयति परिस्खदयतीत्यत्र तु मित्त्वाद्ध्रस्व इति फलति । तदाह — उपसृष्टस्येति । सोपसर्गस्येत्यर्थः । पूर्वमते तु अवपरिभ्यां परस्य मित्वनिषेधादवस्खादयति परिस्खादयतीति न ह्यस्वः । प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाऽभावेन मित्त्वनिषेधाऽभावाद्ध्रस्व इति विपरीतम् । तस्मादिति ।यमोऽपरिवेषणे॑,स्खदिरवपरिभ्यां चे॑ति सूत्रद्वये उक्तरीत्या मित्त्वनियमविध्याश्रयणादुदाहरणप्रत्युदाहरणयोरुक्तरीत्या व्यत्यासः फलित इत्यर्थः । उपेक्ष्यमिति ।न पादम्या॑ङिति सूत्रव्याख्यावसरेयमोऽपरिवेषणे इति मित्त्वं प्रतिषिध्यत॑ इति वृत्तिन्यासयोरुक्तत्वादिति भावः । केच्चित्तु स्वामिमते "पर्यवसितं नियमय" न्नित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः । फण गताविति । ननु घटादित्वेऽपि नायं मित्, इतः प्राक् "स्वन अवतंसने" इत्युत्तरमेव "घटादयो मित" इत्युक्तेः । अतः कथमत्र निषेधः । तत्राह — नेति निवृत्तमिति । प्राप्त विना मित्त्वस्य निषेधाऽसंभवादिह नेति नानुवर्तते, किंतु मिदित्येवानुवर्तते इत्यर्थः । ननु फम गतावित्यत्र मिन्नेति यदि नानुवर्तते । "घ्वसोः" इत्यत एदिति, "गमहने" त्यतः कितीति,वा जृभ्रमुत्रसा॑मित्यतो वेति च । तदाह — एषामिति । फणादीनामित्यर्थः । फणामिति बहुवचनात्तदादिलाभः । "फण गतौ" इत्यत्र मिदित्येवानुवर्तते, नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह — फणयतीति । वृदिति — कर्तरि क्विबन्तम् । वृतुधातुरिह समाप्त्यर्थकः । तदाह — घटादिः समाप्त इति । फणेः प्रागेवेति । एवं सति फणेरघटादित्वान्न मित्त्वमित#इ भावः । तदाह — तन्मते फणयतीत्येवेति । इति घटादयः । राजृ दीप्ताविति । इत आरभ्य षण्णामेत्त्वाऽभ्यासलोपौ फणादित्वात्पक्षे भवतः । तदाह — रेजतुरित्यादि । ननुफमां च सप्ताना॑मित्यत्र अत इत्यनुवृत्तेः कथमिह एत्त्वाभ्यासलोपावित्यत आह — अत इत्यनुवृत्तावपिति । अत इति नानुवर्तते । तदनुवृत्तावपि फणादिसप्तानामपि वचनसामथ्र्याद्राजृधातोराकारस्याप्येत्त्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः । "अत" इति राजादिधातौ न संबध्यते, असंभवादिति यावत् । टु भ्राजृ इत्यादि । टुरित् "ट्वितोऽथुच्" इत्येतदर्थः । अनुदात्तेत इति । "एते त्रय" इति शेषः । ननु पूर्वं चवर्गान्तेष्वनुदात्तेत्सु भ्राजतेः पठात्पुनरपि तस्येह पाठः किमर्थ इत्यत आह — भ्राजतेरिति । तर्हिएजृ भ्रेजृ भ्राजृ दीप्तौ॑ इति भ्राजेः पूर्वं पाठो व्यर्थ इत्यत आह — पूर्वं पाठस्त्विति । षत्वाऽभावार्थ इति । "व्रश्चभ्रस्जे" ति षत्वविधौ भ्राजेग्र्रहणाऽभावार्थ इत्यर्थः । ननु पूर्वं पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत आह — तत्र हीति । षत्वविधौ हीत्यर्थः । एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह — भ्रेजे बभ्राजे इति । द्वावपीमाविति । द्वितीयतृतीयावित्यर्थः । ननु "विष्वणती" इत्यत्र कथं षत्वं केवलदन्त्याऽजन्तसादित्वाऽभावेनाऽषोपदेशतया आदेशसकारत्वाऽभावात् । अवष्वणतीत्यत्र इण्कवर्गाभ्यां परत्वाऽभावान्न षत्वस्य प्रसक्तिः ।सात्पदाद्यो॑रिति निषेधाच्चेत्यत आह — वेश्च स्वन इतीति । तत्र चकारेणअवाच्चे॑त्यपि लभ्यत इति भावः । फणादयो गता इति ।ध्वनतेः प्रा॑गिति शेषः । ततश्च ध्वनेर्न फणादिकार्यमिति भावः । तदाह — दध्वनतुरिति । षम ष्टमेति । षोपदेशौ ।तस्तामेति । सत्वे सति ष्टुत्वनिवृत्तिरिति भावः । तैक्ष्ण्यमिति । तीक्ष्णीभवनमित्यर्थः । टल ट्वल । वैक्लव्यं — भयादिजनितो व्यग्रीभावः । णल । णोपदेशोऽयम् । गन्धः — - गन्धक्रिया । तद्व्यापार इति बन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः । पत्लृधातुस्तवर्गप्रथमान्तः सेट्कः । लुङि लृदित्त्वाच्च्लेरङि कृते अपत् अ त् इति स्थिते — पतः पुम् । शेषपूरणेन सूत्रं व्याचष्टे — अङि परे इति ।ऋदृशोऽङी॑इत्यतस्तदनुवृत्तेरिति भावः । पतेः पुम् स्यादङि परे इति फलितम् । पुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । तदाह — अपप्तदिति । क्वथे । जलक्षीरघृतादीनां पादमुदित् । तेनउदितो वे॑ति क्त्वायामिड्विकल्पो न । "गृ निगरणे" इति दीर्घान्तोऽयम् । नन्वस्माद्धातोर्ल्युटि "ऋत इद्धातोः" इति इत्त्वं बाधित्वा परत्वात् "सार्वधातुके" इति गुणे सति "उद्गरण" इत्येव निर्देशो युज्यत इत्यत आह — इहैवेति । "उद्गिरणे" इत्यर्थनिर्देशः पाणिनीय इति सुधाकरो मन्यते । भ्रमु चलने इति । वक्रमार्गसंचारे इत्यर्थः । अयथार्थज्ञानेऽप्ययम् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थमुदित्त्वम् ।
व्यथो लिटि - व्यथो लिटि । हलादिः शेषापवाद इति । हलादिः शेषप्रक्रमणादिति भावः । एवं चउत्सर्गसदेशश्चापवादःर॑ इति परस्यैव संप्रसारणं भवति न पूर्वस्येति कैयटाद्युक्त्यान संप्रसारणे॑ इति निषेदोऽत्र नापेक्षितः । केचित्तु हलादिः शेषेण यकारनिवृत्तावपि वकारस्य सत्त्वात्सूत्रमिदं सावकाशमित्यपवादत्वं न संभवतीति मत्वासंप्रसारणं तदाश्रयं च कार्यं बलव॑दिति वचनाद्धलादिःशेषं बाधित्वा परस्य संप्रसारणे पूर्वस्य निषेधः ।संप्रसारणं तदाश्रयं चे॑ति वचनाऽभावे तुव्यथो लिटी॑ति संप्रसारणस्य धातुविशेषप्रत्ययविशेषाश्रयत्वेन,इग्यण॑ इति संज्ञाविशेषद्वयाश्रयत्वेन च बह्वपेक्षस्य बहिरङ्गत्वात्संप्रसारणं बाधित्वा हलादिः शेषे जाते वकारस्य संप्रसारणं स्यादित्याहुः । थस्येति । संप्रसारणस्याऽभ्यासान्तर्गतयकारनिवृत्तेरपवादत्वं न तु थकारनिवृत्तेरिति भावः । लिटीति किम् । विव्यथिषते । इहसन्यतः॑ इति इत्त्वम् । वाव्यथ्यते । वाव्यथीति । क्रप कृपायां गतौ । चकाराभावेऽपीहार्थद्वयमित्येव बोध्यमित्याहुः । कदि क्रदि । क्रन्दयति । क्रन्दयति । अक्रन्दि । अक्रान्दि । क्रन्दंक्रन्दम् । क्रान्दंकान्दम् । ञित्वरा । आदित्त्वमिह व्यर्थम्, ह्यस्वोच्चारणेन#आप्यात्मनेपदसिद्धेः । न च निष्ठायाम्आदितश्च॑ इतीद्प्रतिषेधार्थमिति शङ्क्यम् ।रुष्यमत्वरे॑ति निष्ठायामिटो विकल्पितत्वात् । तूर्णः । त्वरितः । ज्वर रोगे । णौ- ज्वरयति । अज्वरि । अज्वारि । ज्वरं ज्वरम् । ज्वारंज्वारम् । गड सेचने । णौ गडयति । अगडि । अगाडि । गडंगडांगाडंगाडम् । एवमन्यत्राप्यूह्रम् । हेड वेष्टने । उत्सृष्टानुबन्ध इति । तेन वेष्टनेनाग्लोपी॑ति निषेधशङ्कैव नास्तीति भावः । णोपदेश एवेति । प्रणटति । प्रणटयति ।नाटी॑त्यस्य तु प्रनाटयति । वृद्धिर्निपात्यत इति । तेनमितां ह्यस्व॑ इति न प्रवर्तत इति भावः । निपातनात्परत्वादिति । निपातनविषयीभूतमितां ह्यस्व॑ इत्यस्मात्परत्वात् ।मितां ह्यस्वः॑ इत्येतदेव निपातनेन बाध्यते न तु ततः परंचिण्णमुलो॑रित्येतदित्यर्थः । वन च । संभक्तौ पठितस्य हिंसायां मित्त्वार्थोऽनुवादः । वनति । णौ — वनयति । अवनि । अवानि । वनंवनम् । वानंवानम् । तानादिकस्येति । वनु याचन इत्यस्येत्यर्थः । सामथ्र्यादिति । अनुवादे तु तत्र कृतेनोदित्त्वेन क्त्वायामिड्वकल्पस्य, निष्ठायामिट्प्रतिषेधस्य च सिद्धेः पुनरिदित्करणं व्य्रथं स्यादिति भावः । वनतीत्यादीति । णौ — वनयति । तानादिकस्य तु — वनुते । वानयति । मित्त्वविकल्प इति ।ग्लास्नावनुवमां चे॑ति गणसूत्रेण । णप्रत्ययार्थमिति ।ज्वलितिकसन्तेभ्यो णः॑ इति ज्वलादिभ्यो णप्रत्ययार्थम् । द भये । धातोरनेकार्थत्वाद्भ्यार्थकत्वम् । दृणाति । दरयति । तन्नेतीति । माधवस्यायमाशयः — सूत्रे दीर्घान्त एव पाठः सर्वसंमतः । घटादावपि दीर्घान्त एव सर्वैः पठते । यद्ययं ह्यस्वान्तो भवेत्तर्हिशृदृप्रां ह्यस्वो वे॑ति ह्यस्वविकल्पविधायके सूत्रे दृग्रहणमनर्थकं स्यात् । धातुद्वयेन दद्रतुः ददरतुरिति रूपद्वयसिद्धः । न चदृ विदारणे॑ इत्यस्य रूपद्वयलाभार्तं दृग्रहणमावश्यकमिति वाच्यं, धातूनामनेकार्थत्वात्समीहितसिद्धेरिति । नृ नये । नृणाति । नरयति । अनरि । अनारि । नरंनरं । नारंनारम् । श्रै इतीति । अयं हि वक्ष्यमाणो भौवादिकः । लुग्विकरणेति । अत्र व्याचक्षते — -॒स्वरतिसूती॑ति सूत्रेसूङ॑ इति पठितेपि द्वयोग्र्रहणे सिद्धे सूतिसूयत्योः पृथग्ग्रहणं व्यर्थं सदिमां परिभाषां ज्ञापयति । नन्वलुग्विकरणं बलीय इति वैपरीत्यं किं न स्यादिति शङ्क्यम्, इष्टानुरोधात् ।सूङ॑ इति पठिते स्वरतिसाहचर्यादलुग्विकरणस्यैव ग्रहणं स्यान्न तूभयोरित्यपि न शङ्क्यं, साहचर्यस्याऽनत्यत्वात् । तस्मात्पृथग्ग्रहणं व्यर्थं सज्ज्ञापकमेवेति । परिभाषाभ्यामिति । यद्यप्युक्तपरिभाषयोः परस्परविरोधेनाऽप्रवृत्तावपीष्टं सिध्यति, तथाप्यविशेषादुभयोः प्रवृत्तिरप्यत्र युक्तैवेति भावः । मारणतोषण ।निशामन॑ मित्यस्य शम आलोचन इत्यस्मान्निष्पन्नत्वादाह — - चाक्षुषं ज्ञानमिति । एष्वर्थेष्विति । पशुं संज्ञपयति । मारयतीत्यर्थः । विष्णुं विज्ञपयति । संतोषतीत्यर्थः । संज्ञपयति रूपम् । माधवमते — दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः । पर्ज्ञपयति शरम् । तीक्ष्णीकरोतीत्यर्थः । स्यादेतत् — -॒निशामनं ज्ञापनमात्र॑ मिति वदतां मते॒श्लाघह्नुङ्स्थे॑ति सूत्रेज्ञीप्स्यमानो बोधयितुमभिप्रेत॑ इति वृत्तिग्रन्थः सङ्गच्छतां नाम, माधवमते तु तद्ग्रन्थस्य का गतिरित्यत आह — ज्ञप मिच्चेति । ज्ञापनमिति । एवं च वृत्तिग्रन्थो माधवमतेऽपि सङ्गच्छत इति भावः । मारणादिकं चेति । एतच्च मतान्तराभिप्रायेणोक्तम् । चुरादिषु तुज्ञप मिच्च, अयं ज्ञाने ज्ञापने च वर्तते॑ इति वक्ष्यमाणत्वात् । कथमिति । ज्ञाधातोर्ज्ञपधातोश्च णौ मित्त्वाद्ध्रस्वेन भवितव्यमिति भावः । मित्त्वाऽभावादिति । एवं च बोधने ज्ञापयति , ज्ञपधातोस्तु ज्ञपयतीति रूपद्वयं माधवमते बोध्यम्॥ छदिरुर्जने ।ऊर्ज बलप्राणनयोः॑ । अत्र छदिर्मित् । चुराद्यन्तर्गणो यौजादिकः । स्वार्थे णिजभाव इति ।आधृषाद्वे॑ति वैकल्पिकत्वादिति भावः । लडयति । जिह्वामिति । जिह्वां ज्ञापयतीत्यर्थः । जिह्वयेति । जिह्वया पदार्थान्तरं ज्ञापयतीत्यर्थः । जिह्वाव्यापारे उदाहरणमाह — - लडयति शत्रुमिति । शत्रुमुद्दिश्य गालिदानादिकं [गालनादिकं] करोतीत्यर्थः । लडयति दधीति । उन्मध्नाति । विलोडयतीत्यर्थः । केचित्तु जिह्वाव्यापारे लडयति दधि, उन्मथने तु लडयति शत्रुमिति व्यत्यासेन योजयन्ति । लाडयति पुत्रमिति । शर्करादिदानेनाऽनुकूलयीत्यर्थः । ध्वनिरणी उदाह्मताविति । ध्वनिरव्यवधानेनोदाह्मतः, रणिस्तु अस्वानीति । अस्वनि । अस्वानि । स्वनंस्वनम् । स्वानंस्वानम् ।(ग) घटादयो [मितः] । मित्संज्ञा इत्यर्थ इति । अन्ये तु मकारानुबन्धा इति व्याचक्षते ।घटम् चेष्टाया॑मिति प्रत्येकं पाठे गौरवादेकत्रैव सर्वेषां मित्संज्ञा, मकारानुबन्धकत्वं वाऽनेन सूत्रेण विधीयत इति भावः । (ग) जनीजृष्क्नसुरञ्जोऽमन्ताश्च । जनीजृष् । जनी प्रादुर्भावे । जृष् वयोहानौ । क्नसु ह्वरणदीप्त्योः । त्रयोऽपि दिवादयः । रञ्ज रागे । दैवादिको भौवादिकश्च । अमन्ताः — क्रमिगमीत्यादयः । जनयति । जरयति । क्नसयति । रजयति । मृगान् । रञ्जयति पक्षिणः । क्रमयति । गमयति । रमयति ।(ग) ज्वलह्वहृलनमामनुपसर्गाद्वा । ज्वलह्वल । एषां मित्त्वमिति ।मित॑ इत्यनुवृत्तस्येह भाव प्रधानता,अनुपसर्गा॑दिति तु षष्ठर्थे पञ्चमीत्येवं क्लेशेन व्याख्येयमिति भावः ।नमोऽनुपसर्गाद्वे॑ ति पाठान्तरं, तत्र न कश्चित्क्लेशः । प्राप्तविभाषेति । ज्वल दीप्तौ, ह्वल हृल चलने इति त्रयाणां पूर्वपठितत्वात्, नमेस्त्वमन्तत्वादिति भावः । कथं संक्रामयतीति । क्रमेःनोदात्तोपदेशस्ये॑ति वृद्धिप्रतिषेधाद्धञिक्म॑ इत्येव भवति, न तुक्राम॑ इति पूर्वोक्कतसमाधानस्याऽत्राऽसंभवात्पृथक् प्रश्नः । व्यवस्थितविभाषेत्यादि । क्वचिण्णौ मितां ह्यस्वो न प्रवर्तत इति भावः । वृत्तिकृदिति । केचित्तु घञन्ताक्रमशब्दात्प्रज्ञाद्यणि क्रामशब्दं स्वीकृत्य तस्मात्तत्करोती॑ति णौ सङ्क्रामयतीति । समादधत इति भावः । इतरयोः प्राप्ते इति । वनेः पूर्वं पाठाद्वमेरमन्तत्वाच्चेति भावः । ग्लापयति । ग्लपयति । स्नापयति । स्नपयति । वानयति । वनयति । वामयति । वमयति । शाम्यतिवदिति । यथा शाम्यतिर्निशामयतीत्यादौ दर्शने प्रयुज्यते तथा चुरादिः शमधातुरपि, श्रवणे भविष्यतीत्यर्थः । (ग) यमोऽपरिवेषणे । यच्छतिरिति ।यम उपरमे॑ इत्यय#ं धातुर्भोजनातोऽन्यत्र । भोजनाशब्दोण्यासश्रन्तो यु॑ञिति युजन्तो ज्ञेयः । परिवेषणमिह भोजनानुकूलव्यापारस्ततोऽन्यस्मिन्नर्थे मिन्निषेधः । नियमयन्निति । नियमवच्छब्दाण्णिचि विन्मतोर्लुकि शतरि शप्प्रत्यये गुणे च ज्ञेयम् । व्यत्यासः फलित इति । स्वामिमते त्वपरिवेषणे — आयामयति । परिवेषणे तु — यमयति ब्राआहृणान् । अवादिपूर्वस्य (ग) स्खदिरवपरिभ्यां च । स्खदेः — अवस्खदयति । परिस्खदयति । प्रपूर्वस्य तु प्रस्खादयतीत्येवं व्यत्यासो ज्ञेयः । उपेक्ष्यमिति ।न पादम्या॑ङिति सूत्रेआयामयते॑ इत्युदाह्मत्य वृत्तावुक्तं — -यमोऽपरिवेषणे इत्यनेन मित्त्वं प्रतिषिध्यते॑ इति । न्यासेऽपितत्र न कम्यमीत्यतो नेत्यनुवर्तते॑ इत्युक्तम् । एवं हि निषेधानन्तरं पाठ उपपद्यते । अन्यथान कमी॑ त्यतः प्रागेव त्रिसूत्रीं पठेदिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.