छन्दसि, यजुषि, ऋचीति सर्व निवृत्तम्; तेन सामान्येनायं विधिः। `दो अवखण्डने` (धातुपाठः-1148), `षो अन्तकर्मणि` (धातुपाठः-1147)। `मा माने` (धातुपाठः-1062), `माङ माने` (धातुपाठः-1142), `मेङप्रणिदाने` (धातुपाठः-961)--`गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति त्रयाणामपि ग्रहणम्। `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928)। तत्राद्यस्य `दो दद्घोः`
7|4|46 इति दत्त्वे प्राप्ते शेषाणां `घुमास्था`
6|4|66 इत्यादिसूत्रेण ईत्त्वे प्राप्त इत्त्वं विधीयते॥ `अवदाय` इति। पूर्ववत्? क्त्वो ल्यप्। `अवदाता` इति। तृच्। द्यतिस्यतति श्तिपा निर्देशोऽयं यङलुग्निवृत्त्यर्थः। तेन तयोर्यथाप्राप्तमेव भवति--दादत्तः, दादत्तवान्, सासीतः, सासीतवान्। तपरकरणं मुखसुखार्थम्, न तु दीर्घनिवृत्त्यर्थम्। `भाव्यमानोऽण्? सवर्णान्न गृह्णाति` (व्या।प।35) इति दीर्घस्याप्राप्तेः॥