Page loading... Please wait.
7|4|11 - ऋच्छत्यॄताम्
॥ तस्मै पाणिनये नमः ॥
7|4|11
SK 2383
ऋच्छत्यॄताम्   🔊
सूत्रच्छेदः
ऋच्छत्यॄताम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ऋ̄कारान्तानां च लिटि परतो गुणो न भवति। ऋच्छ आनर्च्छ, आनर्च्छतुः, आनर्च्छुः। ऋ आरतुः, आरुः। ऋ̄कारान्तानाम् निचकरतुः, निचकरुः। निजगरतुः, निजगरुः। ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ऋ̄तां तु प्रतिषिद्धः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव इष्यते। निचकार। निजगार।
`ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु` (धातुपाठः-1296)। अत्र्तेरप्यत्र प्रश्लेषः; बहुवचननिर्देशात्। अत एवाह--`ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ऋकारान्तानां च` इति। ऋकारान्ताः--`कृ विक्षेपे` (धातुपाठः-1409), `गृ? निगरणे` (धातुपाठः-1410) इत्येमादयः। `आनच्र्छतुः, आनर्च्छुः` इत्यादि। अतुसुसौ, गुणः, द्विर्वचनम्, अभ्यासकार्यं पूर्ववत्, `अत आदेः` 7|4|70 इति दीर्घः, `तस्मान्नुड्? द्विहलः` 7|4|71 इति नुट्। `आरतुः` आरुः` इति। पूर्ववदभ्यासस्य दीर्घः, ततः पूर्वसवर्णेनेति। `ऋच्छतेरलघूपधत्वात्` इत्यादि। अलघूपघत्वं तु तस्यान्तरङ्गत्वात्। `छे च` 6|1|71 इति तुकि कृते `संयोगे गुरु` 1|4|11 इति गुरुसंज्ञायां सत्यां गुरूपधत्वान्न प्राप्नोतीति वेदितव्यम्। `ऋतां तु` इत्यादि। ऋ ऋतां तु प्रतिषिद्ध एवेति गुणो विधीयत इत्यपेक्ष्यते। गुणप्रतिषेधस्तु तेषां `असंयोगास्लिट्? कित्` 1|2|5 इति कित्त्वे सति `क्ङिति च` 1|1|5 इत्यनेन वेदितव्यः। `वृद्धिविषये तु` इत्यादि। यथा `ऋतश्च संयोगावेः` 7|4|10 इति वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते, तथा ऋऋतामपीति। गुणस्यावकाशः--निचकरतुः, निचकरुरिति; वृद्धेरवकाशः--कारकः, हारक इति; निचकार, निजगारेत्यत्र वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते॥
ठृच्छ गत्यादिषुऽ । अर्तेरप्यत्र प्रश्लेषः, यदाह--ऋ इत्येतस्येति । एतच्च बहुवचननिद्देशादवसीयते । ऋवर्णस्य ग्रहणं तु न भवति; ऋकारान्तानां पऋतग्ग्रहणात् । किमर्थ पुनरतिः प्रश्लिष्यते ? आरतुः, आरुरिति यथा स्यात् । अन्यथा ऋ अतुस्, ऋ उस् इति स्थिते द्विर्वचनम्, उरदत्वं च बाधित्वा वार्णत्वात्सवर्णदीर्घत्वम्; तत्र यद्यभ्यासग्रहणेन ग्रहणम्, उरदत्वं हलादिशेषः, ठत आदेःऽ इति दीर्घत्वम्, ठातो लोप इटि चऽ,---अतुरुरिति वचनमेव श्रूयेत । अथ धातुग्रहणेन ग्रहणम् ? तत ऋकारान्तत्वाद् गुणे कृते अरतुः, अरुरिति रूपं स्यात् । तथा क्वसौ गुणे कृते अरित्यस्य द्विर्वचनम्, हलादिशेषः, ठत आदेःऽ, सवर्णदीर्घत्वम्, ठ्वस्वेकाजाद्घसाम्ऽ इतीट्---आरिवानिति भवति । ऋच्छतेरलघूपधत्वाद् गुण इति । अन्तरङ्गत्वात् ठ्छे चऽ इति तुकि कृते ठ्संयोगे गुरुऽ इति ऋकारो गुरुर्भवति, न च लघुः, नाप्युपधा । आञ्तां त्विति । सूत्रवदत्राप्यर्तिप्रश्लेषः । वृद्धिविषये त्विति । अस्तु वा परत्वाद् गुणः, ठत उपधायाःऽ इति सिद्धमिति परिहारान्तरम् ॥
सिद्धान्तकौमुदी
तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ।
ऋच्छत्यॄताम् - ननु ऋ अतुस् इति स्थिते द्वित्वे उदरत्त्वे रपरत्वे हलादिशेषेअत आदे॑रिति दीर्घे आ ऋ अतुस् इति स्थितेअसंयोगा॑दिति कित्त्वादुत्तरखण्डस्य गुणाऽभावे यणं बाधित्वा परत्वाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह — ऋच्छत्यृताम् ।दयतेर्दिगि लिटी॑त्यतो लिटीति,॒ ऋतश्च संयोगादेर्गुण॑ इत्यतो गुण इति चानुवर्तते । ऋच्छति ऋ ऋत् एषां द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ऋकारप्रश्लेषो गम्यते । प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्रते, ऋवर्णान्तधातुग्रहणेऋतश्च संयोगादेर्गुणः॑ इत्यस्य वैयथ्र्यात् ।ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु॑ इति तौदादिकस्यऋच्छती॑त श्तिपा निर्देशः । भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धेः । तदाह — तौदादिकस्येत्यादिना । किदर्थमपीदं सूत्रं परतवादकित्यपि भवति । णलि प्राग्वदिति । "ह्व कौटिल्ये" इत्यत्र उक्त्या रीत्या कित्सु चरितार्थोऽप्ययं गुणःअचो ञ्णिती॑ति वृद्ध्यपेक्षया परत्वाण्णल्यपि भवति, ततो रपरत्वे उपधावृद्धिरित्यर्थः । आरेति । ऋधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः । आरतुरिति । पूर्ववद्द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्तेऋच्छत्यृता॑मिति गुणे रपरत्वे सवर्णदीर्घ इति भावः । आरुरित्यप्येवम् ।
ऋच्छत्यॄताम् - प्राग्वदिति । किदर्थमारब्धोऽपि गुणः परत्वाण्णल्यपि भवति । रपरत्वम् । तत उपधावृद्धिरित्यर्थः ।
लघुसिद्धान्तकौमुदी
तौदादिक ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि। पपरतुः। पपरुः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.