Page loading... Please wait.
7|3|96 - अस्तिसिचोऽपृक्ते
॥ तस्मै पाणिनये नमः ॥
7|3|96
SK 2225
अस्तिसिचोऽपृक्ते   🔊
सूत्रच्छेदः
अस्तिसिचः (पञ्चम्येकवचनम्) , अपृक्ते (सप्तम्येकवचनम्)
अनुवृत्तिः
सार्वधातुके  7|3|87 (सप्तम्येकवचनम्) , हलि  7|3|89 (सप्तम्येकवचनम्) , ईट्  7|3|93 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अस्तिसिचः अङ्गात् अपृक्ते सार्वधातुके हलि ईट्
सूत्रार्थः
अस्-धातोः अङ्गात् परस्य तथा सिच्-प्रत्ययान्त-अङ्गात् परस्य सार्वधातुकस्य अपृक्त-हल्-प्रत्ययस्य ईट्-आगमः भवति ।
प्रथमम् सूत्रे प्रयुक्तानां सर्वेषां शब्दानाम् संक्षेपेण परिचयं प्राप्नुमः -
1. किम् नाम अपृक्तम्? अपृक्त एकाल्प्रत्ययः 1|2|41 - सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।
2. किम् नाम सार्वधातुकप्रत्ययः ? तिङ्शित्सार्वधातुकम् 3|4|113 - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।
3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः आद्यन्तौ टकितौ 1|1|46 इत्यनेन स्थानिनः पूर्वम् आगच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्याम् अवस्थायाम् उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति ।
4. किम् नाम सिच्? च्लेः सिच् 3|1|44 इत्यनेन लुङ्लकारस्य प्रत्यये परे "च्लि" इत्यस्य विकरणप्रत्ययस्य "सिच्" आदेशः भवति ।

अतः अनेन सूत्रेण किम् उच्यते?
अस्-धातोः अङ्गात् परम् , तथा सिच्-प्रत्ययान्त-अङ्गात् परम् यदि कश्चन एकव्यञ्जननिर्मितः सार्वधातुकप्रत्ययः अस्ति, तर्हि तस्य प्रत्ययस्य ईट्-आगमः भवति ।
यथा -

1) अस्-धातोः लङ्लकारस्य प्रथमपुरुष-एकवचनस्य "आसीत्" इत्यस्य रूपसिद्धिम् पश्यामः -

अस् + लङ् [अनद्यतने लङ् 3|2|111 इति लङ्]
→ आट् + अस् + ल् [आडजादीनाम् 6|4|72 इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः]
→ आ + अस् + तिप् [तिप्तस्झि... 3|4|78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]
→ आ + अस् + शप् + ति [कर्तरि शप् 3|1|68 इति औत्सर्गिकम् विकरणम् शप्]
→ आ + अस् + ति [अदिप्रभृतिभ्यः शपः 2|4|72 इति शप्-प्रत्ययस्य लुक् ।]
→ आस् + ति [ आटश्च 6|1|90 इति वृद्धि-एकादेशः]
→ आस् + त् [इतश्च 3|4|100 इति इकारलोपः]
→ आस् + ईट् + त् [अस्तिसिचोऽपृक्ते 7|3|96 इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ।]
→ आसीत् [हलन्त्यम् 1|3|3 इति टकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति तस्य लोपः। वर्णमेलनम् ।]

अनेनैव प्रकारेण अस्-धातोः मध्यमपुरुषैकवचनस्य "आसीः" इति रूपमपि सिद्ध्यति ।

2) कृ-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य "अकार्षीत्" इत्यस्य रूपसिद्धिं पश्यामः -
कृ + लुङ् [लुङ् 3।2।110 इति लुङ्]
कृ + च्लि + ल् [च्लि लुङि 3|1|43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् "च्लि"]
→ कृ + सिच् + ल् [च्लेः सिच् 3|1|44 इति च्ले-इत्यस्य सिच्-आदेशः ।
→ कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।]
→ अट् + कृ + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + कृ + स् + तिप् [तिप्तस्झि... 3|4|78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]
→ अ + कृ + स् + त् [ इतश्च 3|4|100 इति इकारलोपः]
→ अ + कृ + स् + ई + त् [अस्तिसिचोऽपृक्ते 7|3|96 इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ]
→ अ + कार् + स् + ई + त् [सिचि वृद्धिः परस्मैपदेषु 7|2|1 इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।]
→ अ + कार् + ष् + ई + त् [आदेशप्रत्यययोः 8|3|59 इत्यनेन इण्-वर्णात् परस्य सकारस्य मूर्धन्यादेशः षकारः । (रेफः इण्-प्रत्याहारे अस्ति ।)]
→ अकार्षीत् ।

अनेनैव प्रकारेण कृ-धातोः मध्यमपुरुषैकवचनस्य "अकार्षीः" इति रूपमपि सिद्ध्यति ।
One-line meaning in English
A सार्वधातुक प्रत्यय which contains only one हल् letter (and no अच् letter) gets an "ईट्" आगम when it follows either the अस् धातु or the सिच्-प्रत्यय.
काशिकावृत्तिः
अस्तेरङ्गात् सिजन्ताच् च परस्य अपृक्तस्य सार्वधातुकस्य ईडागमो भवति। अस्तेः आसीत्। आसीः। सिजन्तात् अकार्षीत्। असावीत्। अलावीत्। अपावीत्। अपृक्ते इति किम्? अस्ति। अकार्षम्। आहिभुवोरीटि प्रतिषेधः इति स्थानिवद्भावप्रतिषेध तेन इह न भवति, आत्थ, अभूतिति।
`अपृक्ते` इति। सुब्वयत्ययेन षष्ठर्थे सप्तदमी, तेनायमपृक्तस्यैवेट्। अस्तिग्रहणं लङर्थय्। `आसीत्` इति। `अस भुवि` (धातुपाठः-1065), लङ्, अदादित्वाच्छपो लुक्, `आडजादीनाम्` 6|4|72 इत्याट्। `आटश्च` 6|1|87 इति वृद्धिः। `अकार्षीत्` इति। सिचि वृद्धिः। `अलावीत्, अपाधीत्` इति। `इट ईटि` 8|2|28 इति सिचो लोपः। `आत्थ` इति। अत्र ब्राउष उत्तरस्य सिपः `ब्राउवः पञ्चानामदित आहोब्राउवः` 3|4|84 इति थलि कृते ब्राउवश्चाहादेशे कृते तस्य स्थानिवद्भावे सति ब्राऊञ्ग्रहणेन ग्रहमात्? थलोऽपि सार्वधातुकग्रहणेन ग्रहणादीट्? प्राप्नोति। `अभूत्` इति। अस्तेः सिच्, `अस्तेर्भूः` 2|4|52 इति भूभावे तस्य स्थानिवद्भावे सत्यस्तिग्रहणेन ग्रहणादीट्? प्राप्नोति, स कस्मान्न भवति? इत्याह--`आहिभुवोः` इत्यादि। `ईटि प्रतिषेधः` इति। आहेर्भुवश्चेटि कत्र्तव्ये स्थानिवद्बावस्य प्रतिषेधः। तेनेह न भवति--आत्व` इति। `आहस्थः` 8|2|35 इति हकारस्य थकारः, तस्य `खरि च` इति तकारः। `अभूत्` इति। `गातिस्था` 2|4|77 इति सिचो लुक्॥
ठपृक्तेऽ इति षष्ठ।ल्र्थे सप्तमी, तेनापृक्तस्यैवायमागमः । आसीदिति । ठस् भुविऽ, शपो लुक्, तिप ईट् । अलावीदिति । लुङ्, ठिट ईटि इति सिचो लोपः । आहिभुवोरीट्प्रतिषेध इत्यादि । स्थानिवत्सूत्र एतद्वार्तिकम् । आहिभुवोः स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः, ईट्प्रतिषेधः प्रयोजनमित्यर्थः । आत्थेति । ठ्व्रुवः पञ्चानाम्ऽ इत्यादिना सिपस्थल्, ब्रुव आहादेशः, ठाहस्थःऽ इति हकारस्य थत्वम्, तस्य ठ्खरि चऽ इति चर्त्वम्---तकारः । अभूदिति । लुङ्, ठस्तेर्भूःऽ ठ्गातिस्थाऽ इत्यादिना सिचो लुक् । अत्र स्थानिवद्भावप्रतिषेधादस्त्याश्रयस्तावदीण्न भवति । सिजाश्रयोऽपि न भवति, स्थानिवद्भावप्रतिषेधसामर्थ्यात् । अस्त्वेवमस्त्यादेशे भुवि, शुद्धे तु भवतौ सिजाश्रय ईट् प्राप्नोति, तस्मादीडेवात्र प्रतिषेध्यः । आहिविषये परिहारान्तरं ज्ञापकात्सिद्धम्, यदयं झलादिप्रकरणे ठाहस्थःऽ इति थत्वं शस्ति । ननु च भूतपूर्वगत्यर्थमेतस्यात्---झलादिर्यो भूतपूर्वस्तत्रेति ? नैतदस्ति; एवं तर्हि पञ्चानामपि तिबादीनां भूतपूर्वझलादित्वमिति सर्वत्र थत्वप्रसङ्गः, ततश्चाथमेव विदध्यात् ॥
सिद्धान्तकौमुदी
सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥
अस्तिसिचोऽपृक्ते - अस्तिसिचोऽपृक्ते । अस्तिश्च सिच्चेति समाहारद्वन्द्वात्पञ्चमी ।ब्राउव ई॑डित्यत ईडित्यनुवर्तते ।तस्मादित्युत्तरस्ये॑ति परिभाषया "अस्तिसिचः" इति पञ्चमी अपृक्तस्येति षष्ठी प्रकल्पयति । ततश्च अस्तेः सिचश्च परस्याऽपृक्तस्य ईडागमः स्यादिति प्राचीना व्याचक्षते । तथा सति लुङि अस्तेर्भूभावे अभूदिति न स्यात्, स्थानिवत्त्वेन अस्तितया तत्राऽपृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा अगात् अस्थात् अपादित्यादावपिगातिस्थे॑ति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमः स्यादतः प्रकारान्तरेण व्याचष्टे — सिच्च अश्चेत्यादिना । ननु सिचस्शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्वप्रसङ्ग इत्यत आह — सौत्रं भत्वमिति । तथ च भत्वेन पदत्वस्य बाधान्न कुत्वमिति भावः । ननु सिचस्शब्दे असित्यनेनैवास्तेर्लाभादस्तिग्रहणं किमर्थमित्यत आह — अस्तीत्यव्ययेन कर्मधारय इति । अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम् । तेन सिचस्शब्दस्य कर्मधारय इत्यर्थः । तथा चअस्तिसिच॑सित्येक पदमिति स्थितम् । सौत्रो लुगिति ।सुपां सुलुगित्यनेनेटति शेषः । तथा च अस्तिसिच इति पदाल्लब्धार्थमाह — विद्यमानादित्यादि । हल इति ।उतो वृद्धिर्लुकि हली॑स्यतोऽनुवृत्तस्य हलीत्यस्य षष्ठआ विपरिणाम इति भावः । इतीण्नेहेति । अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह — लुप्तत्वादिति । विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्ये नेति भावः । एवं च अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम् । ऐधिषीति । एधधातोर्लुङि उत्तमपुरुषैकचवनम् इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्वाऽभावादिडागमो नेति भावः । ऐधिष्टेति । एध धातोर्लुङि प्रथमपुरुषैकवचनम् । अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाऽभावेनाऽपृक्तत्वाऽभावादीडागमो नेति भावः । अभूतामिति । लुङस्तसि तस्य तामादेशः । च्लिः । सिच् । अट् । गुणनिषेधः ।
अस्तिसिचोऽपृक्ते - अत्र प्राञ्चः — अस्तिश्च सिच्चेति समाहारद्वन्द्वे अस्तिसिच्, तस्मादिति विग्रहं मत्वा अस्तेः सिचश्च परस्येति व्याचख्युः । तच्चिन्त्यम् । तत्र समासान्तस्याऽनित्यत्वाश्रयणेद्वन्द्वाच्चुदषहान्ता॑दिति प्राप्तस्य टचः परिहारेऽपि,समुद्राभ्राद्धः॑इति निर्देशात्अल्पाच्तर॑मित्येतदनित्यमित्याश्रित्य सिच्छब्दस्य परत्वसमर्थेऽपि,अस्तेर्भू॑रिति भूभावस्य स्थानिवत्त्वेनाऽस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा गातिस्थाघुपाभूभ्यः सिचो लुक्यपि स्थानिवद्भावेन सिचः पर्तवानपायादगादस्थादभूदित्यादावतिप्रसङ्गाच्च । तदेतद्ध्वनयन्व्याचष्टे — सिच्च अस् चेति । सौत्रं भत्वमिति । तेनाऽत्र कुत्वजश्त्वे न भवत इति भावः । विद्यमानादिति । सिचोऽस्तेश्च विद्यमानविशेषणेन लुप्तात्सिचः, कृतभूभावादस्तेश्च नेति भावः॥ भाष्यकारास्त्वाहुः — अस्तिसिचोऽपृक्ते॑ इति द्विसकारकोऽयं निर्देश इति । अत्र माधवः — अस् स् इति समुदायस्याऽधातुतयाइक्श्तिपौ धातुनिर्देशे॑ इति श्तिप् प्रत्ययो न स्यादिति । अत्र वदन्ति — द्विसकारकनिर्देशे श्तिप् न स्यादिति यदुक्तं, तद्रभसोक्तिमात्रम् । इत्थं हि भाष्याशयः — सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु श्तिपः प्राक्, अत एवसिचोऽपृक्ते इति द्विसकारकोऽयं निर्देश॑ इत्युक्तं भाष्ये । अन्यथाअस्तीति निर्देशो द्विसकारक॑ इत्येव ब्राऊयात्, एवं च सान्तादस्तेः, सान्तात्सिच इति चार्थो निर्बाध एव । द्वितीयस्च सकारो लुप्यते,संयोगान्तस्य पदान्तस्ये॑ति व्याख्यानात्, व्यपदेशिवद्भावेन पदान्तत्वाद्वितीयसकारस्य । न च संयोगान्तलोपस्याऽसिद्धत्वात्अतो रो॑रित्युत्वं दुर्लभमिति वाच्यं,संयोगान्तलोपो रोरुत्वे॑ इति वार्तिकेनाऽसिद्धत्वनिषेधात् ।संयोगान्तां यत्पद॑मिति व्याख्याने तु नेह संयोगान्तलोपः, किंतु सकारद्व्यस्यापि रुत्वे कृतेअतो रो॑रित्यनेनैक एवोकारो भविष्यति, विधेयविशेषणस्यैकत्वस्य पओकत्ववद्ववक्षितत्वात् । न च स्थानिभेदेन उकारद्वये सत्यपि न क्षतिः, सवर्णदीर्घानन्तरमाद्गुणे सति समीहितरूपसिद्धेरिति वाच्यम्, एकपदाश्रयत्वेनाऽन्तरङ्गत्वादाद्गुणे पश्चादवादेशप्रवृत्त्याअस्तिसिचोऽपृक्ते॑ इति रूपाऽसिद्धेः, तस्मादुक्तरीत्या एक एवोकार इति स्वीकर्तव्यम् । अत एव विधेयगतैकत्वस्य विवक्षितत्वात्एकः पूर्वपरयो॑रित्यत्रैकग्रहणं भाष्यादौ प्रत्याख्यातम् । नन्वति परे यो रुः, स त्वत#ः परो न भवति, अतः परस्तु अतिपूर्वो न भवतीति रुद्वयस्थाने कथमुकारः स्यात् । मैवम् ।रो॑रिति जातिपरनिर्देशेनाऽतः परत्वस्य पूर्वत्वस्य च संभवात् । न चैवमपि परत्वात्हशि चे॑ति प्रथमस्यैव रोरुः स्यादिति वाच्यं, रुत्वस्याऽसिद्धतया हश्परत्वाऽभावात् । न चाश्रयाऽसिद्धत्वमिति वाच्यं, स्थान्यंशे तथात्वेऽपि निमित्तभूतहशंशे तदसंभवात् । यद्यपि सत्वजातेरेकत्वादुभयोरपि एक एव रुर्भवतीति व्याख्यायां नायं क्लेशस्तथापि रुत्वविधौ पदस्येत्यनुवर्तनादेकपदान्तत्वं न संभवति, द्वितीयसकारस्य पृथक्पदत्वादित्याहुः । अपृक्तस्य हल इति ।अपृक्तसार्वधातुकस्ये॑ति प्राचोक्तं त्युक्तम्, ऐधिषीत्यादावतिव्याप्तेः, सार्वधातुकग्रहमव्यावत्र्याऽलाभाच्च॥
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.