Page loading... Please wait.
7|3|91 - गुणोऽपृक्ते
॥ तस्मै पाणिनये नमः ॥
7|3|91
SK 2448
गुणोऽपृक्ते   🔊
सूत्रच्छेदः
गुणः (प्रथमैकवचनम्) , अपृक्ते (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऊर्णोतेर् धातोः अपृक्ते हलि पिति सार्वधातुके गुणो भवति। प्रोर्णोत्। प्रोर्णोः। हलि इति वर्तमाने यदपृक्तग्रहणं क्रियते, तेन एव ज्ञाप्यते भवत्येषा परिभाषा यस्मिन् विधिस् तदादावल्ग्रहणे इति।
विभाषेति निवृत्तम्। पूर्वेण प्राप्तायाः पाक्षिक्या वृद्धेरयमपवादः। ननु हलत्यनुवत्र्तत एव, तत्र सामथ्र्यादपृक्त एव भविष्यतीति न तदादी, न हि हलादिसमुदायो हल्? भवति, तत्किमपृक्तग्रहणेन इत्यत आह--`हलीत्यनुवत्र्तमाने` इत्यादि। अपुक्तग्रहणं ह्रेवमर्थं क्रियते--हलीत्यनुवृत्तेस्तदादौ मा भूदिति। यदि चेयं परिभाषा न स्यात्, अपृक्तग्रहणमनर्थकत्वान्न कुर्यात्। हल्युचयमानो गुणः कः प्रसङ्गो यस्तदादावपि स्यात्? नैव प्राप्नोति; तस्या हलात्मकत्वात्। कृतञ्चेदमपृक्तग्रहणम्, अतस्तोनास्तीयं परिभाषेति ज्ञाप्यते। अथ `नापृक्ते` इत्येवं कस्मान्नोक्तम्, किं गुणग्रहणेन, वृद्धौ प्रतिषिद्धायामुत्सर्गेण गुणेनैव सिध्यति? नैतदस्ति; अन्तरोक्ताया विभाषायाः प्रतिषेधो विज्ञायेत, तथा च नित्यं वृद्धिः स्यात्॥
ननु च ठ्हलिऽ इति वर्तते, ठ्पितिऽ इति च, अङ्गेन च प्रत्यय उपस्थाप्यते; तत्र हलात्मके प्रत्यये पिति विधायमानो गुणोऽपृक्त एव भविष्यति, नार्थोऽपृक्तग्रहणेन ? इत्यत आह---हलीति वर्तमान इति । अपृक्तग्रहणं ह्यएवमर्थं क्रियते--हलादौ मा भूदिति, यदि चेयं परिभाषा न स्यात्, अपृक्तग्रहणं न कुर्यात्, कृतं तु, ज्ञापयति--भवत्येषा परिभाषेति । इदं त्वत्र वक्तव्यम्---तदन्तविधिनिवृत्यर्थमपृक्तग्रहणं कस्मान्न भवतीति, तदन्तविधौ हि लङ् इमिपोऽम्भावेऽपि प्रसङ्गः स्यात् । ननु भवत्येव तत्र गुणः, कथं भवति ? यदा पूर्वत्र वृद्धिविधावपि तदन्तविधिरेव भवति । तदेतदपृक्तग्रहणं कथं तदादिविधेर्ज्ञापकमिति चिन्त्यम् । ठ्नापृक्तेऽ इत्युच्यमानेऽनन्तराया विभाषिताया वृद्धेः प्रतिषेधः स्यात्, नित्या तु वृद्धैः स्यादेव । तस्माद् गुणग्रहणम् ॥
सिद्धान्तकौमुदी
ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । ङिच्च पिन्न इति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट । ऊर्णुविषीष्ट । और्णवीत् । और्णुविष्टाम् ॥
गुणोऽपृक्ते - गुणोऽपृक्ते ।ऊर्णोतेविभाषे॑त्यत ऊर्णोतेरिति,नाभ्यस्तस्ये॑त्यतः पिति सार्वधातुके इति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । तदाह — ऊर्णोतेरित्यादि । वृद्ध्यपवाद इति ।ऊर्णोतेर्विभाषे॑ति वृद्धिविकल्पस्यापवाद इत्यर्थः । ऊर्णुयादित्यत्रविभाषोर्णो॑रिति वृद्धिविकल्पमाशङ्क्याह — इह वृद्धिर्नेति । भाष्यादिति । तथा च यासुटो ङित्त्वेन पित्त्वाऽभावान्न वृद्धिविकल्प इति भावः । नचैवं सति गुणनिषेधोऽपि न स्यादिति शङ्क्यं, विशेषविहितेन यासुटो ङित्त्वेनङिच्च पिन्ने॑ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाध इति "यु मिश्रणे" इति धातावेवोक्तत्वादिति भावः । परस्मैपदे आशीर्लिङ्याह — ऊर्णूयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घः । ऊर्णूयास्तामित्यादि । आत्मनेपदे लिडआह — ऊर्णविषीष्ट ऊर्णुविषीष्टेति ।विभाषोर्णो॑रिति ङित्त्वविकल्प इति भावः । लुङि परस्मैपदे और्णु — ईदिति स्थितेविभाषोर्णो॑रिति ङित्त्वपक्षे गुणाऽभावे उवङि रूपमाह — और्णुवीदिति । ङित्त्वाऽभावपक्षे गुणे नित्यं प्राप्ते ।
गुणोऽपृक्ते - गुणोऽपृक्ते ।नाभ्यस्तस्याची॑त्यतःपिति सार्वधातुके॑ इति,उतो वृद्धिर्लुकि हली॑ त्यतो हलीति चानुवर्तते । तदाह — - हलादावित्यादि ।
लघुसिद्धान्तकौमुदी
ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके। वृद्ध्यपवादः। और्णोतु। और्णोः। ऊर्णुयात्। ऊर्णुयाः। ऊर्णुवीत। ऊर्णूयात्। ऊर्णुविषीष्ट, ऊर्णविषीष्ट॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.