Page loading... Please wait.
7|3|72 - क्सस्याचि
॥ तस्मै पाणिनये नमः ॥
7|3|72
SK 2337
क्सस्याचि   🔊
सूत्रच्छेदः
क्सस्य (षष्ठ्येकवचनम्) , अचि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
क्षस्यजादौ प्रत्यये लोपो भवति। अधुक्षाताम्। अधुक्षाथाम्। अधुक्षि। अचि इति किम्? अधुक्षत्। अधुक्षताम्। ककारवतः उपादानं किम्? इह मा भूत्, उत्सौ। उत्साः। वत्सौ। वत्साः।
`अधुक्षाताम्, अधुक्षाथाम्` इति। दुहेर्लुङ्, च्लिः, `स्वरितञितः` 1|3|72 इत्यात्मनेपदम्, आतामाथाम्, `शाल इगुपधादनिटः क्सः` 3|1|45 इति क्सादेशश्च्लेः, तस्यानेन `अलोऽन्त्यस्य` 1|1|51 लोपः, `दादेर्घातोर्घः` 8|2|32 इति हकारस्य धकारः, `एकाचो वशो भष्` 8|2|37 इत्यादिना भष्--धकारः, `खरि च` 8|4|54 इति चत्र्वम्--धकारस्य ककारः `इण्कोः` 8|3|57 इति षत्वम्। `अधिक्षि` इति। उत्तमपुरुषैकवचनमिट्। `अधुक्षत्` इति। तिप्, `इतश्च` 3|4|100 इतीकारलोपः। `अधुक्षताम्` इति। `तस्थस्थमिपाम्` 3|4|101 इत्यादिना तसस्ताम्। ककारक्त उपादानम्, इह मा भूत्--हंसौ हंसाः, षत्सौ, वत्सा इति॥
अधुक्षातामिति । दुहेः स्वरितेत्वेनात्मनेपदम्, आताम्, अत्रासति लोपे ठातो ङ्तिःऽ इति इयादेशः प्राप्नोति । अधुक्षीति । इटि लोपः । ककारवतः सशब्दस्य ग्रहणादिह न भवति---वत्सौ; ठ्तृणादिभ्यः सःऽ, तृणसौ, तृणसः ॥
सिद्धान्तकौमुदी
अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-(कौमुदी-42) । अघृक्षाताम् । अघृक्षन्त । 651 ग्लह । ग्लहते । 652 घुषि कान्तिकरणे । घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं पठन्ति ॥ अथार्हत्यन्ताः परस्मैपदिनः । 653 घुषिर् अविशब्दने । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषीत् । 654 अक्षू व्याप्तौ
क्सस्याचि - अघृक्ष — आतामिति स्थिते "आतो ङितः" इति इयादेशे प्राप्ते — -क्सस्य । अचीत्यऽस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । "घोर्लोपो लेटि वे" त्यतो लोप इत्यनुवर्तते । तदाह — अजादावित्यादिना । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति भावः । वस्तुतस्तुलुग्वा दुहदिहे॑त्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति चदादिविधिः । तेन दृसेः क्सप्रत्यये "तादृक्षा" इत्यादौ नायं लोपः ।अजादौ तङी॑त्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति । अघृक्ष — आतामिति स्थिते क्साऽकारस्य लोपे अतः परत्वाऽभावात् "आतो ङितः" इति इय् नेति भावः । अघृक्षन्तेति । झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाऽभावादतः परत्वात् "आत्मनेपदेष्वनतः" इत्यदादेशो न । कृते तु झोऽन्तादेशे क्सस्याकारलोपः पररूपं वा । ग्लह चेति । ग्ल्हधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति । उदुपधोऽयम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । यय्परकत्वाऽभावान्न परसवर्णः । तदाह — घुषत इति । सेक्टोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गताः । अथार्हत्यन्ताः परस्मैपदिन इति । "ऊष्मान्ता" इति शेषः । तत्र तुस ह्यसेत्यतः प्राक् षान्ताः । घुषिरिति.इर् इत् । प्रतिज्ञानमिति ।वेदाः प्रमाण॑मित्याद्यभ्युपगम इत्यर्थः । ततोऽन्यस्मिन्निति । विशब्दनात् अन्यत् — अविशब्दनं, तस्मिन्नित्यर्थः । इरित्त्वादङ् वेति ।इरितो वेत्यनेने॑ति शेषः । अघुषदिति । अङो ङित्त्वान्न लघूपधगुणः । अघोषीदिति । अङभावपक्षे लघूपधगुणेइट ईटी॑ति सिज्लोपः । हलन्तलक्षणवृद्धेःनेटी॑ति निषेधः । अक्ष्धातुरूदित्त्वाद्वेट्कः ।
क्सस्याचि - घुषि कान्तिकरणे । लुङि अघुंषिष्ट । अघुंषिषाताम् । अदुपधपाठे तु — अघषिष्ट । अघषिषाताम् ।
लघुसिद्धान्तकौमुदी
अजादौ तङि क्सस्य लोपः। अधुक्षाताम्। अधुक्षन्त। अदुग्धाः, अधुक्षथाः। अधुक्षाथाम्। अधुग्ध्वम्, अधुक्षध्वम्। अधुक्षि। अदुह्वहि, अधुक्षावहि। अधुक्षामहि। अधोक्ष्यत॥ एवं दिह उपचये॥ 22॥ लिह आस्वादने॥ 23॥ लेढि। लीढः। लिहन्ति। लेक्षि। लीढे। लिहाते। लिहते। लिक्षे। लिहाथे। लीढ्वे। लिलेह, लिलिहे। लेढासि, लेढासे। लेक्ष्यति, लेक्ष्यते। लेढु। लीढाम्। लिहन्तु। लीढि। लेहानि। लीढाम्। अलेट्, अलेड्। अलिक्षत्, अलीढ, अलिक्षत। अलेक्ष्यत्, अलेक्ष्यत॥ ब्रूञ् व्यक्तायां वाचि॥ 24॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.