Page loading... Please wait.
7|3|40 - भियो हेतुभये षुक्
॥ तस्मै पाणिनये नमः ॥
7|3|40
SK 2595
भियो हेतुभये षुक्   🔊
सूत्रच्छेदः
भियः (षष्ठ्येकवचनम्) , हेतुभये (सप्तम्येकवचनम्) , षुक् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भी इत्येतस्य हेतुभये ऽर्थे षुगागमो भवति णौ परतः। मुण्डो भीषयते। जटिलो भीषयते। अत्र अपि भी ई इति ईकारप्रश्लेषः कृतात्वस्य पुग्निवृत्त्यर्थः। मुण्डो भापयते इत्येवं हि तत्र भवति। हेतुभये इति किम्? कुञ्चिकया एनं भाययति। न अत्र हेतुः प्रयोजको भयकारणम्, किं तर्हि, कुञ्चिका।
हेतुः स्वतन्त्रस्य कर्तुः प्रयोजकः। विभेत्यस्मादिति भयः, हेतुश्चासौ भयश्चेति हेतुभयः, तस्मिन्? हेतुभये। `ञिभी भये` (धातुपाठः-1084) इत्यस्य वृद्धौ प्राप्तायां `बिभेतेर्हेतुभये` 6|1|55 इत्यात्त्वे च प्राप्ते पक्षे णौ धुग्विधीयते। `मुण्डो भीषयते` इति। `भीस्म्योर्हेतुभये` 1|3|78 इत्यात्मनेपदम्। अथात्त्वे कृते मुण्डो भापयत इत्यत्र कस्मान्न भवति? इत्याह--`अत्रापि` इत्यादि॥
हेतुः पारिभाषिकः, भीःउभयम्, हेतोर्भयं हेतुभयम्, तत्र वर्तमानस्य । भीषयत इति । ठ्भीस्म्योर्हेतुभयेऽ इत्यात्मनेपदम् । भापयत इति । ठ्बिभेतेर्हेतुभयेऽ इत्यात्वम् ॥
सिद्धान्तकौमुदी
भी ई इतीकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक् स्यात् णौ हेतुभये । भीषयते ॥
भियो हेतुभये षुक् - भियो हेतुभये षुक् । भी ई ति । द्वयोः सवर्णदीर्घे भीशब्दात् षष्ठीति भावः । इदं च स्थानिवत्सूत्रे भाष्ये स्पष्टम् । ईकारप्रश्लेषलब्धमाह — ईकारान्तस्येति । तेन आत्त्वपक्षे न षुगिति फलितम् । णाविति । "अर्तिह्यी" त्यतस्तदनुवृत्तेरिति भावः ।
भियो हेतुभये षुक् - ईकारान्तस्येति । तेन आत्वपक्षे भाययते इत्येव, न त्वत्र षुगित्यर्थः । करणादेव हीति । तथा च करणात्स्मये आत्वाऽभावेन पुद्गुर्लभ इति भावः । प्रयोज्यकत्र्रीति । यद्यपि प्रथमणिजर्थं प्रति मनुष्यवागेव प्रयोजिका, अतएव आत्वं प्रवृत्तं तथापि द्वितीयणिजर्थाभिप्रायेणेदमुक्तमिति मनोरमायाम् । केचित्तु प्रयोज्यस्य कत्र्री । प्रयोजककत्र्रीति यावदिति प्रथमणिजभिप्रायेणैवेदं सुयोजमित्याहुः । ण्यन्ताण्णाविति । राजा विस्मयते, तंमनुष्यवाग्विस्मापयते, तया सिंहो विस्मापयन्नित्यर्थः । एवं च प्रथमणिचि हेतुर्मनुष्यवागिति आत्वपुकावुपपन्नौ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.