॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
7|3|108
SK 242
7|3|108
ह्रस्वस्य गुणः
SK 242
सूत्रच्छेद:
ह्रस्वस्य - षष्ठ्येकवचनम् , गुणः - प्रथमैकवचनम्
अनुवृत्ति:
सम्बुद्धौ  [7|3|106] - सप्तम्येकवचनम् ,  सुपि  [7|3|102] - सप्तम्येकवचनम्
अधिकार:
अङ्गस्य  [6|4|1]
सम्पूर्णसूत्रम्
ह्रस्वस्य अङ्गस्य सम्बुद्धौ सुपि गुण:
सूत्रार्थ:
ह्रस्वान्तस्य अङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे गुणादेशः भवति ।
हस्वान्तस्य अङ्गस्य अन्तिमवर्णस्य सम्बोधनैकवचनस्य सुँ-प्रत्यये परे गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -

1) मुनि + सुँ [सम्बुद्धिः]
→ मुने + सुँ [ह्रस्वस्य गुणः 7|3|108 इति इकारस्य गुणः एकारः]
→ मुने [एङ्ह्रस्वात्‌ सम्बुद्धेः 6|1|69 इति सुँ-प्रत्ययस्य लोपः ]

2) साधु + सुँ [सम्बुद्धिः]
→ साधो + सुँ [ह्रस्वस्य गुणः 7|3|108 इति उकारस्य गुणः ओकारः]
→ साधो [एङ्ह्रस्वात्‌ सम्बुद्धेः 6|1|69 इति सुँ-प्रत्ययस्य लोपः ]

ज्ञातव्यम् - अम्बाऽर्थनद्योर्ह्रस्वः 7|3|107 इत्यनेन नदीसंज्ञकस्य ह्रस्वादेशे कृते अनेन सूत्रेण पुनः तस्य गुणादेशः न भवति, यतः एवं कुर्मश्चेत् अम्बाऽर्थनद्योर्ह्रस्वः 7|3|107 अस्मिन् सूत्रे "नदी" शब्दस्य किमपि प्रयोजनं न अवशिष्यते । यदि पाणिनिः नदीसंज्ञकस्यापि गुणः एव एषिष्यत्, तर्हि सः पूर्वसूत्रम् "अम्बार्थस्य ह्रस्वः" इति लिखित्वा एतत् सूत्रम् "नदीह्रस्वयोर्गुणः" इति अलेखिष्यत् । अतः "पूर्वसूत्रे नदीशब्दस्य ह्रस्वविधानसामर्थ्यात् अत्र तस्य गुणः न भवति" इति उच्यते ।
One-line meaning in English
If an अङ्ग ends in ह्रस्व letter, that ह्रस्व letter gets a गुणादेश in presence of the सुँ-प्रत्यय of सम्बोधन एकवचन.
काशिकावृत्तिः
सम्बुद्धौ इति वर्तते। ह्रस्वान्तस्य अङ्गस्य गुणो भवति सम्बुद्धौ परतः। हे अग्ने। हे वायो। हे पटो। हे कुमारि, हे ब्रह्मबन्धु इत्येवम् आदीनां ह्रस्वविधानसामर्थ्याद् गुणो न भवति। यदि गुणः इष्टः स्यात्, अम्बार्थानां ह्रस्वः इत्युक्त्वा नदीह्रस्वयोर् गुणः इत्येवं ब्रूयात्।
ह्यस्वग्रहणं प्रकृताङ्गविशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह--`ह्स्वान्तस्य` इत्यादि। एवमुत्तरत्रापि तदन्तविधिर्वेदितव्यः। अथ हे कुमारि, हे ब्राहृबन्ध्वित्येवमादीनां कस्मान्न भवति? इत्याह--`हे कुमारि` इत्यादि। यदि ह्यस्वत्वे कृते गुणः स्यात्, ह्यस्वकरणमनर्थकं स्यात्। ननु च गुणार्थमेतत्? स्यात्, असति हि तस्मिन्? `ह्यस्वसय गुणः` 7|3|108 इति गुणो न स्यात्, अह्यस्वान्तत्वात्? इत्याह--`यदि` इत्यादि। एवं प्रक्रियागौरवं परिह्मतं भवतीति भावः॥
ह्रस्वविधानसामर्थ्यादिति । ननु ह्रस्वविधानं तस्य गुणविधानार्थमेव स्यात्, अन्यथा ह्रस्वत्वाभावाद् गुणो न स्यादत आह---यदीति । ह्रस्वं विधाय गुणे विधीयमाने प्रक्रियागौरवं भवतीति लाघवार्थं साक्षादेव गुणं विदध्यादित्यर्थः । ननु ठ्नदीह्रस्वयोर्गुणःऽ इत्युच्यमाने ठ्जसि चऽ इत्यत्र नद्या अप्यनुवृत्तिः स्यात्, एकसमासनिर्दिष्टत्वात् ? नैष दोषः; एकसमासनिर्दिष्टयोरप्येकदेशोऽनुवर्तते, तद्यथा---ठ्संख्याव्ययादेर्ङीप्ऽ, ठ्दामहायनान्ताच्चऽ इत्यत्र संख्याग्रहणमनुवर्तते, नाव्ययग्रहणम् ॥
सिद्धान्तकौमुदी
ह्रस्वस्य गुणः स्यात्संबुद्धौ ।एङ्ह्रस्वा (कौमुदी-193)दिति संबुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् ॥
हे हरि स् इति स्थिते ह्रस्वस्य गुणः। `सम्बुद्धौ चे`त्यतः सम्बुद्धावित्यनुवर्तते। तदाह--ह्रस्वस्येत्यादिना। अनेन रेफादिकारस्य गुण एकारः। सम्बुद्धिलोप इति। एङः परत्वादिति भावः। नत्वत्र ह्रस्वात्परत्वमस्ति, परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्रस्वात्परत्वाऽभावात्। हरिमिति। अमि पूर्वरूपे रूपम्। हरीनिति। पूर्वसवर्णदीर्घे `तस्माच्छसः` इति नत्वम्।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥
महाभाष्यम्
ह्रस्वस्य गुणः इह कस्मान्न भवति ‐ नदि कुमारि किशोरि ब्राह्मणि ब्राह्मबन्धु ? ।। ह्रस्ववचनसार्मथ्यात्(1) । अस्त्यन्यद्ह्रस्ववचने प्रयोजनम् ? ।। किं(2) ? ।। पृथग्विभक्तिं मोच्चीचरमिति ।। शक्या(3) पृथग्विभक्तिरनुच्चारयितुम् ।। कथम्(2) ? ।। एवमयं ब्रूयात् आम्बार्थानां ह्रस्वः नदीह्रस्वयोर्गुण इति ।। यद्येवमुच्यते जसि चेत्यत्र नद्या अपि गुणः प्राप्नोति ।। एवं तर्हि योगविभागः करिष्यते ‐ अम्बार्थनद्योर्ह्रस्वः । ततो ह्रस्वस्य । ह्रस्वस्य च ह्रस्वो भवति ।। किमर्थमिदं ? ।। गुणं वक्ष्यति तद्वाधनार्थम् ।। ततो गुणः । गुणश्च भवति ह्रस्वस्येति ।। अथ वा ह्रस्वस्य गुण इत्यत्राऽम्बार्थनद्योर्ह्रस्व इत्येतदनुवर्तिष्यते ।। ( ह्रस्वस्य गुणः )