Page loading... Please wait.
7|3|100 - अदः सर्वेषाम्
॥ तस्मै पाणिनये नमः ॥
7|3|100
SK 2426
अदः सर्वेषाम्   🔊
सूत्रच्छेदः
अदः (पञ्चम्येकवचनम्) , सर्वेषाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
सार्वधातुके  7|3|87 (सप्तम्येकवचनम्) , अपृक्ते  7|3|96 (सप्तम्येकवचनम्) , अट्  7|3|100 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अदः अङ्गात् अपृक्ते सार्वधातुके अट् सर्वेषाम्
सूत्रार्थः
अद्-धातोः अङ्गात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य सर्वेषाम् आचार्याणाम् मतेन अट्-आगमः भवति ।
अदँ भक्षणे इति अदादिगणस्य प्रथमः धातुः । अस्मात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य नित्यं अट्-आगमः भवति ।

यथा - अद्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य "आदत्" इत्यस्य रूपसिद्धिः इयम् -

अद् + लङ् [अनद्यतने लङ् 3|2|111 इति लङ्]
→ आट् + अद् + ल् [आडजादीनाम् 6|4|72 इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः]
→ आ + अद् + तिप् [तिप्तस्झि... 3|4|78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]
→ आ + अद् + शप् + ति [कर्तरि शप् 3|1|68 इति औत्सर्गिकम् विकरणम् शप्]
→ आ + अद् + ति [अदिप्रभृतिभ्यः शपः 2|4|72 इति शप्-प्रत्ययस्य लुक् ।]
→ आद् + ति [ आटश्च 6|1|90 इति वृद्धि-एकादेशः]
→ आद् + त् [इतश्च 3|4|100 इति इकारलोपः]
→ आद् + अट् + त् [अदः सर्वेषाम् 7|3|100 इत्यनेन अपृक्त-त्-प्रत्ययस्य अट्-आगमः ।]
→ आदत् [हलन्त्यम् 1|3|3 इति टकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति तस्य लोपः। वर्णमेलनम् ।]

एवमेव अद्-धातोः लङ्लकारस्य मध्यमपुरूषस्य "आदः" अस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः क्रियते ।

ज्ञातव्यम् - पूर्वस्मिन् सूत्रे अडागमः केवलं गार्ग्य-गालवयोः मतेन उक्तः अस्ति । अत्र सः नित्यं भवति (विकल्पेन न) इति स्पष्टीकर्तुम् "सर्वेषाम्" इति अस्मिन् सूत्रे उक्तम् अस्ति ।
One-line meaning in English
A सार्वधातुक-अपृक्त-प्रत्यय that follows the verb अद् gets an अट् आगम.
काशिकावृत्तिः
अद भक्षणे, अस्मादुत्तरस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति सर्वेषाम् आचार्याणां मतेन। आदत्। आदः। अपृक्तस्य इत्येव, अत्ति। अत्सि।
सर्वेषांग्रहणं पूजार्थम्, न तु नित्यार्थम्; गाग्र्यगालवग्रहस्याविकल्पार्थत्वात्॥
सर्वेषांग्रहणं नित्यार्थम्, अन्यथा गार्ग्यगालवग्रहणमिह विकल्पार्थ सम्भाव्येत ॥
सिद्धान्तकौमुदी
अदः परस्यापृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ॥
अदः सर्वेषाम् - अदः सर्वेषाम् । "अद" इति पञ्चमी ।तस्मादित्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते । "गुणोऽपृक्ते" इत्यतः "अपृक्ते" इति, "तुरुस्तुशम्यमः" इत्यतः "सार्वधातुके" इति चानुवर्तते । सप्तमीद्वयं च षष्ठआ विपरिणम्यते ।अह् गाग्र्यगालवयो॑रित्तोऽडित्यनुवर्तते ।गाग्र्यगालवयो॑रित्स्यानुवृत्तिनिवृत्तयेसर्वेषा॑मिति । तदाह — अदः परस्येत्यादिना । टित्त्वादाद्यवयः । तदाह — आददिति । आत्तामिति । अपृक्तग्रहणान्नाऽडागम इति भावः । विधिलिङि रूपमाह — अद्यादिति । शपो लुकि अतः परत्वाऽभावात् "अतो येयः" इति नेति भावः ।मिपः अमि यासुटि सलोपे सवर्णदीर्घे — -अद्याम् । अद्याव अद्याम । आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह — अद्यास्तामिति । लुङि अद् स् त् इति स्थिते —
अदः सर्वेषाम् - अदः सर्वेषाम् ।अङ्गाग्र्यगालवयोः॑ इत्यतोऽडित्यनुवर्तते । गाग्र्यगालवयोरित्यसय् त्वनुवृत्ति शङ्कां निवारयितुं सर्वेषांग्रहणम् ।
लघुसिद्धान्तकौमुदी
अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन। आदत्। आत्ताम्। आदन्। आदः। आत्तम्। आत्त। आदम्। आद्व। आद्म। अद्यात्। अद्याताम्। अद्युः। अद्यात्। अद्यास्ताम्। अद्यासुः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.