Page loading... Please wait.
7|2|29 - हृषेर्लोमसु
॥ तस्मै पाणिनये नमः ॥
7|2|29
SK 3070
हृषेर्लोमसु   🔊
सूत्रच्छेदः
हृषेः (षष्ठ्येकवचनम्) , लोमसु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
लोमसु वर्तमानस्य हृषेर् निष्ठायां वा इडागमो न भवति। हृष्टानि लोमानि, हृषितानि लोमानि। हृष्टं लोमभिः, हृषितं लोमभिः। हृष्टाः केशाः, हृषिताः केशाः। हृष्टं केशैः हृषितं केशैः। हृषु अलीके इत्युदित्त्वान् निष्ठायामनिट्, हृष तुष्टौ इत्ययं सेट्, तयोरुभयोरिह ग्रहणम् इत्युभयत्र विभाषा इयम्। लोमानि मूर्धजानि अङ्गजानि च सामान्येन गृह्यन्ते, यथा लोमनखं स्पृष्ट्वा शौचं कर्तव्यम् इति। तद्विषये च हर्षे वर्तमानो लोमसु वर्तते इत्युच्यते। लोमसु इति किम्? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्तः इति तुष्ट्यर्थस्य। विस्मितप्रतिघातयोश्च इति वक्तव्यम्। हृष्टो देवदत्तः, हृसितो देवदत्तः। विस्मितः इत्यर्थः। हृष्टाः दन्ताः, हृषिताः दन्ताः। प्रतिहताः इत्यर्थः।
Text Unavailable. Please use feedback link below to provide the text if you have.
हृष्टानि - उत्स्फुटानि, मूद्धंजाः - केशाः । अङ्गान्तरजानि लोमानि इति निघण्टुअप्रसिद्धिः । कल्पसूत्रकारणामपि तदनुगुणाः प्रयोगाः - केशश्मश्रुलोमनखं वापयन्ति इति, तैह तु केशानामपि ग्रहणम् इत्याह - मूर्द्धजान्यङ्गजानि चेति । अत्र विशेष्यं मृघ्यम् । सामान्येन गृह्यन्त इति । क्व यथा इत्यात्राह - यथेति । ननु क्रियावचनस्य धातोः कथं द्रव्यात्मकेषु लोमसु वृत्तिः इत्यत आह - तद्विषये चेति । प्रतिहताः कठिनद्रव्याखादनेन, शीतपीङ्या वा हता इत्यर्थः ॥
सिद्धान्तकौमुदी
हृषेर्निष्ठाया इड्वा स्यात् लोमसु विषये । हृष्टं हृषितं लोम ॥ ।विस्मितप्रतिघातयोश्च (वार्तिकम्) ॥ हृषो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥
हृषेर्लोमसु - ह्मषेर्लोमसु । लोमसु कर्तृष्विति बोध्यम् । इदं चअजर्य॑मिति सूत्रे भाष्ये स्पष्टम् । ह्मष्टं ह्मषितं लोमेति ।गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । रोमाञ्चितभूतमित्यर्थः । विस्मितप्रतिघातयोश्चेति । वार्तिकमिदम् ।ह्मषेर्निष्ठाया इड्वे॑ति शेषः । उदित्त्वादिति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति निष्ठायां नेडित्यर्थः । तथा अलीकेऽर्थे ह्मष्ट इत्येव । मृषोक्तवानित्यर्थः । इडिति । "ह्मष तुष्टौ" इति धातोः क्ते इडेव भवतीत्यर्थः । ह्मषितः । तुष्ट इत्यर्थः । विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः । तत्र लोमसु, विस्मितप्रतिघातयोश्च "ह्मषु अलीके" इत्यस्मात् ।यस्य विभाषेटति नित्यमिण्निषेधे प्राप्ते विभाषेयम् । "ह्मष तुष्टौ" इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषेति विवेकः ।
हृषेर्लोमसु - ह्मषेः । ह्मषु अलीके । उदित्तवन्निष्ठायामनिट्, ह्मष तुष्टौ सेट्, उभयोरपि ग्रहणमित्युभयत्र विभाषेयम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
हृषेर्लोमसु ।। 8 ।। हृषेर्लोमकेशकर्तृकस्य ।। हृषेलोमकेशकर्तृकस्येति वक्तव्यम् । हृष्टानि लोमानि हृषितानि लोमानि । हृष्टं लोमभिः हृषितं लोमभिः । हृष्टाः केशाः हृषिताः केशाः । हृष्टं केशैः हृषितं केशैः ।। (।। विस्मितप्रतिघातयोः(1) ।।) ।। विस्मितप्रतिघातयोरिति वक्तव्यम् । हृष्टो देवदत्तः । हृषितो देवदत्तः। हृष्टा दन्ताः । हृषिता दन्ताः ।। ( हृषेर्लोमसु ) ।।