Page loading... Please wait.
7|2|19 - धृषिशसी वैयात्ये
॥ तस्मै पाणिनये नमः ॥
7|2|19
SK 3059
धृषिशसी वैयात्ये   🔊
सूत्रच्छेदः
धृषिशसी (प्रथमाद्विवचनम्) , वैयात्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वियातस्य भावो वैयात्यम् प्रागल्भ्यम्, अविनीतता। तत्र धृष शस इत्येतयोः निष्ठायाम् इडागमो न भवति। धृष्टो ऽयम्। विशस्तो ऽयम्। धृषेः आदितश्च 7|2|16 इति प्रतिषेधः सिद्ध एव, शसेरपि उदितो वा 7|2|56, यस्य विभाषा 7|2|15 इति? नियमार्थं वचनम्, धृषिशस्योः वैयात्ये एव इड् न भवति। भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति। धृष्टः। विशस्तः। वैयात्ये इति किम्? धर्षितः। विशसितः।
`वियातस्य भावो वैयात्यम्` इति। यातम्=यातिः, प्राप्तिः विरूपं यातं यस्यासन्मार्गविषयत्वात्? स वियातः=अविनीत इत्युच्यते; तद्भावो वैयात्यम्। ब्राआहृणादित्वात्? 5|1|123 ष्यञ्। `षुष्टः` इति। `ञि धृषा प्रगल्भ्ये` (धातुपाठः-1269)। `विश्तः` इति। `शसु हिंसायाम्` (धातुपाठः-727), शसेरपि `उदतो वा` 7|2|56 इति विकल्पविधानात्? `यस्य विभाषा` 7|2|15 इतीट्प्रतिषेधः सिद्ध एवेति सम्बध्यते। यदि तर्हि सिद्ध एव प्रतिषेधः तत्? किमर्थं वचनम्? इत्याह--`नियमार्थम्` इत्यादि। वैयात्य एव वत्र्तमानोर्यथा स्यात्, अन्यत्र मा भूत्। अथ धृषेः `विभाषा भादिवादिकर्मणोः` 7|2|17 इति विकल्पे प्राप्ते नित्यार्थ वचनमिति कस्मान्न भवति? इत्याह--`भावादिकर्णणोरप , इत्यादि। अत्र चाभित्रानशक्तिस्वाभाव्यं हेतः। `धार्षितः` इति। `धर्षितः इति। पूर्ववत्? कित्त्वे प्रतिषिद्दे गूणः॥
एञिधृषा प्रागल्भ्ये, शसु हिंसायाम्, षष्ठ।ल्र्थे प्रथमा । विरुपं यातम् - ग्मनम्, चेष्टतं यस्य स वियातः - अविनीतः । शसेरपीत्यादौ ग्रन्थे इट्प्रतिषेधः सिद्ध इत्यनुषङ्गः । अथ धृषेः विभाषा भावादिकर्मणोः इति विकल्पे प्राप्ते नित्यार्थं ग्रहणं कस्मान्न भवति तत्राह - भावादिकर्मणोरपीति । एवं चास्य आदित्वे प्रयोजनं चिन्त्यम् । धर्षितः - अभिभूतः पूर्ववदकित्वम् । विशसितः - विकृतः ॥
सिद्धान्तकौमुदी
एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥
धृषिशसी वैयात्ये - धृषिशसी । वियातः = अविनीतः, तस्य भावो वैयात्यम् । तत्रञि धृषा प्रागल्भ्ये॑ इत्यस्य आदित्तवादेवेण्निषेधः सिद्धः,शसु हिंसाया॑मित्यस्य तुउदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑तीण्निषेधः सिद्धः, अतो नियमार्थमित्याह — अविनय एवेति । धृष्टो विशस्त इति । अविनीत इत्यर्थः । अन्यत्रेति । वैयात्याऽभावे इत्यर्थः । धर्षित इति । बालात्कृत इत्यर्थः । विससित इति । हिंसित इत्यर्थः । अत्र वैयात्याऽभावादिण्निषेधो नेति भावः । ननु धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु, ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपिआदितश्चे॑तीण्निषेद एव स्यादित्यत आह — भावादिकर्मणोस्त्विति । नास्तीति । अनभिधानादिति भावः । तत्र वृद्धसंमतिमाह — अत एवेति । भावकर्मणोर्धृषेरनभिधानादेवेत्यर्थः । अन्यथा धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः । चिन्त्यमिति । धृषेरादित्त्वं हि नवैयात्ये आदित्त्वलक्षणेण्निषेधार्थं , "धृषिशसी वैयात्ये" इत्येव सिद्धेः, नापि वैयात्यादन्यत्र आदित्त्वलक्षणेण्निषेधार्थम्, धृषेर्वैयात्य एव इष्निषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाऽभावात् । नापि धृषेर्वैयात्ये भावादिकर्मणोर्विषयेविभाषा भावादिकर्मणो॑रिति इड्विकल्पार्थं, भावादिकर्णोर्वैयात्ये धृषेरनभिधानात् । तस्माद्धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः । माध्वस्त्विति । अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाऽभावादिति भावः । तत्र अवैयात्ये भावे उदाहरति — धृष्टं धर्षितमिति । आदिकर्मण्युदाहरति — प्रधृष्टओः प्रधर्षित इति ।
धृषिशसी वैयात्ये - धृषिशसी । ञिधृषा प्रागल्भे । शसु हिंसायाम् । अनयोःआदितश्च॑यस्य विभाषे॑ति सूत्राभ्यामिट्प्रतिषेधे सिद्धेऽप्यनयोर्वैयात्य एवाऽनिट्त्वं नान्यत्रेति नियमार्थमित्याह — - अविनये एवेति । विरुद्धं यातो वियातः = अविनीतः, तस्य भावो वैयात्यम् । ननु धृषेःविभाषा भावादिकर्मणो॑रिति विकल्पे प्राप्ते नित्यार्थं कस्मान्न भवतीत्याशङ्कायामाह — नास्तीति । अनभिधानादिति भावः । अत्र प्रमाणमाह — अत एवेति । माधवस्त्विति । एवं च आदित्त्वस्य फलवत्तवाद्धरदत्तोक्तं यच्चिन्त्यं तदेव चिन्त्यमिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
धुषिशसी वैयात्ये किमिदं वैयात्य इति ? ।। वियातभावो(1) वैयात्यम् ।।