Page loading... Please wait.
7|2|16 - आदितश्च
॥ तस्मै पाणिनये नमः ॥
7|2|16
SK 3036
आदितश्च   🔊
सूत्रच्छेदः
आदितः (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आदितश्च धतोर् निष्थायम् इडागमो न भवति। ञिमिदा मिन्नः। मिन्नवान्। ञिक्ष्विदा क्ष्विण्णः। क्ष्विण्णवान्। ञिष्विदा स्विन्नः। स्वन्नवान्। कारो ऽनुक्तसमुच्चयार्थः। आश्वस्तः। वान्तः। योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोः इत्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्याम् यस्य विभाषा 7|2|15 इति प्रतिषेधो भविष्यति? ज्ञापनार्थम् एतत्। ज्ञापयति यदुपाधेर् विभाषा तदुपाधेः प्रतिषेधः इति। तेन विभाषा गमहनविदविशाम् 7|2|68 इत्यत्र विदेर्लाभार्थस्य विभाषा इति ज्ञानार्थस्य प्रतिषेधो न भवति। विदितः। विदितवान्।
भावादिकर्मणोरनन्तरं विभाषां वक्ष्यति, ततोऽन्यत्र कत्र्तरि कर्मणि चायं प्रतिषेधो विज्ञायते। `आआस्तः` इत। `आआस प्राणने` (धातुपाठः-1069)। `वान्तः` इति। `टु वम अद्गिरणे` (धातुपाठः-849)। `अनुनासिकस्य क्विझलोः क्ङिति` 6|4|15 इति दीर्घः। `योगविभागकरणं किमर्थम्` इति। पृष्टस्य `आदितश्च विभाषा भावादिकर्मणोः` इति। यद्येकयोगः क्रियते, ततो भावादिकर्मभ्यामन्यत्र प्रतिषेधो न स्यादिति प्रतिवचनमात्रङ्क्याह--`आदितश्च` इत्यादि। `आदितश्च विभाषा भावादिकर्मणोः` इत्येकयोगे भावादकर्मणोर्विभाषायां विहितायां ततोऽन्यत्र कत्र्रादौ `यस्य विभाषा` 7|2|15 इति प्रतिषेधो भविष्यति, तस्मादपार्थक योगविभागकरणम्। `ज्ञापनार्थम्` इत्यादिनाऽपार्थकत्वं परिहरति। `यदुपाधेर्विभाषा तदुपाधेः` इति। उभयत्रापि बहुव्रीहिः। उपाधिः=विशेषणम्। स चैतदर्थं उपाधिर्विज्र्ञेयः। यदि यदुपाधार्विभाषा तदस्योपाधेरपि प्रतिषेधः स्यात्, तदा योगविभागां न कुर्यात्। एकयोगेनापि भावादिकर्मणोर्विहिते विकल्पे ततोऽन्यत्र `यस्य विभाषा` 7|2|15 इति प्रतिषेधो लभ्यत एव, कृतश्च योगविभागः, तस्मादेतेन योगविभागकरणेन सूचितम्--यदुपाधेर्विभाषा तदुपाधेर्निषेध इति। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। अत्र विदेर्लाभार्थस्य विभाषेति विशिना तौदादिकेन साहचर्चाल्लाभार्थस्य तौदादीकस्य ग्रहणम्। `यस्य विभाषा` 7|2|15 इति च तस्यैव प्रतिषेधो भवति, नान्यस्य। यदि यदुपाधेर्विभाषा तदुपाधेर्निषेध इति ज्ञाप्यते, `जृव्रश्चोः क्त्विः` 7|2|55 , `उदितो वा` 7|2|56 इति क्त्वाप्रत्यये भावविषये विभाषिते `यस्य विभाषा` 7|2|15 इति भावविषय एव निष्ठायामिट्प्रतिषेधः स्यात्, न कर्त्तृकर्मणोः? नैष दोषः; आश्रीयमाणो हि धर्मो भेदको भवति। न च क्त्वाप्रत्यये निष्ठायां वा भिन्नमभिधेयं निमित्तत्वेनाश्रितम्। तस्माद्भवत्येवात्र प्रतिषेधः। अत्र लिङ्गम्--`तेन निर्वृत्तम्` 4|2|67 इति निद्र्दशः॥
आश्वस्तः, वान्त इति । भाष्यवार्तिकयोरनुक्तमपि प्रयोगबाहुल्यादुक्तम् । योगविभागकरणं किमिति । योगविभाग एव तावद्दोषः । अपि च एकयोगत्वे चकारो न कर्तव्यो भवतीति प्रश्नः । एवं चोतरग्रन्थे चकारो न पठितव्यः । पठ।ल्मानस्तु अनुक्तसमुच्चयार्थे व्याख्येयः । कथं पुनरेक्रयोगत्वे भावादिकर्मंभ्यामन्यत्र प्रतिषेधः सिद्धः तत्राह - अन्यत्रेति । यदुणधेरिति ।उपाधिरभिधेयादिर्भेदकः । यद्यौपाधीनां भेदकत्वं न स्यात्, योगविभागोऽनर्थकः स्यात् । भेदकत्वे तु तेषां भावादिकर्णणोर्विकल्पविधानात्कर्तृकर्मणोः प्रतिषेधो न स्यादिति तदर्थो योगविभागः कर्तव्यः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तेनेति । लाभार्थस्य विभाषेति । अत्र हेतुर्वक्ष्यते । यदि तर्ह्युपाधिर्भेदकः, ततः उदितो वा इति क्त्वाप्रत्यये भाववाचिनि विकल्प इति निष्ठायामपि भाव एव प्रतिषेधः स्यात्, नार्थान्तरे । शब्देनाश्रीयमाणो ह्युपाधिर्भेदकः । न च उदितो वा इत्यत्र भाववाचित्वं शब्देनाश्रितम् । तथा च तेन निर्वृतम्, निर्वृतेऽक्षद्यौउतादिभ्यः इत्यादेरुपपतिः ॥
सिद्धान्तकौमुदी
आकारेतो निष्ठाया इण्न स्यात् ॥
आदितश्च - आदितश्च । निष्ठाया इण्न स्यादिति । "आईदितः" इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तते इति भावः । ति च । "चरफलोश्चे" ति सूत्रानुवृतिंत मत्वाह — चरलोरिति । अत उत्स्यादिति । "उत्परस्याऽतः" इत्यतस्तदनुवृत्तेरिति भावः । कितीति ।दीर्घ इणः किती॑त्यतो मण्डूकप्लुप्त्या तदनुवर्तते इति भावः । वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला, निष्पला च, तयोः सेट्कत्वेन निष्ठां विना तकारादिप्रत्ययाऽभावात् । कथं तर्हीति । प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वाऽसंभवादिति भावः । समाधत्ते — फुल्लेति । ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यताअह — सूत्रं त्विति । उत्फुल्लसंफुल्ल्योरिति ।निष्ठातस्य लत्वनिपातन॑मिति शेषः । सोपसर्गार्थं वचनम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आदितश्च विभाषा भावादिकर्मणोः ।। किमर्थो योगविभागो न(2) आदितो विभाषा भावादिकर्मणोरित्येवोच्येत ।। केनेदानीं कर्तरि प्रतिषेधो भविष्यति ? ।। यस्य विभाषेत्यनेन ।। एवं तर्हि सिद्धे सति यद्योगविभागं करोति तज्ज्ञापयत्याचार्यः ‐ यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति ।। किमेतस्य ज्ञापने प्रयोजनम् ? ।। यस्य विभाषाऽविदेरित्युक्तं तन्न वक्तव्यं भवति ।।