Page loading... Please wait.
7|2|15 - यस्य विभाषा
॥ तस्मै पाणिनये नमः ॥
7|2|15
SK 3025
यस्य विभाषा   🔊
सूत्रच्छेदः
यस्य (षष्ठ्येकवचनम्) , विभाषा (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यस्य धातोः विभाषा क्वचिदिडुक्तः तस्य निष्ठायां परतः इडागमो न भवति। वक्ष्यति स्वरतिसूतिसूयतिधूञूदितो वा 7|2|44। विधूतः। विधूतवान्। गुहू गूढः। गूढवान्। उदितो वा वृधु वृद्धः। वृद्धवान्। तनिपतिदरिद्राणाम् उपसङ्ख्यानम् इति पतेर् विभाषितेट्कस्य अपि द्वितीयाश्रितातीतपतित 2|1|24 ति निपातनातिडागमः।
`विधूतः` इति। `धूञ्? कम्पने` (धातुपाठः-1836) `गूढः` इति। `गूहू संवरणे` (धातुपाठः-986)। ढत्वादिषु कृतेषु `ढ्रलोपे` 6|3|110 इत्यादिना दीर्घः। अतेह कस्मात्? प्रतिषेधो न भवति--पतित--पतित इति, भवति हि पतिर्विभाषितेट्? `सनीवन्तर्घ` 7|2|49 इत्यत्र `तनिपतिदरद्राणामुपसंख्यानम्` इति विकप्लेनोपसंख्यानात्? इत्यत आह--`द्वितीयाश्रित` इत्यादि॥
यस्य विभाषा इत्यनुवादवाक्यम् । अत्र च इड्विहितः इति वाक्यशेषः । यतदोर्नित्यसम्बन्धातस्य निष्ठायामिण्न भवतीति प्रतिषेधवाक्यं सम्पद्यते । निपात्नादिडागम इति । अपर आह - अनित्योऽयं प्रतिषेधः, कृती छेदने इत्यस्य इदित्करणसामर्थ्यात् । यदि ह्ययं विधिर्नित्यः स्यात् सेऽसिचि इत्यनेन विभाषितेट्त्वादनेनैव प्रतिषेधस्य सिद्धत्वादीदित्करणमनर्थकं स्यादिति ॥
सिद्धान्तकौमुदी
यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । उदितो वा (कौमुदी-3328) इति क्त्वायां वेट्त्वादिह नेट् । समक्नः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वात् व्रश्च--(कौमुदी-294) इति षत्वे प्राप्ते ॥ ।निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः (वार्तिकम्) ॥ वृक्णः । वृक्णवान् ॥
यस्य विभाषा - यस्य विभाषा । यस्येति । यस्मादित्यर्थः । निष्ठाया इण्न स्यादिति । "आईदितः" इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तत इति भावः । नन्वञ्चेर्नित्यं सेट्कत्वात् कथं तस्य क्वचिद्वेट्कत्वमित्यत आह — उदितो वेति । समन्क इति । सङ्गत इत्यर्थः । संपूर्वादञ्चुधातोः क्तः ।आद्र्धधातुकस्ये॑डिति प्राप्तस्य इटो निषेधः ।अनिदिता॑मिति नलोप- । चस्य कुत्वम् । उदक्तमुदकं कूपादिति । उद्धृतमित्यर्थः । अत्राऽपादानसमभिव्याहारसत्त्वान्नत्वं नेति भावः । "ओ व्रश्चू छेदने" सस्य श्चुत्वेन निर्देशः, अस्मात्क्तः,ग्रहिज्ये॑ति संप्रसारणम्, ऊदित्त्वेन वेट्कत्वादिहयस्य विभाषे॑ति नेट्, चस्य कुत्वेन कः,ओदिश्चे॑ति निष्ठानत्वं, तस्याऽसिद्धत्वेन झल्परत्वात्स्को॑रिति सलोपः णत्वम् । वृक्ण इति रूपमिति स्थितिः । तत्र नत्वस्याऽसिद्धत्वेन झल्परत्वात्व्रश्चे॑ति षत्वं स्यादित्यत आह — निष्ठादेशः षत्वेति । तथा च "व्रश्चभ्रस्जे" ति षत्वे कर्तव्ये नत्वस्याऽसिद्धत्वाऽभावेन झल्परकत्वाऽभावान्न षत्वमित्यर्थः । स्वरप्रत्ययेड्विधिषूदाहरणानि भाष्ये स्पष्टानि ।
यस्य विभाषा - यस्य विभाषा । यस्येत्याद्र्धधातुकापेक्षया षष्ठी । यदीयस्याद्र्धधातुकस्येत्यर्थः । समक्न इति । अञ्चु व्यक्ती॑त्यस्य,न त्वञ्चेः । तेनात्र न्तवाऽबावः । वृक्ण इति । ओव्रश्चू छेदने ।ग्रहिज्ये॑ ति संप्रसारणम् । नत्वस्याऽसिद्धत्वात्स्को॑रिति सलोपः,चोः कुः॑ इति कुत्वं च । ऊदित्वेन वेट्कत्वात्यस्य विभाषे॑ति निषठाया इडभावः । नुड्विधिलादेशविनामेषु वर्णैकदेशस्यापि वर्णत्वेन ग्रहणादृकारैकदेशो रेफो निमित्तमितिअट्कुप्वा॑ङिति नस्य णत्वम् । णत्वस्यविनाम॑ इति प्राचां संज्ञा ।ऋवर्णान्नस्य णत्व॑मिति यथाश्रुतपक्षेऽपि णत्वनिषेधार्थं क्षुभ्नादिषु नृमनशब्दपाठादृकारं निमित्तीकृत्याऽपिअट्कुप्वा॑ ङिति णत्वं भवत्येवेति दिक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
यस्य विभाषा ।। यस्य विभाषाऽविदेः ।। यस्य विभाषाऽविदेरिति वक्तव्यम् । इह मा भूत् ‐ -विदितः विदितवानिति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः । शविकरणस्य(1) विभाषा, लुग्विकरणश्चायम् ।।