Page loading... Please wait.
7|2|115 - अचो ञ्णिति
॥ तस्मै पाणिनये नमः ॥
7|2|115
SK 254
अचो ञ्णिति   🔊
सूत्रच्छेदः
अचः (षष्ठ्येकवचनम्) , ञ्णिति (सप्तम्येकवचनम्)
अनुवृत्तिः
वृद्धिः  7|2|114 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अचः अङ्गस्य ञ्णिति वृद्धिः
सूत्रार्थः
अजन्तस्य अङ्गस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।
यदि अजन्तात् अङ्गात् परः णित् / ञित् प्रत्ययः आगच्छति, तर्हि तस्य अजन्तस्य अङ्गस्य (अन्तिमस्वरस्य) वृद्धि-आदेशः जायते ।

उदाहरणानि एतानि -
1. नी + ण्वुल् [ण्वुल्तृचौ 3|1|133 इति ण्वुल्-प्रत्ययः]
→ नै + वु [सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन अचो ञ्णिति इति वृद्धि-आदेशः । ईकारस्य वृद्धिः ऐकारः]
→ नै + अक [युवोरनाकौ 7|1|1 इति वु-इत्यस्य अक-आदेशः]
→ नायक [एचोऽयवायावः 6|1|78 इति आय्-आदेशः]

2. भू + घञ् [भावे 3|3|18 इति घञ्-प्रत्ययः]
→ भौ + अ [सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन अचो ञ्णिति इति वृद्धि-आदेशः । ऊकारस्य वृद्धिः औकारः]
→ भाव [एचोऽयवायावः 6|1|78 इति आव्-आदेशः]

3. कृ-धातोः णिच्-प्रत्ययं कृत्वा "कारि" इति आतिदेशिकः धातुः जायते -
कृ + णिच् [हेतुमति च 3|1|26 इति णिच्]
→ कार् + इ [सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन अचो ञ्णिति इति वृद्धि-आदेशः । ऋकारस्य वृद्धिः आकारः, उरण् रपरः 1|1|51 इति सः रपरः]
→ कारि [सनाद्यन्ताः धातवः 3|1|32 इति धातुसंज्ञा]


विशेषः - इको गुणवृद्धी 1|1|3 इत्यनेन वस्तुतः इक्-वर्णस्यैव गुणः वृद्धिः वा भवेत्, परन्तु अस्मिन् सूत्रे "अचः" इति निर्देशसामर्थ्यात् अत्र इक्-भिन्नस्य अच्-वर्णस्य वृद्धिः आदेशः भवितुम् अर्हति । यथा, "गो"शब्दस्य प्रथमैकवचनस्य रूपम् -

गो + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ गो + स् [गोतो णित् 7|1|90 इत्यनेन ओकारान्तप्रातिपदिकात् परस्य सर्वनामस्थानप्रत्ययस्य णिद्वद्भावः]
→ गौ + स् [णिति प्रत्यये परे अजन्तस्य अङ्गस्य अचो ञ्णिति 7|2|115 इति वृद्धिः]
→ गौः [ससजुषोः रुँः 8|2|66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
One-line meaning in English
An अजन्त अङ्ग undergoes वृद्धि when followed by a णित् or a ञित् प्रत्यय.
काशिकावृत्तिः
अजन्तस्य अङ्गस्य ञिति णिति च प्रत्यये वृद्धिर् भवति। ञिति एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कारः। हारः। णिति गौः, गावौ, गावः। सखायौ, सखायः। जैत्रम्। यौत्रम्। च्यौत्नः। जयतेर् यौतेश्च उणादयो बहुलम् 3|3|1 इति ष्ट्रन् प्रत्ययः। च्यवतेरपि त्नण्।
`निश्चायनिष्पावौ` [`एकसतण्डुलनिश्चायः, द्वौ शूर्पनिष्पावौ`--काशिका] इति। निष्पूर्वाच्चिनीतेः, पुनातेश्च `परिमाणाख्यायां सर्वेभ्यः` 3|3|20 इति धञ्। `इदुपधस्य चाप्रत्ययस्य` 8|3|41 इति विसर्जनीयषत्वम्। `कारः, हारः` इति। कृञः ह्मञश्च भावे घञ्। `गौः, गावो गावः` इति। `गोतो णित्` 7|1|90 इति सर्वनामस्थानस्य णित्त्वम्। `सखायौ, सखायः` इति। अत्रापि `सख्युरसम्बुद्धौ` 7|1|92 इति। `जयतेः, यौतेश्च` इति। `जि जये` (धातुपाठः-561), `यु मिश्रणे` [`मिश्रणेऽमिश्रणे च`--धातुपाठः-] (धातुपाठः-1033)। `च्यवतेः` इति। `च्युङ छ्युङ्? ज्युङ्? प्रुङ्? प्लुङ्? गतौ`[नास्ति--धातुपाठः-] (धातुपाठः-955-958)। अज्ग्रहणमनिकोऽपि यथा स्यात्--गोरिति। ननु णित्करणसामथ्र्यादेव तत्र भविष्यति? नैतदस्ति; अस्ति ह्रन्यत्? णित्करणस्य प्रयोजनम्, किं तत्? गावौ, गाव इत्यवादेशे कृते `अत उपधायाः` 7|2|116 इति वृद्धिर्यथा स्यात्। यद्येवम्, गौरित्यत्रागुणविषये वृद्धिरियं कृतार्थेति कारयतीत्यादिषु परत्वाद्गुणेन बाध्येत? णित्करणसामथ्र्यान्न भविष्यतीति। एतच्चानुत्तरम्; `णेरनिटि` 6|4|51 इत्येवमादौ णित्करणस्य चरितार्थत्वात्? नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति--गुणविषयेऽपि वृद्धिरभवतीति; यदयं जागत्र्तर्वृद्धिविषये प्रतिषेधविषये च `जाग्रोऽविचिण्णल्ङित्सु` 7|3|85 इति पुनर्गुम आरभ्यते। यदि हि गुणविषये वृद्धर्न स्यात्, तदा जागरयतीत्यादिषु गुणोऽस्त्येवेति तद्विषये गुणारम्भोऽनर्थकः स्यात्। वृद्धिविषयता चारम्भस्य चिण्णलोः प्रतिषेधाद्विज्ञायते। अथ योगविभागः किमर्थः, न `ञ्णित्यत उपथायाः` इत्येदोच्येत? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने यद्यपि गावो, गाव इत्यत्रावादेशे कृते चायकः, लावक इत्यत्र गुणे कृतेऽयवादेशयोः कृतयोः सिध्यति--गौः, सखायौ; जैत्रमित्यादौ तु न सिध्यति; अयवादेशयोर्गुणस्य च यथायोगमसम्भवात्? स्माद्यथायोगं योगविभागः कत्र्तव्यः॥
तण्डुलनिश्चाय इत्यादौ परिमाणाख्ययां सर्वेभ्यः इति घञ् । गौः, गावौ, गाव इति । अत्र गौरित्येतत्साक्षादुदाहरणम्, इतरत्रावादेशे कृते अत उपधायाः इत्येव सिद्धम् । सखायौ, सखाय इति । अत्रापि सखायावित्येतदुदाहरणम्, जसि तु जसि च इति गुणे अयादेशे च कृते पूर्ववत्सिद्धम् । च्यौत्नमिति बलनाम, छान्दसम् -- तमिच्च्यौत्नैरार्यन्ति । किमर्थ पुनरिदमुच्यते, यावता जेतृयोतृशब्दाभायां प्रज्ञाद्यणि जैत्रम्, यौत्रमिति सिद्धम् । च्यौत्नमिति उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तण्उलनिश्चायः श्चावकः, लावक इत्यादौ गोतो णित् इत्येतट् गोत औत् इति वक्तव्यम् - गोत औकारादेशो भवति सर्वनामस्थाने परतः । कथं सखायौ, सखायः सख्युरसम्बुद्धौ इत्येतत् सख्युरैत् तैति वक्ष्यामि, अत्रोच्यते ञ्णिति इति तावदुतरार्थं वक्तव्यम् । किञ्च - प्रियमाचष्टे प्राप्ययतीत्यादौ प्राद्यादेशेषु वृद्धिने स्यात् । अथ ते दीर्घान्ता विधीयेरन् तदतिगुरु स्यादिति यथान्यासमेवास्तु ॥
सिद्धान्तकौमुदी
ञिति णिति च प्रत्यये परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥
अचो ञ्णिति - अचोञ्णिति । ञ् च ण् चञ्णौ, तौ इतौ यस्य तत् ञ्णित् । "मृजेः" इत्यतोवृद्धि॑रित्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतमचा विशेष्यते । ततस्तदन्तविधिः । तदाह-अजन्तस्येत्यादिना । स्थानसाम्यादिकारस्य वृद्धिरैकारः । तस्य आयादेश इत्यभिप्रेत्याह-सखायाविति । एवं-सखायः । सखायं सखायौ । सखीनिति शसि हरिवद्रूपम् । असर्वनामस्थानत्वाण्णित्त्वाऽभावान्न वृद्धिः । घिसंज्ञाऽभावादिति ।शेषो घ्यसखी॑त्यत्र असखीति पर्युदासादिति भावः । न तत्कार्यमिति । घिप्रयुक्तकार्यं नेत्यर्थः । सख्येति । सखि-आ इति स्थिते घित्वाऽभावादाङो नाऽस्त्रियामिति नाभावाऽभावे यणि रूपम् । सख्ये इति । सखि-ए इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि रूपम् । ङसिङसोः-सखि अस् इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि सख्यस् इति स्थिते ।
अचो ञ्णिति - अचोञ्णिति ।मृजेर्वृद्धि॑रित्यतोवृद्धि॑रित्यनुवर्तते,अङ्गस्ये॑ति चानुवृत्तमचा विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेन व्याचष्टे — -अजन्ताङ्गस्येति ।
लघुसिद्धान्तकौमुदी
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥
महाभाष्यम्
अचो ञ्ञ्णिति अज्ग्रहणं किमर्थम् ? ।। वृद्धावज्ग्रहणं गोऽर्थम् ।। वृद्धावज्ग्रहणं क्रियते (किं प्रयोजनम्(1) ? ।। गोऽर्थम् ।) गोतो वृद्धिर्यथा स्यात् ‐ गौरिति ।। नैतदस्ति प्रयोजनं, णित्करणसार्मथ्यादेवात्र वृद्धिर्भविष्यति ।। (अस्त्यन्यण्णित्करणस्य(1) प्रयोजनम् ।। किम् ? ।। गावौ गाव इत्यत्राऽत उपधाया इति वृद्धिर्यथा स्यात् ।।) ।। अथ योगविभागः किमर्थो न ञ्ञ्णित्यत उपधाया इत्येवोच्येत ।। का रूपसिद्धिः-चायको लावकः कारकः हारकः(2) ? ।। गुणे कृतेऽयवो रपरत्वे चाऽत उपधाया इत्येव सिद्धम् ।। (न सिद्ध्यति) । ।। योगविभागः सखिव्यञ्ञ्जनाद्यर्थः ।। योगविभागः क्रियते ।। (किमर्थः ? ।। सखिव्यञ्ञ्जनार्थः ।) सख्यर्थो व्यञ्ञ्जनाद्यर्थश्च । सख्यर्थस्तावत् ‐ सखायौ सखायः । व्यञ्ञ्जनाद्यर्थः ‐ जैत्रं यौत्रं च्यौत्रम् ।। योगविभागे चेदानीं सखिव्यञ्ञ्जनाद्यर्थे क्रियमाणेऽज्ग्रहणमपि कर्तव्यं भवति ।। किं प्रयोजनम् ? ।। गोर्थम् ।। ननु चोक्तं णित्करणसार्मथ्यादेवात्र वृद्धिर्भविष्यति ।। अस्त्यन्यण्णित्करणे प्रयोजनम् ।। किम् ? ।। गावौ गावः । अवादेशे कृतेऽत उपधाया इति वृद्धिर्यथा स्यात् ।। यत्तु(3) सौ णित्करणं तदनवकाशं, तस्याऽनवकाशत्वादेव वृद्धिर्भविष्यति ।। यथैव खल्वपि णित्करणसार्मथ्यादनिकोऽपि वृद्धिः प्रार्थ्यते एवं तत्वमपि प्राप्नोति । तत्वमपि हि ञ्ञ्णितीत्युच्यते । तस्मादज्ग्रहणं कर्तव्यम्(1) ।। (अचो ञ्ञ्णिति) ।।