Page loading... Please wait.
7|2|114 - मृजेर्वृद्धिः
॥ तस्मै पाणिनये नमः ॥
7|2|114
SK 2473
मृजेर्वृद्धिः   🔊
सूत्रच्छेदः
मृजेः (षष्ठ्येकवचनम्) , वृद्धिः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
मृजेः अङ्गस्य वृद्धिः
सूत्रार्थः
मृज्-धातोः अङ्गस्य इक्-वर्णस्य वृद्धिः भवति ।
"मृज्" (शुद्धौ) इति अदादिगणस्य धातुः । अस्य धातोः अङ्गस्य अनेन सूत्रेण वृद्धि-आदेशः भवति । इको गुणवृद्धी 1|1|3 इत्यनेन अस्मिन् सूत्रे "इकः" इति पदम् उपतिष्ठते, अतः "मृज्-धातोः अङ्गस्य इकः वृद्धिः भवति" इति ज्ञायते । मृज्-इत्यत्र ऋकारमात्रः इक्-वर्णः अस्ति, अतः अस्य वृद्धि-आदेशं कृत्वा आकारः भवति, उरण् रपरः 1|1|51 इत्यनेन च सः रपरः भवति । अतः मृज्-इत्यस्य स्थाने "मार्ज्" इति जायते ।

अयं आदेशः आर्द्धधातुके प्रत्यये परे अपि भवति, सार्वधातुके प्रत्यये परे अपि भवति । परन्तु कित् / गित् / ङित् प्रत्यये परे तु अनेन सूत्रेण वृद्ध्यौ प्राप्ते ग्क्ङिति च 1|1|5 इत्यनेन वृद्धेः निषेधः भवति । उदाहरणानि एतानि -


1. मृज्-धातोः लट्लकारस्य प्रथमैकवचनस्य रूपम् -
मृज् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ मृज् + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ मृज् + शप् + ति [कर्तरि शप् 3|1|68 इति शप्]
→ मृज् + ति [अदिप्रभृतिभ्यः शपः 2|4|72 इति शपः लुक्]
→ मार्ज् + ति [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन ऋकारस्य गुणे प्राप्ते अपवादत्वेन मृजेर्वृद्धिः 7|2|114 इति अङ्गस्य वृद्धिः]
→ मार्ष् + ति [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति जकारस्य षकारः]
→ मार्ष् टि [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]
→ मार्ष्टि

2. मृज्-धातोः तृच्-प्रत्यये परे वैकल्पिकः इडागमः भवति अतः रूपद्वयं जायते -
अ) इडागमस्य उपस्थितौ प्रक्रिया इयम् -
मृज् + तृच् [ण्वुल्तृचौ 3|1|133 इति तृच् -प्रत्ययः]
→ मृज् + इट् + तृ [स्वरतिसूतिसूयतिधूञूदितो वा 7|2|44 इति वैकल्पिकः इडागमः ]
→ मार्ज् + इट् + तृ [मृजेर्वृद्धिः 7|2|114 इति अङ्गस्य वृद्धिः]
→ मार्जितृ

आ) इडागमस्य अभावे प्रक्रिया इयम् -
मृज् + तृच् [ण्वुल्तृचौ 3|1|133 इति तृच् -प्रत्ययः]
→ मार्ज् + तृ [मृजेर्वृद्धिः 7|2|114 इति अङ्गस्य वृद्धिः]
→ मार्ष् + तृ [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति जकारस्य षकारः]
→ मार्ष् + टृ [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]
→ मार्ष्टृ

3. मृज्-धातोः क्त-प्रत्ययान्तरूपे यस्य विभाषा 7|2|15 इत्यनेन इडागमनिषेधः भवति, अतः प्रक्रिया इयम् जायते -
मृज् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ मृज् + त [मृजेर्वृद्धिः 7|2|114 इत्यनेन मृज्-धातोः वृद्ध्यौ प्राप्ते ग्क्ङिति च 1|1|5 इत्यनेन तस्य निषेधः । यस्य विभाषा इत्यनेन इडागम-निषेधः]
→ मृष् + त [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति जकारस्य षकारः]
→ मृष् + ट [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]
→ मृष्ट
One-line meaning in English
The verb root मृज् undergoes a वृद्धि.
काशिकावृत्तिः
विभक्तौ इति निवृत्तम्। मृजेरङ्गस्य इको वृद्धिर् भवति। मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। मृजेरिति धातुग्रहणम् इदम्, धातोश्च कार्यम् उच्यमानं धातुप्रत्यय एव वेदितव्यम्। तेन किंसपरिमृड्भ्याम्, कंसपरिमृड्भिः इत्यत्र न भवति।
`मार्ष्टा` इति। `मृजू शृद्धौ` (धातुपाठः-1066) व्रश्चादिसूत्रेण 8|2|36 षत्वम्, `ष्टुत्वम्। मृजेः क्विबन्ताद्विभक्तावुत्पन्नायां कंसपरिमृङ्भ्याम्, कंसपरिमृङ्भिरित्यत्र वृद्धिः प्राप्नोति, न च क्विबाश्रयः `क्ङिति च` 1|1|5 इति वृद्धिप्रतिषेधो भवितुमुत्सहते; यस्मात्? क्ङितीति निंमित्तसप्तमी। न चात्र क्विब्निमित्ता वृद्धिः प्राप्नोति, किं तर्हि? विभक्तिनिम्त्ता। तस्मात्? तस्याः प्रतिषेधो वक्तव्य इत्यत आह--`मुजरिति धातुग्रहणम्` इत्यादि। भ्रौणहत्य 6|4|174 मिति निपातनेन ज्ञापितोऽयमर्थः--धाताः कार्यमुच्यमानं धातुप्रत्यय एव भवतीति, तेन कंसमृङ्भ्यामित्यत्र न भवति। यो हि धातोरित्येवं विहितः स धातुप्रतययः। न च भ्यामादिकं धातोरित्येवं विहितम्, किं तर्हि? प्रातिपदिकादित्येवम्, तस्मान्नासो धातुप्रत्ययः। `कंसपरिमृङ्भ्याम्` इत्यादि। पूर्ववत्? षत्वे कृत षकारस्य जश्त्वं डकारः॥
धातोश्च कार्यमुच्यमानमिति । वस्तुतो धातोर्यत्कार्यमुच्यते, तदिह धातोरुच्यमानमिति विवक्षितम् । स धातुः स्वरूपेणैव गृह्यतां मा वा, ग्राहितेन अनुदातस्य चर्दुपधस्यान्यतरस्याम् इत्ययमप्यमागमो धातुप्रत्यय एव भवति, न प्रमृज्भ्यामित्यादौ । तत्प्रत्यय इति । धातोरित्येवं विहिते । कंसपरिमृड्भ्यामिति । अत्र तदन्तविधिना प्रसङ्गः ॥
सिद्धान्तकौमुदी
मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे ॥ ।क्ङित्यजादौ वेष्यते (वार्तिकम्) ॥ व्रश्च (कौमुदी-294) इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमाटर्‌ । अमार्जम् । अमार्जीत्-अमार्क्षीत् । 1067 रुदिर् अश्रुविमोचने
मृजेर्वृद्धिः - मृजेर्वृद्धिः । "इको गुणवृद्धी" इति परिभाषया "इक" इत्युपस्थितम् । मृजेरित्यवयवषष्ठी । तदाह — मृजेरिको वृद्धिः स्यादिति ।धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान॑मिति परिभाषामभिप्रेत्य आह — धातुप्रत्यये परे इति । धातोर्विहिते प्रत्यये इत्यर्थः । तेन परिमृङ्भ्यामित्यत्र न वृद्धिरिति भावः । गुणापवादोऽयम् । क्ङित्यजादौ वेष्यते ।मृजेर्वृद्धि॑रिति शेषः । "इको गुणवृद्धी" इति सूत्रभाष्ये इदं पठितम् । व्रश्चेति ष इति । मृज्-ति इति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः । मृष्ट इति । ङित्त्वान्न वृद्धिर्नापि गुण इति भावः । मृजन्ति मार्जन्ति इति ।क्ङित्यजादा॑विति वृद्धिविकल्प इति भावः । मार्षि मृष्ठः मृष्ठ । मार्ज्मि मृज्वः मृज्मः । ममार्जेति । णलिमृजेर्वृद्धि॑रिति अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह — ममार्जतुः ममृजतुरिति । ममार्जुः ममृजुरित्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्पं मृजेर्वृदिंध च मत्वा आह — ममार्जिथ ममार्ष्ठेति । इडभावे जस्य व्रश्चेति षः । थस्य ष्टुत्वेन ठ इति भावः । ममार्जथुः — ममृजथुः, ममार्ज — ममृज । ममार्ज, ममार्जिव-ममृजिव-मम#ऋज्व, ममार्जिम-ममृजिम- ममृज्म । लुटआह — - मार्जिता मार्ष्टेति । ऊदित्त्वदिटि, तदभावे चमृजेर्वृद्धि॑रिति भावः । मार्जिष्यति — माक्ष्र्यति । मार्ष्टु — मृष्टात्, मृष्टाम्, मार्जन्तु — मृज्नतु । मृड्ढीति । हेरपित्त्वेन ङित्त्वान् वृद्धिः । व्रश्चादिना जस्य षः । हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वे ढः । मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । लङ्याह — अमार्डिति । तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे व्रश्चादिना जस्य षः, तस्य जश्त्वचर्त्वे इति भावः । अमृष्टाम् अमार्जन्- अमृजन् । अमार्ट् अमृष्टम् अमृष्टं । अमार्जमिति । अमृज्व अमृज्म । मृज्यात् । मृज्याताम् । मृज्यात् । मृज्यास्ताम् । अमार्जीत् अमार्क्षीदिति । ऊदित्त्वादिड्विकल्प इति भावः । इट्पक्षे अमार्जिष्टाम् अमार्जिषुरित्यादि सुगमम् । इडभावे आमार्ष्टाम् अमार्क्षुः । अमार्क्षीः । अमाष्र्टम् अमाष्र्ट । अमाक्र्षम् अमार्क्ष्व अमार्क्ष्म । अमार्जिष्यत — अमाक्ष्र्यत् । रुधिर्धातुरितित् । सेट् ।
मृजेर्वृद्धिः - मृजेर्वृद्धिः । गुणापवादः । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमित्याह — धातुप्रत्यये किम् । कंसपरिमड्भ्याम् । *क्ङित्यजादाविति । एतञ्चाऽन्येषां वैयाकरणानां मतम् — इको गुणवृद्धी॑ इति सूत्रे भाष्यकृता स्वीकृतम् । मृड्ढीति ।हुझल्भ्यःर॑ इति हेर्धिः । षत्वष्टुत्वजश्त्वानि ।
लघुसिद्धान्तकौमुदी
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥
महाभाष्यम्
मृजेर्वृद्धिः ।। मृजेर्वृद्धिविधौ क्विप्रतिषेधः(1) ।। मृजेर्वृद्धिविधौ क्व्यन्तस्य प्रतिषेधो वक्तव्यः । कंशपरिमृड्भ्यां कंशपरिमृडि्भः । ।। धातौः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात्सिद्धम् ।। अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धम् । धातुप्रत्यये कार्यं भवतीत्येषा परिभाषा कर्तव्या ।। कान्येतस्याः परिभाषायाः प्रयोजनानि ? ।। प्रयोजनं(3) सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम् ।। सृजि-रज्जुसृड्भ्याम् रज्जुसृडि्भः । सृजि ।। दृशिदेवदृग्भ्याम् देवदृग्भिः । दृशि ।। मस्जि ‐ -उदकमग्भ्याम् । उदकमग्भिः । मस्जि ।। नशि-प्रणड्भ्यां(4) प्रणडि्भः । नशि ।। हन्ति ‐ वार्त्रघ्नः । भ्रौणघ्नः । हन्ति ।। गिरति(5) ‐ देवगिरौ देवगिरः । (गिरति) ।। यदि स्वरूपग्रहण इत्युच्यते ‐ प्रसृग्भ्यां( 6) प्रसृग्भिः । अनुदात्तस्य चर्दुपधस्यान्यतरस्यामित्यम् प्राप्नोति । एवं तर्हीयं परिभाषा कर्तव्या ‐ धातोः कार्यमुच्यमानं तत्प्रत्यये भवती(7)ति ।। सा तर्ह्येषा परिभाषा कर्तव्या ? ।। न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति ‐ भवत्येषा परिभाषा यदयं भ्रौणहत्ये तत्वं शास्ति ।। ( मृजेर्वृद्धिः ) ।।