Page loading... Please wait.
7|2|107 - अदस औ सुलोपश्च
॥ तस्मै पाणिनये नमः ॥
7|2|107
SK 437
अदस औ सुलोपश्च   🔊
सूत्रच्छेदः
अदसः (षष्ठ्येकवचनम्) , औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
सौ  7|2|106 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अदसः सौ औ सुलोपः च
सूत्रार्थः
अदस्-शब्दस्य सुँ-प्रत्यये परे "औ" आदेशः भवति, अदस्-शब्दात् परस्य "सुँ" प्रत्ययस्य च लोपः भवति ।
प्रथमैकवचनस्य सुँ-प्रत्ययस्य उपस्थितौ अदस्-सर्वनामशब्दस्य अन्तिमसकारस्य "औ" आदेशः भवति, तथा, सुँ-प्रत्ययस्य लोपः अपि भवति । यथा -

अदस् + सुँ
→ अद औ [अदस औ सुलोपश्च 7|2|107 इति सकारस्य औकारः, सुलोपश्च]
→ अदौ [प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते; नादिचि 6|1|103 इति निषेधः । अतः वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन सुँ-प्रत्ययविशिष्टम् अङ्गकार्यम् भवति एव । अतः तदोः सः सावनन्त्ययोः 7|2|106 इति दकारस्य सकारः]

अत्र एकं वार्तिकं ज्ञातव्यम् - औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च
अस्य वार्तिकस्य अर्थः अयम् - अव्ययसर्वनाम्नाम् अकच् प्राक् टेः 5|3|71 अनेन सूत्रेण सर्वनामशब्दानां विषये अकच्-प्रत्ययः स्वार्थे प्रयुज्यते । अयम् अकच्-प्रत्ययः अङ्गस्य "टि"संज्ञकात् पूर्वम् आगच्छति, अतः अदस्-शब्दात् अकच्-प्रत्यये कृते "अदकस्" इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे अनेन सूत्रेण निर्दिष्टः औ-आदेशः विकल्पेन भवति । तथा च, यत्र अयम् आदेशः न भवति, तत्र सकारात् परस्य वर्णस्य उत्वम् अपि भवति । यथा -
1) औ-आदेशस्य उपस्थितौ -
अदकस् + सुँ
→ अदक औ [अदस औ सुलोपश्च 7|2|107 इति सकारस्य औकारः, सुलोपश्च]
→ अदकौ [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ असकौ [ तदोः सः सावनन्त्ययोः 7|2|106 इति दकारस्य सकारः]
2) औ-आदेशस्य अभावे -
अदकस् + स्
अदक अ + स् [त्यदादीनामः 7|2|102 इति सकारस्य अकारः]
→ अदक + स् [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ असक + स् [तदोः सः सावनन्त्ययोः 7|2|106 इति दकारस्य सकारः]
→ असुक + स् [औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च अनेन वार्तिकेन औ-आदेशस्य अभावे सकारात् परस्य अकारस्य उकारः]
→ असुकः [विसर्गनिर्माणम्]
One-line meaning in English
The word अदस् gets an "औ" आदेशः when followed by the सुँ-प्रत्यय, and the सुँ-प्रत्यय is removed.
काशिकावृत्तिः
अदसः सौ परतः सकारस्य औकारादेशो भवति सोश्च लोपो भवति। असौ। औत्वप्रतिषेधः साकच्काद् वा वक्तव्यः सादुत्वं च। यदा च औत्वप्रतिषेधः तदा सकारादुत्तरस्य उत्वं भवति। असुकः। असुकौ। उत्तरपदभूतानां त्यदादीनाम् अकृतसन्धीनाम् आदेशा वक्तव्याः। परमाहम्। परमायम्। परमानेन। अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते। ह्रस्वाल् लुप्येत सम्बुद्धिर् न हलः प्रकृतं हि तत्। आप एत्वं भवेत् तस्मिन् न झलीत्यनुवर्तनात्। प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते।
`सौ` इत्येव। त्यदाद्यत्वापवादोऽदस औत्वं विधीयते। `असौ` इति। पूर्वसूत्रेण दकारस्य सकारः, `वृद्धिरेचि` 6|1|85 इति वृद्धिः। `यदा च` इत्यादि। `सादुत्वञ्च` इति। चकारः सन्नियोगार्थः। तेन यस्मिन्? पक्षे औत्वप्रतिषेधः, तस्मिन्नेव पक्षे सादुत्तरस्याकारस्योत्त्वं विधीयते। `उत्तरपदमभूतानाम्` इत्यादि। इह परमाहम्, परमानेनेति `त्वाहौ सौ` 7|2|94 , `इदोऽय्? पुंसि` 7|2|111 , `अनाप्यकः` 7|2|112 इति समासाद्? या विभक्तिः, तस्यामेत आदेशः भवन्तो बहिरङ्गा भवन्ति; प्रागेव तु विभक्त्युत्पत्तेः। अकः सवर्णे दीर्घत्वं प्राप्नुवदन्तरङ्गम्, तस्मात्? पूर्वं तदेव स्यात्, पश्चादादेशाः स्युः; ततश्च परमहम्, परमयम्, परमनेनेत्यनिष्टानि रूपाणि रूपणि स्युः। तस्मादुत्तपदभूतानामकृतसवरसन्धीनां त्यदीदीनामादेशा वक्तव्याः=व्याख्येया इत्यर्थः। आचार्यप्रवृत्तिज्र्ञापयति--पूर्वोत्तरयोः पदयोस्तावत्? कार्यं प्रथमं भवति, पश्चादेकादेश ति। यदयं `नेन्द्रस्य परस्य` 7|3|22 इति प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? इन्द्रे द्वावचौ, तत्रैकः--`यस्येति च` 6|4|148 इति लोपेनापह्नियते, अपरः--एकादेशेनेत्यनच्क इन्द्रशब्दः सम्पन्नः, तत्र को वृद्धिप्रसङ्गः! पश्यति त्वाचार्यः--पुर्वोत्तरयोः पदयोस्तावत् कार्यं भवति, पश्चादेकादेश इति; यतः `नेन्द्रस्य परस्य` 7|3|22 इति वृद्धिप्रतिषेधं शास्ति। तदेतस्माज्ज्ञापकादकृतस्वरसन्धीनामुत्तरपदभूतानां त्यदादीनामादेशा भवन्तीति। `अवसः सोर्भवेदौत्वम्` इत्यादि। अवधारणमत्र द्रष्टव्यम्। अदःशब्दात्? परस्य सोरेवौत्वं भवेत्। भवतु, मा वा भूत्। अदश्शब्दस्य त्यदाद्यत्वे कृते `वृद्धिरेचि` 6|1|85 इति वृद्धौ कृतायामसाविति सिध्यत्येव, तत्? किमर्थं सुलोपे विधीयते? निरर्थकतवान्नैवं सोर्लोपो विधेयः, औत्वमेव विधेयम्। अत्र दोषमाह--`ह्यस्वाल्लुप्येत सम्बुद्धिः` इति। हेऽसावित्यत्र `एङ ह्यस्वात्? सम्बुद्धेः` 6|1|67 इति सोर्लोपः प्रसज्येत, ततश्च सम्बुद्धौ हेऽसाविति न सिध्येत्? `न हलः प्रकृतं हि तत्` इति। नायं देषः; हलः सम्बुद्धेर्लोप औत्वे कृतेऽण्? भवति, न हलिति, तत्कुतो लोपप्रसङ्गस्तत्र! तर्हि हल्ग्रहणं कत्र्तव्यम्? न कत्र्तव्यम्; यस्मात्? प्रकृतं तत्। `हल्ङ्याब्भ्यः सुतिस्यपृक्तं हल्` 6|1|66 इत्यतो हल्ग्रहणं प्रकृतमेव। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्देशेन चेहार्थः, तथापि `एङ्? ह्यस्वात्` 6|1|67 इति पञ्चमी हलित्यस्याः प्रथमायाः षष्ठीत्वं प्रकलप्यिष्यति; `तस्मादित्युत्तरस्य` 1|1|66 इति वचनात्। अथं तर्हि दोषः--`आप एत्वं भवेत्? तस्मिन्` इत्यादि। तस्मिन्नोकारे परतस्त्यदाद्यत्वे कृते स्त्रियां टापि--हे असौ ब्राआहृणीत्यतर `सम्बुद्धौ च` 7|3|106 इत्येत्वं स्यात्, यथा हि हे खट्वे इत्यत्र? `न ज्ञलीत्यनुवत्र्तनात्` इति। नायं दोषः; `सम्बुद्धो च` 7|3|106 इत्यत्र `बहुवचने झल्येत्` 7|3|103 इत्यनुवत्र्तते, तेन झलादौ सम्बुद्धावेत्येन भवितव्यम्। च चौकारे कृते झलादिः सम्बुद्धिर्भवति, किं तर्हि? अजादिः। `प्रत्ययस्थाच्च कादित्त्वं शीभावश्च प्रसज्यते` [`प्रसज्येत`--प्रा। मुद्रितः पाठः] इति। पूर्वकश्चकारः तह्र्रर्थे, इतरः समुच्चये। अयं तर्हि दोषः--असकौ ब्राआहृणीत्यत्राज्ञाताद्यर्थविवक्षायामकचि कृते टापि च `प्रत्ययस्थात्? कात्` 7|3|44 इत्यादिना कात्? पूर्वस्येत्वं प्राप्नोति? असौ ब्राआहृणी इत्यत्र `औङ आपः` 7|1|18 इत्यनेन शीभावोऽदसस्त्ववयव ओकारे कृते टाबेव नास्तीति नैतद्दोषद्वयं सम्भवति। शीभावदोषश्च पाक्षिको वेदितव्यः, यस्मिन्? पक्षे सामान्यग्रहणार्थो ङकारः प्रत्ययस्यासज्यते। यदा तु पूर्वसूत्रनिर्देशस्तदा द्विवचनयोरेव शीभावः; तयोरेव पूर्वाचार्यैर्ङित्वस्य कृतत्वात्। अन्यस्य प्राप्तिरेव नास्ति; आङित्त्वात्॥
असुक इति । अदकस् सु इति स्थिते औत्वप्रतिषेधात्यदाद्यत्वं दकारस्य सत्वं सकारादुतरस्य चाकचोऽकारस्य उत्वम् । उतरपदभूतानामित्यादि । समासाद्या विभक्तिरुत्पद्यते, तदपेक्षत्वादादेशो बहिङ्गः, ततश्चान्तरङ्गत्वादेकादेशे कृते तस्यादिवद्भावादादेशेषु क्रियमाणेषु परमयम्, परमहमित्याद्यनिष्टप्रसङ्गः । तस्मादकृतसन्धिकार्याणामेवामी आदेशा वक्तव्याः । एतच्च नेन्द्रस्य परस्य इत्यत्र ज्ञापयिष्यते । अदसः सोर्भवेदित्यादि । अदस औ इत्येतावदेव सूत्रमस्तु, सौ इत्येव अदसः इति पञ्चमी, तया पूर्वसूत्रे कृतार्थायाः सप्तम्याः षष्ठ।लं प्रकल्पितायाम् अदस उतरस्य सोरौकारो भवतीत्यर्थः, तत्र त्यदाद्यत्वे कृते असाविति सिद्धे किं सुलोपो विधीयते । ह्रस्वाल्लुप्येत सम्बुद्धिः । यदि सोरौकारो विधीयते, तदा हि असावित्यत्र त्यदाद्यत्वे ह्रस्वात्परस्याः सम्बुद्धेरौकारस्य लोपः स्यात्, न हलः नैष दोषः, हलः सलोपे विधीयते ए। यद्येवम्, तत्र हल्ग्रहणं कर्तव्यम् नेत्याह - प्रकृतं हि तत् । हल्ङ्याब्भ्यो दीर्घात् इत्यत्र । ननु चेदं प्रथमानिर्दिष्टम्, षष्ठआआ प्रकल्पयिष्यति तस्मादित्युतरस्य इति । पूर्वसूत्रवद्वा प्रथमाया तएव यथाकथञ्चिन्निर्वाहो भविष्यति । आप एत्वं भवेतस्मिन् । इह तर्हि स्त्रियां सम्बुद्धौ असा - औ आङ् चापिः सम्बुद्धौ च थैत्येवं प्राप्नोति, प्रकृते रेव त्वौत्वे टापोऽभावादेत्वाभावः, न, झलीत्युवर्तनात् नैष दोषः, बहुवचने झल्येत् इत्यतो झलीति तत्रानुवर्तते - झलादौ सम्बुद्धाविति, औत्वे कृते अझलादित्वान्न भविष्यति । प्रत्ययस्थाच्च कादित्वमिति । इह तर्हि स्त्रियामकचि असका - औ इति स्थिते प्रत्ययस्थात्कात्पूर्वस्य इतीत्वं प्राप्नोति, प्रकृतेरेव त्वौकारे टापोऽभावादित्वाभावः । शीभावश्च प्रसज्यते । इह च स्त्रियाम् असा - औ इति स्थिते औह आपः इति शीभावः प्राप्नोति, औत्वविधानं तु पुंसि चरितार्थम् पाक्षिक एष दोषः, यदा औङ् आपः इति पूर्वाचार्यनिर्देशस्तदा नास्ति, इतरयोरस्तु पक्षयोरस्ति ॥
सिद्धान्तकौमुदी
अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः सौ (कौमुदी-381) इति दस्य सः । असौ ।।औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च (वार्तिकम्) ॥ प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । अदसोऽसेः (कौमुदी-419) इति मत्वोत्वे । अमू । जसः शी (कौमुदी-214) । आद् गुणः (कौमुदी-69)
अदस औ सुलोपश्च - अदस्शब्दात्सौ त्यदाद्यत्वे प्राप्ते-अदस औ ।अदस इति षष्ठी । "औ" इत्यविभक्तिकनिर्देशः । "तदोः सः सौ" इत्यतःसा वित्यनुवर्तते । तदाह — अदस इति । "अन्तादेश" इत्यलोन्त्यपरिभाषालभ्यम् । सकारस्य औत्त्वे कृते हलः परत्वाऽभावाद्धल्ङ्यादिलोपेऽप्राप्ते सुलोपविधिः । दस्य स इति । मुत्वापवाद इति भावः । असौ इति । अदस्स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दस्य सत्वे च रूपम् ।अतअव्ययसर्वनाम्ना मित्यकचि अदकस्शब्दात्सो विशेषमाह — औत्वप्रतिषेध इति ।अदस औ सुलोपश्चे॑त्यत्र अदस्शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेदो वक्तव्यः । "तदोः सः सौ" इति दकारस्य सकारे कृते तस्मात्सकारात्परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थः । ततश्च अदकस्स् इति स्थिते, औत्वाऽभावे, दसय् सत्वे सति, सकारातपरस्य अकारस्य उत्वे सति, त्यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे असुक इति रूपम् । औत्वप्रतिषेधाभावपक्षे अदकस्स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूपं वक्ष्यति । तत्र औत्वप्रतिषेधाऽभावपक्षे औत्वे कृते सकारादकारस्य उत्वविकल्पः कुतो न स्यादित्यत आह — प्रतिषेधेति ।सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः॑ इति न्यायादिति भावः । "अमुकः" "अमुकशर्मा" इत्यादि त्वसाध्वेवेत्याहुः । केचित्तु अदस्शब्दपर्यायोऽमुकशब्दोऽव्युत्पन्न इत्याहुः । अदस् औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । पररूपमपि बोध्यम् । मत्वोत्वे इति । "अदौ" इत्यत्र दात्परस्य औकारस्य दीर्घ ऊकारः, दस्य मत्वं चेत्यर्थः । जसि त्यदाद्यत्वं पररूपं च सिद्धवत्कृत्य आह — जसःशीति । आद्गुणे अदे इति स्थितम् ।
अदस औ सुलोपश्च - अदस औ सुलोपश्च ।अदस इति षष्ठी ।तदोः सः सौ इत्यतः सावित्यनुवर्तते, तदाह — औकारोऽन्तादेशः स्यात्सौ पर इति । नन्वदस इति पञ्चम्येवाऽस्तु ततः परस्य सोरेवौकारो विधीयतां, त्यदाद्यत्वेन असाविति रूपं सिध्यति किं सुलोपविधानेन । न च स्वरे भेदः, उदात्तेन सहेकादेश औकारस्योदात्तत्वात् । मैवम् ।असकौ स्त्री॑त्यत्र टापिपत्र्ययस्था॑दितीत्त्वपर्सङ्गात् । असुक इति । औत्वाऽभावे त्यदाद्यत्वे सादुत्वम् । स्त्रियां तुअसुकौ॒॑असुका॑इति ।अमुकी॒॑असुकी॑ति च प्रयोगऽसाधुरेव । एवममुकशर्मेत्यादिरपि ।अदकःशर्मे॑त्यादेरेव न्याय्यत्वात् ।
लघुसिद्धान्तकौमुदी
अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। वृद्धिः॥
महाभाष्यम्
अदस औ सुलोपश्च अदसः(1) सोर्भवेदौत्वं किं सुलोपो विधीयते ? ।। अदस एव सोर्भवेदौत्वं, किमर्थं सुलोपो विधीयते ? ।। ह्रस्वाल्लुप्येत(1) संबुद्धिः ।। इह हे असा विति एङ्ह्रस्वात्संबुद्धेरिति लोपः प्रसज्येत ।। न हलः(1) ।। हलो लोपः संबुद्धिलोपः ।। तद्धल्ग्रहणं कर्तव्यम् ।। न कर्तव्यम् ? ।। प्रकृतं(1) हि तत् ।। प्रकृतं हल्ग्रहणम् ।। क्व प्रकृतम् ? ।। हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हलिति ।। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ।। ह्रस्वादित्येषा पञ्ञ्चमी हलिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति ‐ तस्मादित्युत्तरस्येति ।। आप एत्वं(1) भवेत्तस्मिन् ।। इह हे असौ ब्राह्मणि ! । आङि चापः ‐ संबुद्धौ चेत्येत्वं प्रसज्येत ।। न झलीत्यनुवर्त्तनात् ।। (नैष दोषः(2)) । झलीति तत्रानुवर्त्तते ।।क्व प्रकृतम् ? ।। सुपि च बहुवचने झल्येदिति । ।। प्रत्ययस्थाच्च(1) कादित्त्वम् ।। इर्ह च असकौ ब्राह्मणीति प्रत्ययस्थात्कात्पूर्वस्येतीत्त्वं प्रसज्येत ।। नैष दोषः । प्रश्लिष्टनिर्देशोऽयम् ‐ - आ-आप् ‐ आबिति ।। इहापि तर्हि न प्राप्नोति ‐ कारिके हारिके(3) इति ।। ।। शीभावश्च प्रसज्यते(1) ।। इह च शीभावः प्राप्नोति ‐ असौ ब्राह्मणी ।। आप उत्तरस्यौङः शी भवतीति शीभावः प्राप्नोति । तस्मात्सोर्लोपो वक्तव्यः ।। सावौत्वप्रतिषेधः(3) साकच्काद्वा सादुत्वं च ।। सावौत्वप्रतिषेधः साकच्काद्वा वक्तव्यः । साच्च परस्य उत्वं वक्तव्यम् । असकौ असुकः । ।। उत्तरपदभूतानामादेश उपदेशिवद्वचनम् (अनादिष्टार्थम्) ।। उत्तरपदभूतानांत्यदादीनामादेश उपदेशिवद्भावो वक्तव्यः । परमाहं परमायं परमानेन ।। किं प्रयोजनम् ? ।। अनादिष्टार्थम् । अकृते एकादेशे आदेशा यथा स्युरिति । किं पुनः कारणम् ‐ एकादेशस्तावद्भवति न पुनरादेशाः ?, न परत्वादादेशैर्भवितव्यम् ? ।। बहिरङ्गलक्षणत्वात् ।। बहिरङ्गा आदेशाः, अन्तरङ्ग एकादेशः ‐ असिद्धं बहिरङ्गमन्तरङ्गे ।। स तर्ह्युपदेशिवद्भावो वक्तव्यः ? ।। न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति ‐ पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेश इति, ‐ यदयं नेन्द्रस्य परस्येति प्रतिषेधं शास्ति ।। कथं कृत्वा ज्ञापकम् ? ।। इन्द्रे द्वावचौ, तत्रैको यस्येति लोपेनापह्रियतेऽपर एकादेशेन, अनच्क इन्द्रः संवृत्तस्तत्र(4) को वृद्धेः प्रसङ्गः(5) ? । पश्यति त्वाचार्यः-पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेशःथ्द्य;ति, ‐ ततो नेन्द्रस्य परस्येति प्रतिषेधं शास्ति ।। ।। अदसः(6) सोर्भवेदौत्वं कि सुलोपो विधीयते ? ।। ह्रस्वाल्लुप्येत संबुद्धिर्न हलः प्रकृतं हि तत् ।। आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात् । प्रत्ययस्थाच्च कादित्त्वं शीभावश्च प्रसज्यते ।।