Page loading... Please wait.
7|1|77 - ई च द्विवचने
॥ तस्मै पाणिनये नमः ॥
7|1|77
SK 3576
ई च द्विवचने   🔊
सूत्रच्छेदः
(लुप्तप्रथमान्तनिर्देशः)(अव्ययम्) , द्विवचने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्विवचने परतः छन्दसि विषये अस्थ्यादीनाम् ईकारादेशो भवति, स च उदात्तः। अक्षी ते इन्द्र पिङ्गले कपेरिव। अक्षीभ्यां ते नासिकाभ्याम्। अक्षी इत्यत्र नुम् परत्वादीकारेण बध्यते। तेन कृते सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति पुनर् नुम् न क्रियते।
चकारश्छन्दसीत्यनुकर्षणार्थः। `अक्षी ते` इति अक्षि औ इति स्थिते `नपुंसकाच्च` 7|1|19 इति शीभावः, ईकारे कृते `प्रथमयो पूर्वसवणः` 6|1|98 इती दीर्घः, `दीर्घाज्जसि च` 6|1|101 इति प्रतिषिद्धोऽपि छान्दसत्वाद्भवति। ननु सवर्णे दीर्घत्वेनाऽप्येतत्? सिद्ध्यति? यद्यपि रूपं सिद्ध्यति, उदात्तत्वं तु न सिध्यति। एतेनोदत्त ईकारो विधीयते। अथ वा--रूपमपि न सिध्यति। पूर्वसवर्णाद्धि परत्वात्? पूर्वं नुमि कृते नैव सवर्णदीर्घः स्यात्। अथाक्षी इत्यत्र `इकोऽचि विभक्तौ` 7|1|73 इति नुम्? कस्मान्न भवति? इत्याह--`अक्षी इत्यत्र` इत्यादि। नुमोऽवकाशः--त्रपुणे, जतुन इति इकरस्यावकाशः--अक्षीभ्यमिति; प्रथमाद्विवचन उभयप्रसङ्गे परत्वादीकार एव भवति। अथेदानोमीकारे कृते पुनःप्रसङ्गविज्ञानान्नुम्? कस्मान्न भवति? इत्याह--`सकृद्गतो इति॥
अक्षी इति । अक्षि - औ इति स्थिते औङ्ः शीभावः, पूर्वस्य इकारः, तत्र प्रथमयोः पूर्वसवर्णः इति दीर्घस्य दीर्घाज्जसि च इति नित्ये प्रतिषेधे प्राप्ते वा च्छन्दसि इति पक्षे पूर्वसवर्णदीर्घत्वम् । अकः सवर्णेदीर्घः इति वा दीर्घत्वम् । ननु चासत्यप्यस्मिन्वचने पूर्वसवर्णदीर्घत्वेनैव सिद्धम् नात्र पूर्वसवर्णदीर्घत्वम् प्राप्नोति, परत्वान्नुमा बाध्यते । एवं तर्हि च्छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः - मधोस्तृप्ता इवासते - इत्येवमाद्यर्थम्, तेन पुंवद्भावेन नुमि शीभावे चासति पूर्वसवर्णदीर्घत्वनापि सिद्धम् - अक्षी इति सत्यम् स्वरस्तु न सिध्यति, अक्षिशब्दस्य नब्विषयस्यानिसन्तस्य इत्याद्यौदातत्वात् । न च पुंवद्भावेन स्वरस्याप्यभावातिदेश इष्यते । तस्मात्स्वरार्थमात्रापीकार एव विधेयः ॥
सिद्धान्तकौमुदी
अस्थ्यादीनामित्येव । अक्षीभ्यां ते नासिकाभ्याम् (अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्याम्) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ःथ्द्य;र् च द्विवचने किमुदाहरणम् ? ।। अक्षी ते इन्द्र पिङ्गले ।। नैतदस्ति, पूर्वसवर्णेनाप्येतत्सिद्धम् ।। इदं तर्हि ‐ अक्षीभ्यां ते नासिकाभ्याम् ।। इदं चाप्युदाहरणम् ‐ अक्षी ते इन्द्र पिङ्गले ।। ननु चोक्तं पूर्वसवर्णेनाप्येतत्सिद्ध(3)मिति ।। न(4) सिद्ध्यति । नुमा व्यवहितत्वात्पूर्वसवर्णो न प्राप्नोति ।। छन्दसि(5) नपुंसकस्य पुंवद्भावः (मधोर्गृम्णामि मधोस्तृप्ता(1) इवासते) ।। छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः ।। (किं प्रयोजनम्(1) ।।) ठमधोर्गृभ्णामि मधोस्तृप्ता इवासते इत्येवमर्थम् ।। पुंवद्भावेन नुमो निवृत्तिर्नुमि निवृत्ते पूर्वसवर्णेनैव सिद्धम् ।। (।। स्वरार्थ(2) इर्कारः ।। )स्वरार्थस्तर्हीकारो वक्तव्यः । उदात्तस्वरो(3) यथा स्यान्नपुंसकस्वरो मा भूदिति ।। ननु च पुंवद्भवातिदेशादेव स्वरो भविष्यति ।। अशक्यः पुंवद्भावातिदेशः(4) स्वरे तन्त्रं श्रयितुम् । इह हि दोषः स्यात् ‐ मध्यवस्मिन्नस्ति मधुर्मास इति ।। स तर्हि पुंवद्भावो वक्तव्यः ? ।। न वक्तव्यः । प्रकृतं पुवंदिति वर्तते ।। ( इर् च द्विवचने ) ।।