Page loading... Please wait.
7|1|71 - युजेरसमासे
॥ तस्मै पाणिनये नमः ॥
7|1|71
SK 376
युजेरसमासे   🔊
सूत्रच्छेदः
युजेः (षष्ठ्येकवचनम्) , असमासे (सप्तम्येकवचनम्)
अनुवृत्तिः
नुम्  7|1|58 (प्रथमैकवचनम्) , सर्वनामस्थाने  7|1|70 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
असमासे युजेः अङ्गस्य सर्वनामस्थाने नुम्
सूत्रार्थः
युज्-शब्दस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः भवति । परन्तु समस्तपदम् अस्ति चेत् न भवति ।
"युज्" इति जकारान्तशब्दः । तस्य प्रथमा-द्विवचनस्य रूपसिद्धौ "युज् + औ" इत्यत्र अनेन सूत्रेण नुमागमे कृते, "युन्ज्" इति प्राप्यते । अग्रे अनुस्वार-परसवर्णे "युञ्जौ" इति रूपं सिद्ध्यति ।

परन्तु यदि युज्-शब्दः समस्तपदे अस्ति तर्हि नुमागमः न भवति । यथा - अश्वयुज् + औ = अश्वयुजौ ।
One-line meaning in English
The word युज् gets नुमागम in presence of a सर्वनामस्थान. However, if this word is in a समस्तपद, then the नुमागम does not happen.
काशिकावृत्तिः
युजेरसमासे सर्वनामस्थाने परतो नुमागमो भवति। युङ्, युञ्जौ, युञ्जः। असमासे इति किम्? अश्वयुक्, अश्वयुजौ, अश्वयुजः। युजेः इति इकारनिर्देशात् युज समाधौ इत्यस्य ग्रहणं न भवति। युजमापन्ना ऋषयः।
Text Unavailable. Please use feedback link below to provide the text if you have.
युङ्, युञ्जौ, युञ्ज इति । पूर्ववत्क्विबादि । अश्वयुगिति । सत्सूद्विष इत्यादिना क्बिप् । एतदेवासमासवचनं ज्ञापकम् - अङ्गाधिकारे तस्य च तदुतरपदस्य च ग्रहणं भवति इति । युजेरितीकारनिर्देशादिति । नावमिका धातुनिर्देशः, किं तर्हि धातुपाठगतस्येकारस्यानुकरणमिति भावः । युजमिति । सम्पदादित्वाद्भावे क्विप् ॥
सिद्धान्तकौमुदी
युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तस्य लोपः (कौमुदी-54)
युजेरसमासे - औङः श्याम् "आच्छीनद्योः" इति विकल्पे प्राप्त — शप्श्यनोर्नित्यम् । "आच्छीनद्योर्नुम्" इत्यनुवर्तते । "नाभ्यस्ताच्छतुः" इत्यतः शतुरित्यनुवर्तते । अवयव इति चाध्याह्यियते । तदाह — शप्श्यनोरादित्यादिना । पचन्ती इति । औङः श्यां नुमि रूपम् । पचन्तीति । जश्शसोः शौ सर्वनामस्थानत्वान्नुमि रूपम् । दीव्यदिति । दिवुधातोर्लटः शतरि श्यन् ।हलि चे॑ति दीर्घः दीव्यच्छब्दात्स्वमोर्लुगिति भावः । दीव्यन्ती इति । औङः श्यां नुमि रूपम् । "शप्श्यनोः" इति नित्यं नुमिति भावः । दीव्यन्तीति । जश्शसोः शौ सर्वनामस्थानत्वान्नुमिति भावः । इति तान्ताः । अथ पान्ताः । स्वबिति । सु=शोभनाः आपो यस्मिन् सरसीति बहुव्रीहिः । "ऋक्पूरब्धूः" इति समासान्तस्तु न भवति, " न पूजनात्" इति निषेधात् ।द्व्यन्तरुपसर्गेभ्योऽप ई॑दिति न भवति, तत्र "अप" इति कृतसमासान्तग्रहणात् । स्वप्शब्दात्स्वमोर्लुगिति भावः । स्वपी इति । औङः श्यां रूपम् । असर्वनामस्थानत्वान्न नुमिति भावः । दीव्यन्तीति । जश्शसोः शौ सर्वनामस्थानत्वान्नुमिति भावः । इति तान्ताः । अथ पान्ताः । स्वबिति । सु=शोभनाः आपो यस्मिन् सरसीति बहुव्रीहिः । "ऋक्पूरब्धूः" इति समासान्तस्त#उ न भवति, "न पूजनात्" इति निषेधात् ।द्व्यन्तरूपसर्गेभ्योऽप ई॑दिति न भवति, तत्र "अप" इति कृतसमासान्तग्रहणात् । स्वप्शब्दात्स्वमोर्लुगिति भावः । स्वपी इति । औङः श्यां रूपम् । असर्वनामस्थानत्वान्न नुमिति भावः । दीव्यन्तीति । जश्शसोः शौ स्वप् इ इति स्थिते, अप्तृन् इति दीर्घे, झलन्तलक्षङणनुमि, अनुस्वारे, परसवर्णे, स्वाम्पीति वक्ष्यते । तत्र "अप्तृन्" इति दीर्घं बाधित्वा परत्वान्नित्यत्वाच्च नुमि कृते ।ञकारस्य उपधात्वाऽभावात्कथं दीर्घ इत्यत आह — नित्यादित्यादि । प्रतिपदोक्तत्वादिति । "अपतृन्" इति दीर्घस्य अप्शब्दमुच्चार्य विहितत्वादित्यर्थः । ननु निरवकाशत्वं प्रतिपदोक्तत्वमितिछदिरुपधिबलेर्ढ॑ञिति सूत्रेशेषाद्विभाषे॑ति सूत्रे च भाष्ये स्थितम् । "अप्तृन्" इति दीर्घस्तु न निरवकाशः, "आप" इत्यत्र सावकाशत्वात् । अतोऽत्र नित्यत्वात्परत्वाच्चा पूर्वं नुमागमे कथं दीर्घ इत्याशङ्क्य इष्टापत्त्या परिहरति — निरवकाशत्वमित्यादि । स्वम्पीति । दीर्घं बाधित्वा नुमि अनुस्वारपरसवर्णाविति भावः ।केचित्तु "अपतृन्" इति दीर्घस्य निरवकाशत्वरूपप्रतिपदोक्तत्वाऽभावेऽपि प्रतिपदविधित्वेन शीघ्रोपस्थितिकतया प्रथमं प्रवृत्तौस्वाम्पो॑त्येव युक्तमित्याहुः । इति पान्ताः । अथ षान्ताः । धनुश्शब्दं व्युत्पादयति — धनेरिति । "जनेरुसिः" इत्यत उसिरित्यनुवर्तमानेअर्तिपृवपियजितनिधनितपिभ्यो नित् इत्यौणादिकसूत्रेण "धन धान्ये" इत्यस्माद्धातोरुस्प्रत्यय इत्यर्थः । प्रत्ययावयत्वात्सस्य षत्वे धनुष्शब्दः । तस्मात्स्वमोर्लुक् । तत्र षकारस्य कथं रुत्वमित्यत आह-षत्वस्येति । धनुरिति । "र्वोरुपधायाः" इति दीर्घस्तु न, रेफान्तस्याधातुत्वात् । धनूंषीति ।नस्चे॑त्यनुस्वारः । एवं चक्षुर्हविरादय इति । "चक्षेश्शिच्च" इत्युसिः । शित्त्वेन सार्वधातुकत्वात् ख्शाञादेशो न "अर्चिशुचिहुसृपि" इत्यादिना हुधातोरिस्,सार्वधातुकार्धधातुकयोः॑ इति गुणः, अवादेशः । आदिना सर्पिरादयो ग्राह्राः । पिपठिषतेः क्विबिति ।पठ व्यक्तायां वाचि॑ सन्, इट् द्वित्वं, हलादि शेषः , अभ्यासाऽकारस्य इत्त्वं, प्रत्ययावयवत्वात् षत्वं, "सनाद्यन्ताः" इति धातुत्वम् । पिपठिष इत्यस्मात् क्विप् अतो लोपः, पिपठिष् इत्यस्मात् स्वमोर्लुक्, षत्वस्याऽसिद्धत्वाद्रुत्वम् । एतावत्सिद्धवत्कृत्य आह — र्वोरिति दीर्घे इति । पिपठिषी इति । औङः श्यां रूपम् । सौ विशेषमाह-अल्ल#ओपस्येति । बेभिच्छब्दनिरूपणे व्याख्यातमेतदनुपदमेव प्राक् । इति षान्तां । अथ सान्ताः । पय इति ।पयः क्षीरं पयोऽम्बु चे॑त्यमरः । पयांसीति । शौ नुम् ।सान्ते॑ति दीर्घः, अनुस्वार इति भावः । पयोभ्यामिति । रुत्वे,हशि चे॑त्युत्त्वे, गुण इति भावः ।सुपुमिति । सु=शोभनः पुमान् यस्य गृहस्येति बहुव्रीहौ, सुपुंस्शब्दात्स्वमोर्लुक्, संयोगान्तलोपः । संपुंसी इति । औङः श्यां रूपम् । सुपुमांसीति । शेःसर्वनामस्थानत्वात् "पुसोऽसुङ्" इत्यसुङ् । सुपुम्स् इ इति स्थिते, झलन्तलक्षणनुमि, "सान्तमहतः" इति दीर्घः ,नश्चे॑त्यनुस्वारश्चेति भावः । अद इति । अदस्शब्दात् स्वमोर्लुक्, रुत्वविसर्गौ, सान्तत्वान्न मुत्वम्, लुका लुप्तत्वात्त्यदाद्यत्वं नेति भावः । औङादावाह — विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । उत्वमत्वे इति ।पूर्वत्रासिद्धिमि॑ति विभक्तिकार्योत्तरमुत्वमत्वे इत्यर्थः । अमू इति । औङः शी, त्यदाद्यत्वं, पररूपं, गुणः, ऊत्वमत्वे इति भावः । अमूनीति । ञ्जश्शसोश्शिः, त्यदाद्यत्वं, पररूपम् । अजन्तत्वात् नुम्, उपधादीर्घः, ऊत्वमत्वे इति भावः । इति सान्ताः ।इति बालमनोरमायां हलन्ता नपुंसकलिङ्गाः । — — — — — — — — — — — — — — — -अथ हल्सन्धिप्रकरणम् ।
युजेरसमासे - युजेरसमासे ।उगिदचा॑मित्यतःसर्वनामस्थाने॑इत्यनुवर्तते ।इदितो नुम् धातो॑रित्यतोनुम्चेत्याशयेनाह — सर्वमास्थाने नुम्स्यादिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.