Page loading... Please wait.
7|1|54 - ह्रस्वनद्यापो नुट्
॥ तस्मै पाणिनये नमः ॥
7|1|54
SK 208
ह्रस्वनद्यापो नुट्   🔊
सूत्रच्छेदः
ह्रस्व-नदी-आपः (पञ्चम्येकवचनम्) , नुट् (प्रथमैकवचनम्)
अनुवृत्तिः
आमि  7|1|52 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
ह्रस्व-नदी-आपः अङ्गात् आमि नुट्
सूत्रार्थः
ह्रस्वन्तात्, नदीसंज्ञकात्, आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः भवति ।
अनेन सूत्रेण त्रिविधानाम् शब्दानाम् विषये षष्ठीबहुवचनस्य "आम्"-प्रत्ययस्य नुट्-आगमः विधीयते । ते एतादृशाः -

1. ह्रस्व-स्वरान्तशब्दाः - यथा - बाल, फल, मुनि, मति, वारि, साधु, धेनु, मधु, मातृ, पितृ, धातृ ।
2. नदीसंज्ञकशब्दाः - एते द्वयोः सूत्रयोः विधीयन्ते -
अ) यू स्त्र्याख्यो नदी 1|4|3 इत्यनेन इत्यतः दीर्घ-ईकारान्त/ऊकारान्तानाम् नित्यस्त्रीलिङ्गशब्दानाम् नदीसंज्ञा भवति । यथा - नदी, गौरी, चञ्चू, वधू ।
आ) वाऽमि 1|4|5 इत्यनेन स्त्री-शब्दं वर्जयित्वा अन्येषाम् इयङ्-स्थानिनाम् / उवङ्स्थानिनाम् नित्यस्त्रीलिङ्गशब्दानाम् आम्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । यथा - श्री, धी, भ्रू आदयः ।
3. आबन्तशब्दाः - आप्-येषाम् अन्ते ते आबन्ताः । अत्र "आप्" इत्यनेन "टाप्", "चाप्" तथा "डाप्" - एते त्रयः प्रत्ययाः गृह्यन्ते । अतः एते प्रत्ययान्ताः येषाम् अन्ते, ते शब्दाः आबन्ताः नाम्ना ज्ञायन्ते । यथा, शाला, लता, अजा, सूर्या - आदयः । सर्वे आकारान्त-स्त्रीलिङ्गशब्दाः अनेन गृह्यन्ते ।

एतेषाम् सर्वेषाम् परस्य षष्ठीबहुवचनस्य "आम्"-प्रत्ययस्य नुट्-आगमः भवति । अयम् टित्-आगमः, अतः आद्यन्तौ टकितौ 1|1|46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । उदाहरणानि एतानि -

1. बाल + आम् [स्वौजस्.. 4|1|2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]
→ बाल + नुट् + आम् [ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन ह्रस्वात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]
→ बाल + न् + आम् [इत्संज्ञालोपः]
→ बाला नाम् [नामि 6|4|3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ बालानाम्

2. गौरी + आम् [स्वौजस्.. 4|1|2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]
→ गौरी + नुट् + आम् [ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]
→ गौरी + न् + आम् [इत्संज्ञालोपः]
→ गौरी नाम् [नामि 6|4|3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ गौरीणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन णत्वम्]

3. भ्रू + आम् [स्वौजस्.. 4|1|2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]
→ भ्रू + नुट् + आम् [वाऽमि 1|4|5 इत्यनेन आम्-प्रत्यये परे भ्रू-शब्दस्य विकल्पेन नदीसंज्ञा । नदीसंज्ञायाम् सत्याम् ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]
→ भ्रू + न् + आम् [इत्संज्ञालोपः]
→ भ्रू नाम् [नामि 6|4|3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ भ्रूणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन णत्वम्]

4. माला + आम् [स्वौजस्.. 4|1|2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]
→ माला + नुट् + आम् [ ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ]
→ माला + न् + आम् [इत्संज्ञालोपः]
→ माला + नाम् [नामि 6|4|3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ मालानाम्

5. बहुश्रेयसी + आम् [स्वौजस्.. 4|1|2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः]
→ बहुश्रेयसी + नुट् + आम् [ अनेन वात्तिकेन नदीसंज्ञायाम् प्राप्तायाम् ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन नुट्-आगमः]
→ बहुश्रेयसी + न् + आम् [इत्संज्ञालोपः]
→ बहुश्रेयसी + नाम् [नामि 6|4|3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः]
→ बहुश्रेयसीनाम्

ज्ञातव्यम् -
1. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् अनया परिभाषया सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति ।
2. अस्मिन् सूत्रे निर्दिष्टः "आम्" शब्दः षष्ठीबहुवचनस्य प्रत्ययः अस्ति, सप्तमी-एकवचनस्य ङेराम्नद्याम्नीभ्यः 7|3|1116 इत्यनेन निर्दिष्टः आम्-आगमः नास्ति इति भाष्ये स्पष्टीकृतम् अस्ति ।
3. अयम् नुट्-आगमः आकारान्त/ईकारान्त/ऊकारान्त-पुँल्लिङशब्दानाम् विषये न भवति । यथा - हाहा + आम् → हाहाम् । सेनानी + आम् → सेनान्याम् । खलपू + आम् → खलप्वाम् ।
One-line meaning in English
The आम्-प्रत्यय that follows a ह्रस्व word, a नदीसंज्ञक word, or an आबन्त word gets a नुट्-आगम.
काशिकावृत्तिः
ह्रस्वान्तात् नद्यन्ताताबन्ताच् च उत्तरस्य आमः नुडागमो भवति। ह्रस्वान्तात् तावत् वृक्षाणाम्। प्लक्षाणाम्। अग्नीनाम्। वायूनाम्। कर्तृ̄णाम्। नद्यन्तात् कुमारीणाम्। किशोरीणाम्। गौरीणाम्। शार्ङ्गरवीणाम्। लक्ष्ंईणाम्। ब्रह्मबन्धूनाम्। वीरबन्धूनाम्। आबन्तात् खट्वानाम्। मालनाम्। बहुराजानाम्। कारीषगन्ध्यानाम्।
`कुमारीणाम्` इति। `वयसि प्रथमे` 4|1|20 इति ङीष्। `गौरीणाम्` इति। `षिद्गौरादिभ्यश्च` 4|1|41 इति ङीष्। `शाङ्र्गरवीणाम्` इति। `शाङ्र्गरवाद्यञो ङीन्` 4|1|73 इति ङीन्। `लक्ष्मीणाम्` इति। `अवितृस्तृतन्त्रिभ्य ईः` (पं।उ। 3-158) इत्यनुवृत्तौ `लक्षेर्मुट्? च` (पं।उ।3।160) इतीर्मुट्? च। `ब्राहृबन्धूनम्` इति। ब्राहृआ बन्धुरासामिति बहुव्रीहिः। `ऊङुतः 4|1|66 इत्यूङ्। `खट्वानाम्` इति। `अजाद्यतष्टाप्` 4|1|4 । `बहुराजानाम्` इति। `डाबुभाभ्यामन्यतरस्याम्` 4|1|13 इति डाप्। `कारीषगन्ध्यानाम्` इति। कारीषगन्धेरपत्यमित्यण। तस्य `अणिञोरनार्षयोः` 4|1|78 इत्यादिना ष्यङादेशः, `यङ्श्चाप्` 4|1|74 इति चाप्॥
ह्रस्वनद्याप इति पञ्चमी, नामि इति लिङ्गेन अन्यथाऽङ्गनिमितस्य नामो न ह्यस्ति सम्भवः ॥
सिद्धान्तकौमुदी
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥
ह्रस्वनद्यापो नुट् - तदाह — ह्यस्वान्तादित्यादिना "आम्" अत्र षष्ठीबहुवचनमेव, नतुङेरा॑मित्यादिविहितमिति भाष्ये स्पष्टम् । नुटि टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः ।
ह्रस्वनद्यापो नुट् - ह्यस्वनद्यापो ।अङ्गस्ये॑त्यनुवर्तते । तच्च पञ्चन्यन्तेन सामानाधिकरण्यादङ्गादिति विपरिणमय्य ह्यस्वादिभिर्विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेनाह-ह्यस्वान्तादिति । एतेनह्यस्वनद्यापः-॑ इति पञ्चमी न तु षष्ठीति स्फोरितम् । ज्ञापकं त्वत्रनामी॑ति । नहि प्रकृत्यागमत्वे अङ्गसंज्ञानिमित्तं नाम् सम्भवति । एवं चानया पञ्चम्याऽनन्यार्थयातस्मादित्युत्तरस्ये॑ति परिभाषोपस्थित्याआमि सर्वनाम्नः सुट् इत्यतोऽनुवृत्तमामीति सप्तम्यन्तंडः सि धु॑डित्यत्रेव षष्ठआ विपरिणम्यते,अमी॑ति सप्तम्याःत्रेस्त्रयः॑ इत्यत्र चरितार्थत्वादित्यभिप्रेत्याह-आमो नुडागमः स्यादिति । अत्र नव्याः-॒नुट् इति योगं विभज्यअङ्गात्परस्यामो नुट् इत्युत्सर्गविधि कृत्वानद्यापः॑ इत्यंशेनदीर्घात्परस्यामो नुट् चेद्भवति तर्हि नद्याप एव॑ इति नियमविधिं व्याख्याय ह्यस्वग्रहणं प्रत्याख्येयम् । न चैवंलिहां॑दुहा॑मित्यादावतिप्रसङ्गैति वाच्यम् ।हलन्ताच्चेद्भवति तर्हि षट्चतुभ्र्य एवे॑ति नियमाभ्युपगमात् ।ध्वस्वनडुहां॑कतिपयचतुरां॑यजिक्रुञ्चा॑झलाम् इत्यादिनिर्देशाच्च । तस्माद्ध्रस्वग्रहणप्रत्याख्याने न कोऽपि द#ओष इत्याहुः । अत्र वदन्ति — ॒नु॑डिति पृथग्योगे कृते सति ङेरामि कृते परमप्याटं बाधित्वाऽन्तरङ्गत्वादामो नुट् स्यात् । तथा च-॒परत्वादाटा नुड्बाध्यते॑-इति वक्ष्यमाणग्रन्थेन,आटि कृते सकृद्गतिन्यायान्नुड् ने॑ति भाष्यग्रन्थेन च विरोधः स्यात् । यद्यपिनियमसूत्राणां विधिमुखेन प्रवृत्ति॑रिति पक्षे ङेरामि कृते तस्यनद्यापः॑ इत्यनेनैव नुडागमे प्रसज्यमानेआण्नद्याः॑ इत्यनेन स बाध्यत इतिपरत्वादाटा नुड् बाध्यत॑ इत्यादिग्रन्थः सङ्गच्छते, तथापिनियमसूत्राणां निषेधमुखेन प्रवृत्ति॑रिति पक्षे परमपि आटं बाधित्वा अन्तरङ्गत्वान्नुट् स्यादेव । किंचनद्यापः॑ इत्यत्रनद्यापः परस्यामो नुडेव स्यान्नान्यत् इत्यर्थः स्यात् । तथा च गौर्यां रमायां सर्वासां सर्वस्यामिति न सिध्येत् । सुडामस्य पुंसि, आट्-याट्-स्याडागमानां तु ङिदन्तरे चरितार्थत्वात् । अपि च गौर्यामित्यादौ ङेरामि कृते नुटं बाधित्वा प्राप्तमाटं बाधितुं नदीग्रहणम् । एवं रमायां सर्वासां सर्वस्यामित्यादौ प्राप्तं याटं सुटं स्याटं च बाधितुमाब्ग्रहणमितिनद्यापः॑ एतद्विध्यर्थमेव स्यान्न नियमार्थम् । ततश्च विआपां वातप्रम्यामित्यादौ नुड् दुर्वार एव ।नद्यां मतुप्भाषायां सदवसश्रुवः॑सर्वसां प्रायदर्शनम्तदस्यां प्रहरणम् इत्यादिनिर्देशाञ्शरणीकृत्य विध्यर्थत्वापादनस्य, नुडेवेति प्रागुक्तनियमस्य [च] निवारणे तु प्रतिपत्तिगौरवम् । अपि च-॒आकारान्तादीकारान्तादूकारान्ताच्चेद्भवति तर्हि नद्याप एव॑ इति नियमस्यापि संभवाद्विआपां वातप्रम्यां खलप्वामित्यादौ नुडागमाऽभावेऽपि गवामित्यादौ नुट् स्यात् । न च छन्दसिगोः पादान्ते॑ इत्यारम्भाल्लोके गोशह्दात्परस्यामो नुड् न भवेदिति वाच्यम्,पादान्ते गोशब्दात्परस्यामो नुट् चेच्छन्दस्येवे॑ति नियमेन लोके पादान्तेगोना॑मिति प्रयोगस्याभावेऽप्यपादान्ते तस्याऽनिवर्त्त्यत्वापत्तेः । रायां ग्लावां नावामित्यादौ दुर्निवारत्वाच्च । यदि तुदीर्घात्परस्य आमो नुट्चे॑दित्यादिनियमेगोः पादान्ते॑ इति सूत्रं विध्यर्थं भवेत् ।आकारान्तादिभ्यः परस्यामो नुट् चे॑दित्यादिनियमे तु नियमार्थं स्यात् । तत्र विधिनियमयोर्विधिरेव ज्यायानिति न्यायाननुसन्धानेनदीर्घान्तात्परस्यामो नुट् चे॑दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येवदीर्घान्तात्परस्यामो नुट् चे॑दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येव, तस्माद्ध्रस्वग्रहणप्रत्याख्यानस्यातिक्लेशसाध्यत्वाद्यथाश्रुतमेव रमणीयमिति ।
लघुसिद्धान्तकौमुदी
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥
महाभाष्यम्
ह्रस्वनद्यापो नुट् आमि सर्वनाम्नः सुट् ।। त्रेस्त्रयः ।। इमे बहव आम्शब्दाः(4) ‐ -कास्प्रत्ययादाममन्त्रे लिटि । ङसोसाम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ङेराम्नद्याम्नीभ्य इति, कस्येदं ग्रहणम् ? ।। षष्ठीबहुवचनस्य ग्रहणम्(1) ।। अथास्य कस्मान्न भवति ‐ - कास्प्रत्ययादाममन्त्रे लिटीति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्य इहास्य ग्रहणं मा भूदिति ? ।। ननु चावश्यं मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। नार्थ इत्संज्ञापरित्राणार्थेन, इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। इदमस्तीत्कार्यं ‐ मिदचोऽन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ।। प्रत्ययान्तादयं विधीयते, तत्र नास्ति विशेषोमिदचोन्त्यात्परःथ्द्य;ति वा परत्वे, प्रत्ययः पर इति वा (परत्वे(2)) ।। यस्तर्हि न प्रत्ययान्तात् ‐ इजादेश्च गुरुमतोऽनृच्छ इति ? ।। अत्रापि आस्कारसोराम्वचनं ज्ञापकं ‐ -नायमचामन्त्यात्परो भवतीति ।। कथं कृत्वा ज्ञापकम् ? ।। ह्यस्ति विशेषः ‐ -आम्यचामन्त्यात्परे सत्यसति वा ।। अयमस्ति विशेषोऽसत्यामि द्विर्वचनेन भवितव्यं, सति न भवितव्यम् ।। सत्यपि भवितव्यम् ।। कथम् ? ।। आमस्तन्मध्यपतितत्वाद्धातुग्रहणेन ग्रहणात् । तदेतत्कासासोराम्वचनं ज्ञापकमेव ‐ - नायमचामन्त्यात्परो(1) भवतीति ।। अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः, ‐ क्रियते न्यास एव ‐ आमअमन्त्रे(2) इति । यद्येवमामाऽमन्त्र इति प्राप्नोति ।। शकन्धुन्यायेन निर्देशः ।। अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। इह कारयांचकार हारयांचकार चिकीर्षांचकार जिहीर्षांचकार, ह्रस्वनद्यापो नुडिति नुट्प्रसज्येत ।। लोपाऽयादेशयोः कृतयोर्न भविष्यति ।। इदमिह संप्रधार्यं ‐ लोपायादेशौ क्रियेतां(2) नुडिति; किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। नित्यौ लोपाऽयादेशौ, कृतेऽपि नुटि प्राप्नुतोऽकृतेपि । तत्र नित्यत्वाल्लोपाऽयादेशयोः कृतयोर्विहतनिमित्तत्वान्नुग्न भविष्यति ।। अथास्य कस्मान्न भवति ‐ -किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षःथ्द्य;ति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्येवमर्थोऽनुबन्धः कर्तव्यः ? ।। ननु चावश्यमुगित्कार्यार्थोऽनुबन्धः कर्तव्यः ।। नार्थ उगित्कार्यार्थेनाऽनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वमुगित्कार्यां, न चामो लिङ्गविभक्ती स्तः । अव्ययमेषः ।। मकारस्य तर्हीत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। इदमस्तीत्कार्यं ‐ -मिदचोन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ।। नैतदस्ति । घान्तादयं विधीयते तत्र नास्ति विशेषः ‐ -मिदचोन्त्यात्पर इति वा(1) परत्वे प्रत्ययः पर इति वा परत्वे ।। अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः ‐ -क्रियते न्यास एव ।। अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। इह-पचतितरां जल्पतितरां, ‐ ह्रस्वनद्यापो नुडिति, नुट्प्रसज्येत ।। लोपे कृते न भविष्यति ।। इदमिह संप्रधार्थं लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। एवं तर्हि ह्रस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ।। अथास्य कस्मान्न भवति ङेराम्नद्याम्नीभ्यःथ्द्य;ति ? ।। किं च स्यात् ? ।। कुमार्यां किशोर्यां खट्वायां मालायां तस्यां यस्यामिति, ‐ -ह्रस्वनद्याप नुडिति नुट्प्रसज्येत ।। आड्याट्स्याटोऽत्र बाधका भविष्यन्ति ।। इदमिह संप्रधार्यम् ‐ आड्याट्स्याटः क्रियन्तां, नुडिचि, ‐ किमत्र कर्तव्यम् ? ।। परत्वादाड्याट्स्याटः ।। अथेदानीमाड्याट्स्याट्त्सु कृतेषु पुनः प्रसङ्गान्नुट्कस्मान्न भवति ? ।। सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ।। (ह्रस्वनद्यापो) ।।