Page loading... Please wait.
7|1|53 - त्रेस्त्रयः
॥ तस्मै पाणिनये नमः ॥
7|1|53
SK 264
त्रेस्त्रयः   🔊
सूत्रच्छेदः
त्रेः (षष्ठ्येकवचनम्) , त्रयः (प्रथमैकवचनम्)
अनुवृत्तिः
आमि  7|1|52 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
त्रेः अङ्गस्य आमि त्रयः
सूत्रार्थः
त्रि-शब्दस्य अङ्गस्य आम्-प्रत्यये परे "त्रय" आदेशः भवति ।
"त्रि" इत्यस्य षष्ठीबहुवचनस्य आम्-प्रत्यये परे "त्रय" इति आदेशः भवति । अनेकाल्-शित्-सर्वस्य 1|1|55 इत्यनेन अयम् आदेशः सर्वादेशः विद्यते । यथा -

त्रि + आम् [स्वौजस्.. 4|1|2 इत्यनेन षष्ठी-बहुवचनस्य आम्-आदेशः]
→ त्रय + आम् [त्रेस्त्रयः 7|1|53 इति त्रि-शब्दस्य त्रय-आदेशः]
→ त्रय + नुट् आम् [ह्रस्वनद्यापो नुट् 7|3|54 इति आम्-प्रत्ययस्य नुट्-आगमः]
→ त्रया + नाम् [नामि 6|4|3 इति अङ्गस्य दीर्घः]
→ त्रयाणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इति णत्वम्]

ज्ञातव्यम् - बहुव्रीहिसमासे यद्यपि त्रि-शब्दः गौणः (अप्रधानः) अस्ति, तथापि वर्तमानसूत्रेण तस्यापि त्रय-आदेशः जायते । यथा, "प्रियत्रि" शब्दस्य षष्ठीबहुवचनम् "प्रियत्रयाणाम्" इति भवति ।
One-line meaning in English
The word त्रि gets the आदेश "त्रय" when followed by the प्रत्यय "आम्".
काशिकावृत्तिः
त्रि इत्येतस्य आमि परे त्रय इत्ययम् आदेशो भवति। त्रयाणाम्। त्रीणाम् इत्यपि छन्दसि इष्यते। त्रीणाम् अपि समुद्राणाम् इति।
`ह्यस्वनद्यापो नुट्` 7|1|44 इति प्राप्ते वचनम्। `त्रयाणाम्` इति। `सुपि च` 7|3|102 इति दीर्घः। ननु च `णिजां त्रयाणां गुणः श्लौ` 7|4|75 इति निपातनादेव सिद्धम्, तत्किमर्थमिदमारभ्यते? एवं सिद्धे सतीदमारभ्यमाणमेतज्ज्ञापयति--`अबाधकान्यपि निपातनानि भवन्ति (पु।प।वृ।99) इति, तेन पुरातनमिति सिद्धं भवति; अन्यथा `पुराणप्रोक्तेषु` 4|3|105 इति निपातनेन बाधित्त्वान्न सिध्यति।`त्रीणामपीष्यते छन्दसि` इति। एतच्चापीत्यधिकाराद्वा, `सर्वे विघयश्छन्दसि विकल्प्यन्ते (पु।प।वृ।56) इति वा लभ्यते॥
त्रेरिति षष्ठी, न पञ्चमी, णिजां त्रयाणाम् इति निर्देशात् ॥
सिद्धान्तकौमुदी
त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥
त्रेस्त्रयः - त्रेस्त्रयः । "आमि सर्वनाम्नः" इत्यतआमी॑त्यनुवर्तते । तदाह — त्रिशब्दस्येति । अनेकाल्त्वात्सर्वादेशः । नुट् दीर्घश्च । तदाह — त्रयाणामिति । "त्रेरयङ्" इति तु नोक्तम्, अयङ् अनङित्यादिवन्ङकारात्पूर्वस्याऽकारस्योच्चारणार्थत्वाशङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् । "पदाङ्गाधिकारे" इति परिभाषयात्रे॑रिति तदन्तग्रहणमित्यभिप्रेत्योदाहरति — परमत्रयाणामिति । परमाश्च ते त्रयश्चेति विग्रहः । प्रियास्त्रयो यस्येति प्रियत्रिशब्दो बहुव्रीहिः । तस्यान्यपदार्थप्रधानत्वादेकद्वि बहुवचनानि सन्ति । अतो हरिवत्तस्य रूपाणि ।तत्र त्रयादेशमाशह्क्याह — गौणत्वे त्विति । त्रिशब्दस्योपसर्जनत्वे "त्रेस्त्रयः" इति न भवतीति केचिदाहुरित्यर्थः ।गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः॑ इति न्यायादिति भावः । वस्तुतस्त्विति ।प्रियत्रयाणा॑मित्येव रूपं वस्तुत्वेन ज्ञेयमित्यर्थः । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एव प्रवृत्तेः । अत एवोपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव चप्रियतिसे॑त्यादौ त्रिरुआआदयो भाष्ये उदाह्मताः सङगच्छन्त इत्यन्यत्र विस्तरः ।अथ द्विशब्दे विशेषमाह — द्विशब्द इति । तस्य द्वित्वनियतत्वादिति भावः ।
त्रेस्त्रयः - त्रेस्त्रयः ।त्रे॑रिति षष्ठी न तु पञ्मी ।त्रय॑इत्यदन्तं न तु सान्तं,निजां त्रायाणां॑मिति निर्देशादित्यमिप्रेत्याह — त्रिशब्दस्य त्रयादेश इति ।ननु निजां त्रयाणा॑मिति निपातनादेवत्रयादेशे सिद्र्ध किमनेन सूत्रेणेति चैन्मैवम् ।अबाधकान्यपि निपातनानि भवन्ती॑त्यनेन ज्ञापनात् । तेनपुरातन॑मिति सिध्यति । अन्यथापुराणप्रोक्तेषु — ॑इति निपातनादेतद्बाध्येत ।त्रेरय॑ङित्येव न सूत्रितम् । तत्करोति आचष्टे वेत्यर्थंतत्करोति॑इत्यादिना णिचि ततः क्विपिप्रकृत्यैकाजि॑ति प्रकृतिभावाट्टिलोपाऽभावेह्यस्वस्य पिती॑तु तुकित्रित् । ततो बहुत्वविवक्षायामामि कृते त्रेरयङित्रयाणा॑मिति रूपाऽसिद्धेः । न चवार्णादाङ्गं बलीयः॑इति तुकः प्रागेवायं स्यादिति शङ्क्यम्, युगपत्प्रवृत्तावेवाऽ‌ऽङ्गस्य बलीयस्त्वात् । केचिदिति ।त्रेः संबंन्धिन्यामी॑ति विज्ञानाद्गौणत्वेऽपि त्रयादेशो न भवतीति तेषामाशयः । वस्तुतस्त्विति । अर्थप्राधान्यबोधकस्य बहुवचनस्याऽभावाद्गणत्वेऽपि त्रयादेशो न्याय्यः, प्रियास्थ्नेत्यादावस्थ्याद्यनङ्वदिति भावः ।
लघुसिद्धान्तकौमुदी
त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वेऽपि प्रियत्रयाणाम्॥
महाभाष्यम्
त्रेस्त्रयः आमि सर्वनाम्नः सुट् ।। ह्रस्वनद्यापो नुट् ।। इमे बहव आम्शब्दाः(4) ‐ -कास्प्रत्ययादाममन्त्रे लिटि । ङसोसाम् किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ङेराम्नद्याम्नीभ्य इति, कस्येदं ग्रहणम् ? ।। षष्ठीबहुवचनस्य ग्रहणम्(1) ।। अथास्य कस्मान्न भवति ‐ - कास्प्रत्ययादाममन्त्रे लिटीति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्य इहास्य ग्रहणं मा भूदिति ? ।। ननु चावश्यं मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। नार्थ इत्संज्ञापरित्राणार्थेन, इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। इदमस्तीत्कार्यं ‐ मिदचोऽन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ।। प्रत्ययान्तादयं विधीयते, तत्र नास्ति विशेषोमिदचोन्त्यात्परःथ्द्य;ति वा परत्वे, प्रत्ययः पर इति वा (परत्वे(2)) ।। यस्तर्हि न प्रत्ययान्तात् ‐ इजादेश्च गुरुमतोऽनृच्छ इति ? ।। अत्रापि आस्कारसोराम्वचनं ज्ञापकं ‐ -नायमचामन्त्यात्परो भवतीति ।। कथं कृत्वा ज्ञापकम् ? ।। ह्यस्ति विशेषः ‐ -आम्यचामन्त्यात्परे सत्यसति वा ।। अयमस्ति विशेषोऽसत्यामि द्विर्वचनेन भवितव्यं, सति न भवितव्यम् ।। सत्यपि भवितव्यम् ।। कथम् ? ।। आमस्तन्मध्यपतितत्वाद्धातुग्रहणेन ग्रहणात् । तदेतत्कासासोराम्वचनं ज्ञापकमेव ‐ - नायमचामन्त्यात्परो(1) भवतीति ।। अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः, ‐ क्रियते न्यास एव ‐ आमअमन्त्रे(2) इति । यद्येवमामाऽमन्त्र इति प्राप्नोति ।। शकन्धुन्यायेन निर्देशः ।। अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। इह कारयांचकार हारयांचकार चिकीर्षांचकार जिहीर्षांचकार, ह्रस्वनद्यापो नुडिति नुट्प्रसज्येत ।। लोपाऽयादेशयोः कृतयोर्न भविष्यति ।। इदमिह संप्रधार्यं ‐ लोपायादेशौ क्रियेतां(2) नुडिति; किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। नित्यौ लोपाऽयादेशौ, कृतेऽपि नुटि प्राप्नुतोऽकृतेपि । तत्र नित्यत्वाल्लोपाऽयादेशयोः कृतयोर्विहतनिमित्तत्वान्नुग्न भविष्यति ।। अथास्य कस्मान्न भवति ‐ -किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षःथ्द्य;ति ? ।। अननुबन्धकग्रहणे हि न सानुबन्धकस्येति ।। स तर्ह्येवमर्थोऽनुबन्धः कर्तव्यः ? ।। ननु चावश्यमुगित्कार्यार्थोऽनुबन्धः कर्तव्यः ।। नार्थ उगित्कार्यार्थेनाऽनुबन्धेन । लिङ्गविभक्तिप्रकरणे सर्वमुगित्कार्यां, न चामो लिङ्गविभक्ती स्तः । अव्ययमेषः ।। मकारस्य तर्हीत्संज्ञापरित्राणार्थोऽनुबन्धः कर्तव्यः ।। इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। इदमस्तीत्कार्यं ‐ -मिदचोन्त्यात्पर इत्यचामन्त्यात्परो यथा स्यात् ।। नैतदस्ति । घान्तादयं विधीयते तत्र नास्ति विशेषः ‐ -मिदचोन्त्यात्पर इति वा(1) परत्वे प्रत्ययः पर इति वा परत्वे ।। अथापि कथं चिदित्कार्यं स्यादेवमपि न दोषः ‐ -क्रियते न्यास एव ।। अथ वाऽस्त्वस्य ग्रहणं को दोषः ? ।। इह-पचतितरां जल्पतितरां, ‐ ह्रस्वनद्यापो नुडिति, नुट्प्रसज्येत ।। लोपे कृते न भविष्यति ।। इदमिह संप्रधार्थं लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? ।। परत्वान्नुट् ।। एवं तर्हि ह्रस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ।। अथास्य कस्मान्न भवति ङेराम्नद्याम्नीभ्यःथ्द्य;ति ? ।। किं च स्यात् ? ।। कुमार्यां किशोर्यां खट्वायां मालायां तस्यां यस्यामिति, ‐ -ह्रस्वनद्याप नुडिति नुट्प्रसज्येत ।। आड्याट्स्याटोऽत्र बाधका भविष्यन्ति ।। इदमिह संप्रधार्यम् ‐ आड्याट्स्याटः क्रियन्तां, नुडिचि, ‐ किमत्र कर्तव्यम् ? ।। परत्वादाड्याट्स्याटः ।। अथेदानीमाड्याट्स्याट्त्सु कृतेषु पुनः प्रसङ्गान्नुट्कस्मान्न भवति ? ।। सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ।। (ह्रस्वनद्यापो) ।।